[highlight_content]

15 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चदशः सर्गः

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् ।

उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ।। 3.15.1 ।।

अथ शेषभूतस्य शेष्यभिमतकैङ्कर्यमेव कर्तव्यमिति दर्शयति पञ्चदशे तत इत्यादि । सौमित्रिं “रामं दशरथं विद्धि” इत्यादि सुमित्रानियोगेन रामकैङ्कर्योद्युक्तं दीप्ततेजसं कैङ्कर्योचितदेशलाभेन सन्तुष्टमित्यर्थः । व्यालाः दुष्टसर्पाः ।। 3.15.1 ।।

आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा ।

अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः ।। 3.15.2 ।।

आगता इति यथोद्दिष्टम् अगस्त्योक्तक्रमेण आगताः स्म । यं देशं मुनिरब्रवीत् सो ऽयं पञ्चवटीदेश इत्यर्थः ।। 3.15.2 ।।

सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि ।

आश्रमः कतरस्मिन्नो देशे भवति सम्मतः ।। 3.15.3 ।।

सर्वत्र कानने त्वया दृष्टिश्चार्यतां सर्वं काननमवलोक्यतामित्यर्थः । हिर्हेतौ । असीति त्वमित्यर्थे निपातः । यस्मात्त्वमाश्रमोचितस्थलपरिज्ञाने निपुणः तस्मात् कतरस्मिन् प्रदेशे सर्वेषां नः समम्त आश्रमो भवतीति सर्वत्र कानने दृष्टिश्चार्यतामित्यर्थः ।। 3.15.3 ।।

रमते यत्र वैदेही त्वमहं चैव लक्ष्मण ।

तादृशो दृश्यातां देशः सन्निकृष्टजलाशयः ।। 3.15.4 ।।

सर्वसम्मतत्वमुपपादयति रमत इति । त्वं रमस इति शेषः । अहं रमे इति च शेषः । सर्वरतिहेतुमाह सन्निकृष्टेति ।। 3.15.4 ।।

वनरामण्यकं यत्र स्थलरामण्यकं तथा ।

सन्निकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् ।। 3.15.5 ।।

तदेव विवृणोति वनेति । रामण्यकं रमणीयता । “योपधाद्गुरूपोत्तमाद्वुञ्” इति वुञि प्राप्ते ईकारलोपश्छान्दस इति बोध्यम् । वनस्य रमणीयता चूतपुन्नागादिमिश्रत्वम् । स्थलस्य रमणीयता निम्नोन्नतत्वरहितकोमलसिकतामयत्वम् । समित्पुष्पकुशोदकम् । “जातिरप्राणिनाम्” इत्येकवद्भावः । वनरामण्यकं कुसुमाभिलाषिण्याः सीतायाः रतिहेतुः । स्थलरामण्यकं सुखशयनादिकाङ्क्षिणो रामस्य । सन्निकृष्टसमिदादिमत्त्वं शुश्रूषमाणस्य सौमित्रेः ।। 3.15.5 ।।

एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः ।

सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ।। 3.15.6 ।।

एवं स्वसौख्यमप्युक्तवतो रामस्य वचनमसहमानः सौमित्रिः सीतायास्तव च यः प्रदेशो रमणीयः स एवाज्ञप्तव्यः न तु मे सौकर्यावह इत्याह एवमिति । सीतासमक्षमिति पुरुषकारसान्निध्योक्तिः ।। 3.15.6 ।।

परवानस्मि काकुस्थ त्वयि वर्षशतं स्थिते ।

स्वयं तु रुचिरे देशे क्रियातामिति मां वद ।। 3.15.7 ।।

परवानस्मि ममास्मिता तवास्मितावन्न भवति, पारतन्त्र्यैकवेषा ममास्मितेति भावः । काकुत्स्थ इदं च पारतन्त्र्यं न परत्वावस्थायामेव किन्त्ववतारावस्थायामपीत्यर्थः । इदं च पारतन्त्र्यं कियत्कालम्? तत्राह त्वयि वर्षशतं स्थित इति । शतशब्दः आनन्त्यवचनः । सार्वकालिकं मम पारतन्त्र्यमिति भावः । एवं पारतन्त्र्यस्यैव मत्स्वरूपत्वेन तदनुकूलतया त्वया आज्ञापनं कर्तव्यमित्याह स्वयमिति । स्वयं रुचिरे देशे तवैव रमणीये प्रदेशे आश्रमः क्रियतामिति मां वद ।। 3.15.7 ।।

सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः ।

विमृशन् रोचयामास देशं सर्वगुणान्वितम् ।। 3.15.8 ।।

विमृशन् पर्यालोचयन् । देशं कञ्चिदिति शेषः ।। 3.15.8 ।।

स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि ।

हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ।। 3.15.9 ।।

आक्रम्य स्वीयत्वेनाभिमन्य । आश्रमकर्मणि आश्रमनिमित्तं हस्तौ कृताञ्जलिकौ स्वहस्तेन गृहीत्वाब्रवीत् । स्नेहातिशयकृतानुभावो हस्तग्रहणम् ।। 3.15.9 ।।

अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः ।

इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ।। 3.15.10 ।।

समः समतलः । पुष्पितैः सञ्जातपुष्पैः । यथावत् यथायोग्यम् ।। 3.15.10 ।।

इयमादित्यसङ्काशैः पद्मैः सुरभिगन्धिभिः ।

अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ।। 3.15.11 ।।

आदित्यसङ्काशैः आदित्यविकसितैः, तद्वदुज्ज्वलैर्वा । “तुलसीकाननं यत्र यत्र पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः ।।” इत्युक्तरीत्या नित्यसन्निहितहरिभिरिति वा। सुरभिगन्धिभिः सौम्यगन्धयुक्तैः। “गन्धस्य” इत्यादिना इकारोन्तादेशः। “सुरभिर्मधुमासे स्याद्वसन्तर्तावपि त्रिषु। सौम्यै सुगन्धौ स्त्री धेन्वाम्” इति दर्पणः। “सर्वगन्धः सर्वरसः” इत्युक्तरीत्या सुरभिणा हरिणा। गन्धिभिः गन्धवद्भिरिति वा। पद्मिनी गोदावरीसमीपस्था पुष्करिणी। पद्मया शोभिता पद्मशोभिता। “ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम्” इति ह्रस्वः। हरिसान्निध्येन तन्नित्यानपायिन्या श्रिया च युक्तेत्यर्थः। अनेन श्लोकेन वासयोग्यत्वमुक्तम् ।। 3.15.11 ।।

यथाख्यातमगस्त्येन मुनिना भावितात्मना ।

इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता ।

हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ।। 3.15.12 ।।

यथाख्यातमित्यादि । अगस्त्येन यथाख्यातं तथेयं गोदावरी दृश्यत इत्यनुषङ्गः ।। 3.15.12 ।।

नातिदूरेण चासन्ने मृगयूथनिपीडिताः ।

मयूरनादिता रम्याः प्रांशवो बहुकन्दराः ।। 3.15.13 ।।

दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः ।। 3.15.14 ।।

नातिदूरेणचासन्न इति । अस्य गोदावर्या गिरिभिश्चान्वयः, काकाक्षिन्यायात् । मृगेत्यादि गिरिविशेषणम् । मयूरनादिताः मयूरनादयुक्ताः । इतच्प्रत्ययः । प्रांशवः उन्नताः । बहुकन्दराः विपुलगुहाः । “दरी तु कन्दरो वा स्री देवखातबिले गुहा” इत्यमरः । फुल्लैः विकसितपुष्पैः । “अनुपसर्गात् फुल्लक्षीबकृशोल्लघाः” इति निपातितः ।। 3.15.13,14 ।।

सौवर्णै राजतैस्ताम्रैर्देशे देशे च धातुभिः ।

गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ।। 3.15.15 ।।

देशे देशे नानादेशे वर्तमानैः सुवर्णादिसदृशैः धातुभिः परिणतत्वदशासङ्क्रान्तैः गैरिकैः । “धातवो गिरिसम्भवाः” इत्यमरः । उपलक्षिताः गजाः । परमभक्तिभिः उत्कृष्टरेखालङ्कारैः । गवाक्षिताः सञ्जातगवाक्षा इवाभान्ति । गजानां हि गवाक्षाकाराः भक्तीः कुर्वन्ति ।। 3.15.15 ।।

सालैस्तालैस्तमालैश्च खर्जूरपनसाम्रकैः ।

निवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः ।। 3.15.16 ।।

चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि ।

पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ।। 3.15.17 ।।

चन्दनैः स्पन्दनैर्नीपैः पर्णासैर्लिकुचैरपि ।

धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ।। 3.15.18 ।।

प्रीत्यतिशयेन वनं वर्णयति सालैरित्यादिना । सालैः सर्जकाख्यैर्वृक्षैः । तमालैः कालस्कन्धाख्यैः । खर्जूरैः खर्जूरवृक्षैः । पनसैः । आम्रकैः रसालभेदैः । निवारैः जलकदम्बैः । तिमिशैः नेमिद्रुमैः । पुन्नागैः । तिलकैः क्षुरकवृक्षैः । गुल्माः जातिप्रभृतयः । लताः माधवीप्रभृतयः । स्पन्दनैः तिमिशभेदैः । नीपैः स्थलकदम्बकैः । पर्णासैः करिञ्जराख्यैः । लिकुचैः धवैः अश्वकर्णैः खदिरैः शमीभिः किंशुकैः पलाशैः । पाटलैः । अत्र पूर्वश्लोकात् गिरयो दृश्यन्त इत्यनुषक्तपदाभ्यामन्वयः ।। 3.15.1618 ।।

इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् ।

इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा ।। 3.15.19 ।।

इदमिति । पुण्यं पुण्यप्रदम् । मेघ्यं पवित्रम् । एतेन अस्माभिः सहागतेन । पक्षिणा जटायुषा ।। 3.15.19 ।।

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।

अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ।। 3.15.20 ।।

परवीरहेति क्किप् छान्दसः । आश्रमम् अङ्गणादिविस्तारवदाश्रमप्रदेशम् ।। 3.15.20 ।।

पर्णशालां सुविपुलां तत्र सङ्खातमृत्तिकाम् ।

सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् ।। 3.15.21 ।।

शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम् ।

कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा ।। 3.15.22 ।।

समीकृततलां रम्यां चकार लघुविक्रमः ।

निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम् ।। 3.15.23 ।।

पर्णशालामित्यादि । तत्र आश्रमे । पर्णशालाम् उटजम् । सङ्खातमृत्तिकां भित्तीकृतमृत्तिकामित्यर्थः । मस्करैः वेणुभिः । “मस्करमस्करिणौ वेणुपरिव्राजकयोः” इति निपातनात्साधुः । कृतवंशां कृतगृहोर्ध्वकाष्ठाम् । “वंशस्तु पृष्ठास्थ्नि गृहोर्ध्वकाष्ठे वेणौ गुणे कुले” इति वैजयन्ती । वेणुमयस्तम्भोपरि प्रसारिततिर्यक्काष्ठामित्यर्थः । शमीशाखाभिरास्तीर्य तिर्यग्वेणूपरि शमीशाखाभिरास्तीर्य । दृढपाशावपाशितां दृढवल्कलादिकृतपाशैरवपाशितां सञ्जातपाशाम्, तिर्यग्वंशैः सह शमीशाखाः दृढं बद्ध्वेत्यर्थः । कुशकाशशरैः कुशादिरूपैः पर्णैः सुपरिच्छादितां सुशोभनं रमणीयं यथा तथा परिच्छादितां पर्णशालारूपं निवासं चकारेत्यन्वयः ।। 3.15.2123 ।।

स गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा ।

स्नात्वा पद्मानि चादाय सफलः पुनरागतः ।। 3.15.24 ।।

सफलः फलानि चादायेत्यर्तः ।। 3.15.24 ।।

ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि ।

दर्शयामास रामाय तदाश्रमपदं कृतम् ।। 3.15.25 ।।

पुष्पबलिं वास्तुपूजाम् । शान्तिम् आभ्युदयिकीं क्रियाम् । यथाविधि वास्तुकल्पानुसारेण ।। 3.15.25 ।।

स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया ।

राघवः पर्णशालायां हर्षमाहारयद्भृशम् ।। 3.15.26 ।।

पर्णशालायां विषये हर्षमाहारयत्, सन्तोषं प्राप्तवानित्यर्थः ।। 3.15.26 ।।

सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा ।

अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ।। 3.15.27 ।।

अतिस्निग्धं च गाढं चेति परिष्वङ्गक्रियाविशेषणम् ।। 3.15.27 ।।

प्रीतो ऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ।

प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ।। 3.15.28 ।।

प्रीत इति । हे प्रभो समर्थ त्वया इदं महत्कर्म कृतम् अतस्ते प्रीतो ऽस्मि । यन्निमितं यदाश्रमनिर्माणनिमित्तम् । प्रदेयः पारितोषिको ऽस्ति तन्निमित्तं मया परिष्वङ्गः कृतः । आश्चर्यभूतपर्णशालानिर्माणस्य उचितपारितोषिकान्तराभावात् परिष्वङ्गमेव दत्तवानस्मीत्यर्थः ।। 3.15.28 ।।

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।

त्वाया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ।। 3.15.29 ।।

भावज्ञेन मच्चित्तज्ञेन, सीतया सह रहसि स्थातुं मम स्थलं रचयेति रामो न वदेत् किन्तु मनसि कुर्यादिति तदपि ज्ञातवतेत्यर्थः । कृतज्ञेन चिरमपुत्रेण दशरथेन स्वस्मिन्नादरातिशयाद्येन क्रमेण चन्द्रताराबलालोचनपूर्वकं गृहं निर्मापितं तेन क्रमेण तत्कृतप्रकारज्ञेनेत्यर्थः । धर्मज्ञेन स्वयं राजपुत्रो ऽपि स्वोचितस्थलमकृत्वा यथा रामः सन्तुष्यति तथैव मया स्थातव्यमित्येवंविधधर्मज्ञेन त्वया पुत्रेण पुन्नाम्रो नरकात्त्रायत इति पुत्रः । ततो मदभिमतासिद्धिरेव स्वस्य निरय इत्यभिमेने, मदभिमतकरणेन तस्य निरयनिस्तारकेण त्वयेत्यर्थः । धर्मात्मा स्वयं यावज्जीवं मदभीष्टमेव कृत्वा स्वचरमकाले ऽपि मदभिमतकरणाय त्वां स्थापितवान् पानीयशालाप्रवर्तकवत् । मम पिता न संवृत्तः किन्तु त्वमेव त्वन्मुखेन पित्त्रा मम सर्वाभिलषितपरिपूरणात् अहं सर्वं करिष्यामीति हि त्वयोक्तमिति भावः ।। 3.15.29 ।।

एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः ।

तस्मिन् देशे बहुफले न्यवसत् सुसुखं वशी ।। 3.15.30 ।।

एवमिति । वशी विषयचापलरहितः ।। 3.15.30 ।।

कञ्चित् कालं स धर्मात्मा सीतया लक्ष्मणेन च ।

अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः ।। 3.15.31 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चदशः सर्गः ।। 15 ।।

अत्र एकत्रिंशच्छ्लोकाः ।। 3.15.31 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चदशः सर्गः ।। 15 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.