श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ।
राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ।। 3.27.1 ।।
त्रिशिरःशिरसां छेददृष्टान्तेन स्वसेविनाम् । दुःखत्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये ।। खरं त्विति । वाहिनीपतिः सेनापतिः । सन्निपत्य समीपमागत्येत्यर्थः ।। 3.27.1 ।।
मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् ।
पश्य रामं महाबाहुं संयुगे विनिपातितम् ।। 3.27.2 ।।
साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति मयेति शेषः ।। 3.27.2 ।।
प्रतिजानामि ते सत्यमायुधं चाहमालभे ।
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ।। 3.27.3 ।।
आलभे स्पृशामि । प्रतिज्ञाप्रकारमाह यथेति । सर्वरक्षसां सर्वरक्षोभिः ।। 3.27.3 ।।
अहं वास्य रणे मृत्युरेष वा समरे मम ।
विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव ।। 3.27.4 ।।
मृत्युः मारयिता । प्राश्निकः जयापजयनिर्णायकः ।। 3.27.4 ।।
प्रहृष्टे वा हते रामे जनस्थानं प्रयास्यसि ।
मयि वा निहते रामं संयुगायोपयास्यसि ।। 3.27.5 ।।
प्रहृष्टे गर्विष्ठे । संयुगाय युद्धं कर्तुम् । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी ।। 3.27.5 ।।
खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः ।
गच्छ युद्ध्येत्यनुज्ञातो राघवाभिमुखो ययौ ।। 3.27.6 ।।
मृत्युलोभात् मृत्युना कृतो लोभो युद्धलोभस्तमात् । प्रसादितः निवर्तित इति यावत् । युद्ध्य युद्धं कुरु । अनुज्ञातः खरेणेति शेषः । त्रिशिरा इति सिद्धम् ।। 3.27.6 ।।
त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ।
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पवर्तः ।। 3.27.7 ।।
त्रिशिराश्चेति चकारो न समुच्चयार्थः ।। 3.27.7 ।।
शरधारासमूहान् स महामेघ इवोत्सृजन् ।
व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः ।। 3.27.8 ।।
शरा एव धाराः आसाराः तासां समूहान् । जलार्द्रस्येति । दुन्दुभिशब्दः पुंलिङ्गः । “भेरी स्त्री दुन्दुभिः पुमान्” इत्युक्तेः । दुन्दुभेः दुन्दुभिनादस्य । जलार्द्रस्येत्यनेनास्य हीनस्वरत्वमुक्तम् ।। 3.27.8 ।।
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ।
धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ।। 3.27.9 ।।
धनुषा सायकान् विधून्वन् कम्पयन्, मुञ्चन्निति यावत् ।। 3.27.9 ।।
स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान् ।
बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ।। 3.27.10 ।।
सम्प्रहारो युद्धम् ।। 3.27.10 ।।
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः ।
अमर्षी कुपुतो रामः संरब्धमिदमब्रवीत् ।। 3.27.11 ।।
संरब्धं सकोपमित्यर्थः । लोके कश्चित्कुपितो ऽपि वचनेन कोपं न प्रकटयति, अयं तु प्रकटयतीति भावः ।। 3.27.11 ।।
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ।
पुष्पैरिव शरैर्यस्य ललाटे ऽस्मि परिक्षतः ।। 3.27.12 ।।
ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् ।
एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् ।
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ।। 3.27.13 ।।
अहो इत्यादि व्यङ्ग्योक्तिः । विक्रमः पराभिभवनं तत्र शूरस्य समर्थस्येत्यर्थः । ईदृशमित्यस्यैव विवरणम् पुष्पैरिवेत्यर्धम् । ललाटे स्वललाटे । लालाटे स्वल्पापि क्षतिर्बधिका भवति सापि नास्तीति सूचयितुं पुष्पतौल्यम् । चापगुणः चापमुर्वी । संरब्धः सन्नेवमुक्त्वा क्रुद्धो निजघानेत्यन्वयः ।। 3.27.12,13 ।।
चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः ।
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ।। 3.27.14 ।।
सन्नतपर्वभिः ऋजुपर्वभिः । वाजिनः वेगवतः ।। 3.27.14 ।।
अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ।
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ।। 3.27.15 ।।
रथोपस्थे रथोपरिभागे ।। 3.27.15 ।।
ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् ।
बिभेद रामस्तं बाणैर्हृदये सो ऽभवज्जडः ।। 3.27.16 ।।
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ।
शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ।। 3.27.17 ।।
हतरथात् हतहयसारथिकरथात् । हृदये वक्षसि बिभेदेत्यन्वयः । जडः निश्चेष्टः ।। 3.27.16,17 ।।
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ।
न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः ।। 3.27.18 ।।
पूर्वं पतितैः शिरोभिः हेतुभिः स्वयं न्यपतत् ।। 3.27.18 ।।
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः ।
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ।। 3.27.19 ।।
तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् ।
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ।। 3.27.20 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः ।। 27 ।।
खरसंश्रयाः खरसेवकाः ।। 3.27.19,20 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तविंशः सर्गः ।। 27 ।।