श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वात्रिशं सर्गः
ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश ।
हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ।। 3.32.1 ।।
दूषणं च खरं चैव हतं त्रिशिरसा सह ।
दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ।। 3.32.2 ।।
तपोबाहुबलोपेतं सर्वभूतभयङ्करम् । यो हनिष्यति दुर्बुद्धिं रावणं सो ऽस्तु मे मुदे ।। तत इति । शूर्पणखीत्यार्षो ङीषादिः । महानादमिति क्रियाविशेषणम् ।। 3.32.1,2 ।।
सा दृष्ट्वा कर्म रामस्य कृतमन्यै सुदुष्करम् ।
जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ।। 3.32.3 ।।
कृतं कर्म पर्याप्तं कर्म । परमोद्विग्ना अत्यन्तभीता ।। 3.32.3 ।।
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् ।
उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ।। 3.32.4 ।।
विमानाग्रे पुष्पकविमानाग्रे । उपोपविष्टम् उपोपेत्येकनिपातः । उपनिविष्टमित्यर्थः । मरूद्भिः देवैः ।। 3.32.4 ।।
आसीनं सूर्यसङ्काशे काञ्चने परमासने ।
रूक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ।। 3.32.5 ।।
देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।
अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ।। 3.32.6 ।।
रुक्मवेदिगतं हिरण्येष्टकाचितवेदिगतम् । तदुक्तमापस्तम्बेन “सावित्रं स्वर्गकामश्चिन्वीत पञ्चाशीतिशतं हिरण्येष्टकाः” इत्यादिना । प्रभूतमाज्यं यस्य तं प्राज्यम्, प्रभातेनाज्येन वर्धितमित्यर्थः । अत एव ज्वलन्तम् ।। 3.32.5,6 ।।
देवासुरविमर्देषु वज्राशनिकृतव्रणम् ।
ऐरावतविषाणाग्रैरुद्घृष्टकिणवक्षसम् ।। 3.32.7 ।।
विमर्देषु युद्धेषु वज्राशनिकृतव्रणमित्यनेन तदवध्यत्वमुक्तम् । उद्घृष्टम् उल्लेखम् । भावे क्तः । तेन जातो यः किणः तदङ्कितवक्षसम् ।। 3.32.7 ।।
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ।
विशालवक्षसं वीरं राजलक्षणशोभितम् ।। 3.32.8 ।।
विंशद्भुजं विंशतिभुजम् । दर्शनीयपरिच्छदं दर्शनीयच्छत्त्रचामरादिकम् ।। 3.32.8 ।।
स्निग्धवैडूर्यसङ्काशं तप्तकाञ्जनकुण्डलम् ।
सुभुजं शुक्लदशनं महास्यं पर्वातोपमम् ।। 3.32.9 ।।
स्निग्धवैडूर्यैः कान्तियुक्तवैडूर्यरत्नैः आभरणस्थैः सङ्काशं भासमानम् । सुभुजं दीर्घवृत्तभुजम् ।। 3.32.9 ।।
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे ।
अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ।। 3.32.10 ।।
विष्णुचक्रनिपातैरित्यत्र ताडितमित्यनुषज्यते ।। 3.32.10 ।।
आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा ।
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ।। 3.32.11 ।।
क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् ।
उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ।। 3.32.12 ।।
क्षोभणं क्षोभकर्तारम् । योक्तारं प्रयोक्तारम् । यज्ञेति । उच्छेत्तारमित्यत्र उच्छास्त्रवर्तित्वमुक्तम् । अत्र परयज्ञध्वंसकत्वम् ।। 3.32.11,12 ।।
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ।
पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ।। 3.32.13 ।।
भोगवतीं सर्पनगरीं पराजित्य बलात्कृत्येति यावत् ।। 3.32.13 ।।
तक्षकस्य प्रित्यां भार्यां पराजित्य जहार यः ।
कैलासपर्वतं गत्वा विजित्य नरवाहनम् ।। 3.32.14 ।।
नरवाहनं कुबेरम् ।। 3.32.14. ।।
विमानं पुष्पकं तस्य कामगं वै जहार यः ।
वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ।। 3.32.15 ।।
नलिनीं कुबेरस्य पुष्करिणीम् । नन्दनं वनम् इन्द्रोद्यानं देवोद्यानानि नन्दनवनादन्यानि ।। 3.32.15 ।।
विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यावान् ।
चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ ।। 3.32.16 ।।
उत्तिष्ठन्तौ उद्यन्तौ ।। 3.32.16 ।।
निवारयति बाहुभ्यां यः शैलशिखरोपमः ।
दशवर्षसहस्राणि तपस्तप्त्वा महावने ।। 3.32.17 ।।
उपजहार पूजोपकरणानि चकार ।। 3.32.17 ।।
पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः ।
देवदानवगन्धर्वपिशाचपतगोरगैः ।। 3.32.18 ।।
अभयं यस्य सङ्ग्रमे मृत्युतो मानुषादृते ।
मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ।। 3.32.19 ।।
हविर्धानेषु यः सोममुपहन्ति महाबलः ।
आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ।। 3.32.20 ।।
देवदानवेति देवादिभिः कर्तृभिः । मृत्युतः मृत्योः । षष्ठ्यर्थे तसिः । अभयं भयाभावः अस्तीति गम्यमानत्वादप्रयोगः । मनुष्यादृते मनुष्यं विना, मनुष्यात्तु भयमस्तीत्यर्थः । अध्वरेषु यागेषु हविर्धानेषु सोमाभिषवशालासु । मन्त्रैः प्रातरनुवाकग्रावस्तोत्रादिभिः करणैः । द्विजातिभिः कर्तृभिः । अभिष्टुतं क्षरितं सोमम् उपहन्ति होमकाले नाशयतीत्यर्थः । आप्तयज्ञहरम् आप्तान् दक्षिणाकालं प्राप्तान् यज्ञान् हरतीति तथा ।। 3.32.1820 ।।
कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ।
रावणं सर्वभूतानां सर्वलोकभयावहम् ।
राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ।। 3.32.21 ।।
कर्कशं निर्दाक्षिण्यम् । निरनुक्रोशं निर्दयम् । रावणं रावकं सा ददर्श महाबलमित्युपसंहारः, अतो न सर्गादिस्थेन ददर्शेतिपदेन पौनरुक्त्यम् ।। 3.32.21 ।।
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ।
आसने सूपविष्टं च कालकालमिवोद्यतम् ।। 3.32.22 ।।
कालकालं मृत्योपरि मृत्युम् । उद्यतम् उद्युक्तम् ।। 3.32.22 ।।
राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ।
रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ।। 3.32.23 ।।
अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला ।। 3.32.24 ।।
पौलस्त्यानां कुलं नन्दयतीति तथा ।। 3.32.23,24 ।।
तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्च्छिता ।
सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ।। 3.32.25 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वात्रिशं सर्गः ।। 32 ।।
पुनः सर्गान्ते सङ्ग्रहश्लोकः तमिति । प्रदर्शयित्वा स्वकं वैरूप्यमिति शेषः । विरूपितेत्युक्तेः अभीततया सर्वपुरुषेषु सर्वलोके चारो ऽस्या अस्तीति सा ।। 3.32.25 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वात्रिंशः सर्गः ।। 32 ।।