श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः
तया परुषमुक्तस्तु कुपितो राघवानुजः ।
स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव ।। 3.46.1 ।।
अथ सीतायाः लक्ष्मणविषयपरुषभाषणफलं दर्शयत्येकादशभिः सर्गैः । रावणप्रलोभनमाह षट्चत्वारिंशे तया परुषमित्यादि । विकाङ्क्षन् अनिच्छन्नेव राममुद्दिश्य प्रतस्थे । नचिरादिव अविलम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादाकर्षतः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य भावः ।। 3.46.1 ।।
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।
अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ।। 3.46.2 ।।
तदिति । आस्थितः अवकाशं प्रतीक्षमाणः स्थितो दशग्रीवः । तदेव अन्तरम् अवकाशम् । आसाद्य वैदेहीम् अभिचक्राम आभिमुख्येनाजगाम । परिव्राजको भिक्षुः तस्य रूपं लिङ्गं धारयतीति परिव्राजकरूपधृत् ।। 3.46.2 ।।
श्लक्ष्णकाषायसंवीतः शिखी छत्त्री उपानही ।
वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू ।
परिव्राजकरूपेण वैदीहीं समुपागमत् ।। 3.46.3 ।।
परिव्राजकलिङ्गान्याह श्लक्ष्णेति । शिखी अदन्तत्वाभावे ऽपि व्रीह्यादित्वादिनिः । छत्त्रीत्यत्र वाक्यसन्धेरनित्यत्वेन यणभावः । उपानहीत्यत्र इनिरार्षः । यष्टिः त्रिदण्डम् । शिखीत्यनेन साहचर्यात् । अत्र धर्मप्रधानजनककुलनन्दियाः सीताया विश्वासाय धृतत्वादित्थमेव यतिलिङ्गमिति दर्शितम् । तथाहाङ्गिराः “यतेर्लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः । बह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् । शिक्यं पात्रं बृसी चैव कौपीनं कटिवेष्टनम् । यस्यैतद्विद्यते लिङ्गं स यतिर्नेतरो यतिः ।।” इति। परिव्राजकरूपेणेत्यनेन ब्रह्मसूत्रादिकमुक्तम्। समुपागमदिति प्रतिपाद्यार्थभेदात् पुनः पुनः क्रियापदप्रयोगः ।। 3.46.3 ।।
तामाससादातिबलो भ्रातृभ्यां रहितां वने ।
रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः ।। 3.46.4 ।।
तामिति । भ्रातृभ्यां रामलक्ष्मणाभ्याम् । महत्तम इत्यभूतोपमा, सन्ध्यायां महतस्तमसो ऽसम्भवात् ।। 3.46.4 ।।
तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ।
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः ।। 3.46.5 ।।
तामिति । ग्रहः अङ्गारकः शनैश्चरो वा स रोहिणीमिव भृशदारुणो रावणस्तामपश्यत् । यथा रोहिण्याः क्रूरग्रहवीक्षणं लोकानर्थकरं तथा रावणस्य सीतावीक्षणमिति भावः ।। 3.46.5 ।।
तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः ।
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ।। 3.46.6 ।।
दारुणत्वं प्रकटयति तमुग्रमिति ।। 3.46.6 ।।
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।
स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ।। 3.46.7 ।।
शीघ्रस्रोताः शीघ्रप्रवाहा । वीक्षन्तं वीक्षमाणम् । स्तिमितमिति क्रियाविशेषणम् ।। 3.46.7 ।।
रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे ।
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ।। 3.46.8 ।।
रामस्येति । रामस्य अन्तरप्रेप्सुः विश्लेषान्वेषी । तदन्तरे तस्मिन्नवकाशे । प्रथमं सीतामुद्दिश्य गमनम् अथाश्रमसमीपगमनं ततः सीतादर्शनं ततः सन्निकर्षगमनमिति क्रमः ।। 3.46.8 ।।
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ।
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।। 3.46.9 ।।
अथाभिमुखगमनमाह अभव्य इति । अभव्यः दुर्जनः । भव्यरूपेण सुजनरूपेण । अनुशोचतीमिति आगमशासनस्यानित्यत्वान्नुमभावः ।। 3.46.9 ।।
स पापो भव्यरूपेण तृणैः कूप इवावृतः ।
अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ।। 3.46.10 ।।
स इति । पापः अन्तः पापात्मा । भव्यरूपेम बाह्याकारेणोपलक्षितः ।। 3.46.10 ।।
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ।
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ।। 3.46.11 ।।
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ।
अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ।। 3.46.12 ।।
बाष्पशोकाभिपीडितां रामार्तस्वरश्रवणेन बाह्यभ्यन्तरास्वास्थ्यवतीम् । पीतकौशेयं वस्ते इति पीतकौशेयवासिनीम् । णिन्यन्तात् ङीप् । अभ्यगच्छत पूर्वस्मादपि सन्निकर्षं प्राप्तः ।। 3.46.11,12 ।।
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ।
अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ।। 3.46.13 ।।
स इति । ब्रह्मघोषम् “उपनिषदमावर्तयेत्” इत्युक्तपरिव्राजकोचितवेदघोषम् । प्रश्रितं विनयान्वितम् । रहिते विजनप्रदेशे ।। 3.46.13 ।।
तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ।
विभ्राजमानां वपुषा रावणः प्रशशंस ह ।। 3.46.14 ।।
तामिति । लोके उत्तमां स्त्रियमित्यन्वयः । प्रश्रितं वाक्यमब्रवीदित्यस्यैव विवरणं प्रशशंसेति ।। 3.46.14 ।।
का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ।
कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ।। 3.46.15 ।।
काञ्चनवर्णाभे काञ्चनतुल्यवर्णे कमलानां मालां बिभ्रती पद्मिनीव स्थिता पद्मतुल्यमुखनयनपाणिपादविशिष्टत्वादिति भावः ।। 3.46.15 ।।
ह्रीः कीर्तिः श्रीः शुभा लक्ष्मीरप्सरा वा शुभानने ।
भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ।। 3.46.16 ।।
ह्रीः विष्णुपत्नी भूमिः । “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ” इति श्रुतेः । श्रीः कमला । लक्ष्मीः कान्त्यधिष्ठानदेवता । रतिः मन्मथस्त्री । स्वैरचारिणी स्वतन्त्रा ।। 3.46.16 ।।
समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव ।
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ।। 3.46.17 ।।
विशालं जघनं पीनमूरू करिकरोपमौ ।। 3.46.18 ।।
समाः वैषम्यरहिताः । शिखराणि अग्राणि प्रशस्तानि सन्तीति शिखरिणः । प्रशंसायामिनिः । कुन्दकुड्मलवत् प्रशस्ताग्रा इत्यर्थः । स्निग्धाः मसृणाः । रक्तान्ते रक्तरेखायुक्तान्ते । जघनं कटिपुरोभागः । “पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः” इत्यमरः ।। 3.46.17,18 ।।
एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ ।
पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ ।
मणिप्रवेकाभरणै रुचिरौ ते पयोधरौ ।। 3.46.19 ।।
एताविति । उपचितौ उन्नतौ । वृत्तौ वर्तुलौ । संहतौ अन्योन्यसंश्लिष्टौ । सम्यक् प्रकृष्टं वल्गितं चलनं ययोस्तौ सम्प्रवल्गितौ गुरुत्वौन्नत्याभ्यां किञ्चिच्चलन्ताविव स्थितावित्यर्थः । पीनोन्नतमुखौ क्वचित् स्तनयोः पीनत्वे ऽप्यग्रे औन्नत्यं पीनत्वं च न स्तः तथा न भवत इमौ किन्तु पीनम् उन्नतं च मुखं ययोस्तौ । कान्तौ काम्यमानौ । मणिप्रवेकाभरणौ मणिप्रवेकाः मणिश्रेष्ठाः । “प्रवेकानुत्तमोत्तमौ” इत्यमरः । ते मालात्मकाः आभरणं ययोस्तौ । रुचुरौ शोभमानौ । सूक्ष्मतरकौशेयोत्तरीयचलनवशेन हठाद् दृष्टः प्रकारो दुरात्मना वर्ण्यते ।। 3.46.19 ।।
चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।
मनोहरसि मे कान्ते नदी कूलमिवाम्भसा ।। 3.46.20 ।।
चारुस्मित इति । चारवो दन्ता यस्याः सा चारुदती । आर्षो दन्तस्य दत्रादेशः छन्दोवद्भावेन “छन्दसी च” इति सूत्रेण समासान्तो दन्तस्य दत्रादेशो वा “उगितश्च” इति ङीप् । समा इत्यादिना पूर्वोक्तस्य सामान्योक्तिरियं चारुस्मितत्वनिर्वाहाय विलासो ऽम्भस्थानीयः अतो न न्यूनोपमा ।। 3.46.20 ।।
करान्तमितमध्यासि सुकेशी संहतस्तनी ।। 3.46.21 ।।
करान्तेति । करान्तेन करतलाङ्गुष्ठप्रदेशिनीचक्रमानेन मितं परिच्छिन्नं मध्यं यस्याः सा । संहतस्तनीति पर्वं संहतावित्युक्तकल्पे ऽपि पुनरुक्तिर्दुर्लभलक्षणत्वविस्मयेन ।। 3.46.21 ।।
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।। 3.46.22 ।।
एवंरूपा देवी देवस्त्री देवलोके न दृष्टा, एवमुत्तरत्रापि योज्यम् । नारी मनुष्यस्त्री ।। 3.46.22 ।।
रूपमग्य्रं च लोकेषु सोकुमार्यं वयश्च ते ।
इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ।। 3.46.23 ।।
लोकेष्वग्य्रं श्रेष्ठं रूपं लावण्यं रूपादीनि कान्तारवासश्च उन्मादयन्ति परस्परविरुद्धत्वात् । किमत्र तवागमनमिति निर्णयबुद्धिं न जनयन्तीत्यर्थः ।। 3.46.23 ।।
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ।
राक्षसानामयं वासो घोराणां कामरूपिणाम् ।। 3.46.24 ।।
सेति । प्रतिक्राम प्रतिनिवर्तस्व, निलयमिति शेषः । वस्तुं स्थातुम् ।। 3.46.24 ।।
प्रासादाग्राणि रम्याणि नगरोपवनानि च ।
सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ।। 3.46.25 ।।
सम्पन्नानि समृद्धानि । आचरितुं सञ्चरितुम् ।। 3.46.25 ।।
वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने ।
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ।। 3.46.26 ।।
वरमिति । वरं श्रेष्ठम् । माल्यादि त्वद्युक्तं तव योग्यं मन्ये न तु यादृशतादृशम् । एमुत्तरत्रापि । यद्वा माल्यादिकं त्वद्युक्तं त्वत्सम्बद्धं सत् वरं प्रशस्तं भवतीति मन्ये ।। 3.46.26 ।।
का त्वं भवसि रुद्राणां मरूतां वा वरानने ।
वसूनां वा वरारोहे देवता प्रतिभासि मे ।। 3.46.27 ।।
का त्वमिति । त्वं मे दवेता देवस्त्रीति प्रतिभासि । तत्र का त्वं किं रुद्राणां सम्बन्धिनी उत मरुताम् आहोस्विद्वसूनां सम्बन्धिनी । वाकरः समुच्चयार्थः । तेन किमादित्यानामित्यपि सिद्ध्यति ।। 3.46.27 ।।
नेह गच्छन्ति गन्धर्वा न देवा न च किन्निराः ।
राक्षसानामयं वासः कथं नु त्वमिहागता ।। 3.46.28 ।।
तत्रापि संशयनिवृत्तिमाह नेहेति ।। 3.46.28 ।।
इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ।
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ।। 3.46.29 ।।
भयहेत्वन्तरमाह इहेति । शाखामृगाः वानराः । द्वीपं चर्म तद्योगात् द्वीपिनो बालव्याघ्राः । व्याजिघ्रन्तीति व्याघ्राः द्वीप्यपेक्षया किञ्चिन्महान्तो ऽमी । तरक्षवो मृगादनाः महाव्याघ्राः । न बिभ्यसि न बिभेषि । कङ्काः मांसादा भयङ्कराकृतयः पक्षिविशेषाः ।। 3.46.29 ।।
मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ।
कथमेका महारण्ये न बिभेषि वरानने ।। 3.46.30 ।।
प़ञ्चम्यर्थे षष्ठी । तरस्विनां बलवताम् ।। 3.46.30 ।।
का ऽसि कस्य कुतश्चित्वं किन्निमित्तं च दण्डकान् ।
एका चरसि कल्याणि घोरान् राक्षससेवितान् ।। 3.46.31 ।।
का ऽसीति । का ऽसि किन्नामधेया ऽसि । कस्य सम्बन्धिनी कुतः कस्माद्देशादागता ऽसि ।। 3.46.31 ।।
इति प्रशस्ता वैदेही रावणेन दुरात्मना ।
द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम् ।
सर्वैरतिथिसत्कारैः पूजयामास मैथिली ।। 3.46.32 ।।
इतीति । द्विजातिवेषेण सन्न्यासिवेषेण । हितं सहितम् । सत्क्रियते एभिरिति सत्काराः पूजाद्रव्याणि तैः ।। 3.46.32 ।।
उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।
अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ।। 3.46.33 ।।
उक्तं विवृणोति उपनीयेति । पाद्येन पादोदकेन । अभिनिमन्त्र्य सत्कृत्य । तदा पाद्यप्रदानानन्तरं सिद्धमित्येवाब्रवीत् । पक्वान्नं सिद्धमित्यब्रवीत् ।। 3.46.33 ।।
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् ।
अशक्यमुद्द्वेष्टुमपायदर्शनं न्यमन्त्रयद् ब्राह्मणवत्तदाङ्गाना ।। 3.46.34 ।।
उक्तमर्थं सर्गान्तश्लोकाभ्यां विवृणोति द्विजातीत्यादि । द्विजातिवेषेण समागतम् । पात्रम् अलाबुप्रभृतिष्वेकं कुसुम्भं महारजताख्यरञ्जकद्रव्यविशेषरक्तं वस्त्रम् । “तेन रक्तम्” इति प्राप्तस्याणो लोप आर्षः । यद्वा कुसुम्भः कमण्डलुः । “स्यान्महारजने क्लीबं कुसुम्भं करके पुमान्” इत्यमरः । तदुभयधारिणम् । अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । अत एव उद्द्वेष्टुं भोजयितुमशक्यं तं समीक्ष्य मैथिली ब्राह्मणवत् ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रयत् । ब्राह्मणातिथिवन्निमन्त्रितवतीत्यर्थः । यद्वा ब्राह्मणवत् ब्राह्मणार्हम् “तदर्हम्” इति वतिः । यद्वा मैथिली जनककुलजाततया तद्व्यवहारपरिपाटीविज्ञातकपटवेषा ऽपि सन्न्यासिवेषधारणमात्रेण उद्द्वेष्टुं द्वेषं कर्तुम् अशक्यं तं न्यमन्त्रयत् । “काषायदण्डमात्रेण यतिः पूज्यो न संशयः” इति वचनादिति भावः ।। 3.46.34 ।।
इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।
इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ।। 3.46.35 ।।
सत्कारप्रकारमाह इयमिति । इंय बृसी मुनीनामासनम् । आस्यतां त्वदर्थं सिद्धं पक्वम् इदं वनजातं कन्दमूलफलादिकम् । इह स्थले अव्यग्रमुपभुज्यताम् । इतिकरणस्य उत्तरश्लोके ऽन्वयः ।। 3.46.35 ।।
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।
प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्मवधाय रावणः ।। 3.46.36 ।।
निमन्त्र्यमाण इति । प्रतिपूर्णभाषिणीं सर्वं सम्पन्नमित्यतिथये वक्तव्यं वचनं भाषमाणम् । धृतं धीरं यथा तथा मनोविशेषणं वा । तस्या हरणे मनः समार्पयत् निहितवान् ।। 3.46.36 ।।
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा ।
विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ।। 3.46.37 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः ।। 46 ।।
सुवेषं शोभनाकारम् । मृगयागतं मृगयार्थं गतं पतिं प्रतीक्षमाणा प्रतिपालयन्ती हरितं यत्र गतौ तौ तां दिशं विवीक्षमाणा विविधं पश्यन्ती । महद्वनमेव ददर्श रामलक्ष्मणौ तु न ददर्श ।। 3.46.37 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ।। 46 ।।