श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिसप्ततितमः सर्गः
निदर्शयित्वा रामाय सीतायाः प्रतिपादने ।
वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ।। 3.73.1 ।।
अथ कबन्धः सुग्रीवस्थानमार्गं दर्शयित्वा गत इत्याह त्रिसप्ततितमे निदर्शयित्वेत्यादि । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा प्रदर्श्य “क्त्वा च च्छन्दसि” इति क्त्वाप्रत्ययः । पूर्वोक्तमुपायमिति शेषः ।। 3.73.1 ।।
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।
प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ।। 3.73.2 ।।
जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः ।
अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादापाः ।। 3.73.3 ।।
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः ।
नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ।
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ।। 3.73.4 ।।
ऋश्यमूकमार्गं सचिह्नं दर्शयति एष इति । शिवः शोभनः शोभनत्वमेवाह यत्रेति । द्रुमान् विशेषयति सार्धद्वयेन जम्ब्वित्यादि । प्रियालाः धनुःपटाख्या वृक्षाः वटभेदाः । तिन्दुकाः स्फूर्जकाख्या वृक्षाः । धन्वनाः धवाः । नागवृक्षाः नागकेसराः । तिलकाः क्षुरकवृक्षाः । नक्तमालकाः चिरिबिल्वाख्याः । करवीराः प्रतिहासाख्या वृक्षाः । अग्निमुख्याः भल्लातकीवृक्षाः । सुरक्ताः रक्तचन्दनाः । पारिभद्रकाः निम्बाः ।। 3.73.24 ।।
तानारूह्याथवा भूमौ पातयित्वा च तान् बलात् ।
फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ।। 3.73.5 ।।
तानिति । पातयित्वा नमयित्वा तानारुह्य अथवा भूमौ तान् पातयित्वा वेत्यन्वयः ।। 3.73.5 ।।
तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ।
नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव ।। 3.73.6 ।।
तदिति । तद्वनमतिक्रम्य नन्दनप्रतिममन्यद्वनं पश्यतमिति शेषः । उत्तरकुरुसाम्यं सर्वकामसमृद्ध्या ।। 3.73.6 ।।
सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः ।
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ।। 3.73.7 ।।
फलभारानतास्तत्र महाविटपधारिणः ।
शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः ।। 3.73.8 ।।
तानारुह्याथ वा भूमौ पातयित्वा यथासुखम् ।
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ।। 3.73.9 ।।
तद्वनं वर्णयति त्रिभिः सर्वेत्यादि । मधु पुष्परसं स्रवन्तीति मधुस्रवाः । सर्वैः काम्यमानानि फलानि येषां ते सर्वकामफलाः । ऋतवः षट् ऋतवः वसन्तीति शेषः । चैत्ररथे कुबेरोद्याने तत्र वने महाविटपधारिणः । “विस्तारो विटपो ऽस्त्रियाम्” इत्यमरः । पादपा इत्यनुषङ्गः । तत्र मेघपर्वतसन्निभाः तत्र विद्यमानाः मेघपर्वता इव स्थिता इत्यर्थः ।। 3.73.79 ।।
चङ्क्रमन्तौ वरान् देशान् शैलाच्छैलं वनाद्वनम् ।
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ।। 3.73.10 ।।
अशर्करामविभ्रंशां समतीर्थामशैवलाम् ।
राम स़ञ्चातवालूकां कमलोत्पलशालिनीम् ।। 3.73.11 ।।
चङ्क्रमन्ताविति श्लोकद्वयमेकं वाक्यम् । चङ्क्रमन्तौ चङ्क्रममाणौ पुनःपुनः गच्छन्तौ । पुष्करिणीं सरसीम् । अशर्करां शर्करारहिताम् । अविभ्रंशाम् अशिथिलतटाम् । समतीर्थाम् अवतारस्थले ऽतिनिम्नत्वात्यगाधत्वरहिताम् । सञ्जातवालूकाम् अपङ्कतया संहतसिकताम् । दीर्घ आर्षः ।। 3.73.10,11 ।।
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ।
वल्गुस्वना निकूजन्ति पम्पासलिलगोचराः ।। 3.73.12 ।।
तत्रेति । प्लवाः मम्डूकाः हंसभेदा वा । कुरराः क्रोञ्चभेदाः । वल्गुस्वराः रम्यस्वनाः । सलिलगोचराः सलिलचारिणः । गोचरः सञ्चारः ।। 3.73.12 ।।
नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः ।
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिश्यथः ।। 3.73.13 ।।
वधस्याकोविदाः वधमजानानाः । नोद्विजन्ते न बिभ्यति । द्विजा इति शेषः, तानित्यनुवादात् ।। 3.73.13 ।।
रोहितान् वक्रतुण्डांश्च नडमीनांश्च राघव ।
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान् ।। 3.73.14 ।।
निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् ।
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति ।। 3.73.15 ।।
रोहितानित्यादिश्लोकद्वयम् । रोहितान् पितृप्रियमत्स्यभेदान् । वक्रतुण्डान् वक्रमुखमत्स्यान् । नडमीनान् नडाख्यतृणविशेषस्तम्बसञ्चारशीलान् मत्स्यान् वरान् श्रेष्ठान् अयस्तप्तान्
अयःशूलाग्रप्रोततया पक्वान् । कृशाश्चानेककण्टकाश्च ते न भवन्तीत्यकृशानेककण्टकाः तान् ।। 3.73.14,15 ।।
भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसञ्चये ।
पद्मगन्धि शिवं वारि सुखशीतमनामयम् ।। 3.73.16 ।।
उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम् ।
असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ।। 3.73.17 ।।
भृशमित्यादिद्वावेकान्वयौ । पुष्पस़ञ्चये पुष्पसमूहे वर्तमानम् अत एव सुगन्धि शिवं पापापहम् । सुखशीतम् नातिशीतमित्यर्थः । अनामयम् अव्याधिकरमित्यर्थः । एवम्भूतं वारि पुष्करपर्णेन पद्मपत्रेण पम्पाया उद्धृत्य पाययिष्यति ।। 3.73.16,17 ।।
स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः ।
अपां लोभादुपावृत्तान् वृषभानिव नर्दतः ।। 3.73.18 ।।
रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ।। 3.73.19 ।।
स्थूलानित्यादिसार्धश्लोक एकान्वयः । गिरिगुहायां शय्या येषां तान् रूपान्वितान् । सौन्दर्यवतः ।। 3.73.18,19 ।।
सायाह्ने विचरन् राम विटपीन् माल्यधारिणः ।
शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि ।। 3.73.20 ।।
विटपीन् विटपिनः । इनिप्रत्ययस्य नलोपः आर्षः । माल्यधारिणः पुष्पधारिणः पुष्पविकासहेतुत्वात् सायाह्न इत्युक्तम् ।। 3.73.20 ।।
सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् ।
उत्पलानि च फुल्लानि पङ्कजानि च राघव ।। 3.73.21 ।।
सुमनोभिः चितान् निरन्तरान् । उत्पलानि इन्दीवराणि दृष्ट्वा शोकं विहास्यसीत्यत्राप्यनुषज्यते ।। 3.73.21 ।।
न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ।
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव ।। 3.73.22 ।।
आरोपयिता गृहीत्वा ग्रथिता । वनविस्तारात्पुष्पबाहुल्याच्च तानि म्लानतां न यान्ति । न शीर्यन्ति न शीर्यन्ते, शीर्णदलानि न भवन्तीत्यर्थः । मतङ्गशिष्यप्रभावाद्वा अनारोपणम् ।। 3.73.22 ।।
मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः ।
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ।। 3.73.23 ।।
ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः ।
तानि जातानि माल्यानि मुनीनां तपसा तदा ।
स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ।। 3.73.24 ।।
अग्राह्यत्वाम्लानत्वादौ निमित्तमाह मतङ्गेति । सार्धश्लोकद्वयमेकान्वयम् । मतङ्गो नाम महाप्रभावो महर्षिः तत्र पम्पातीरे । सुष्ठु समाहितं समाधिर्येषां ते तथा । वन्यमाहरताम् अत एव भाराभितप्तानाम् । तानीति विधेयापेक्षया नपुंसकत्वम् । स्वेबिन्दुसमुत्थानीति हेतुगर्भविशेषणम् । स्वेदबिन्दवो वायुना वृक्षोपरि नीता माल्यानि जातानीत्याशयः ।। 3.73.23,24 ।।
तेषामद्यापि तत्रैव दृश्यते परिचारिणी ।
श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ।। 3.73.25 ।।
तेषां मतङ्गशिष्याणां परिचारिणी श्रमणी सन्न्यासिनी शबरीति नाम शबरीति प्रसिद्धा ।। 3.73.25 ।।
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ।
दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ।। 3.73.26 ।।
धर्मे गुरुपरिचरणधर्मे ।। 3.73.26 ।।
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् ।
आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ।। 3.73.27 ।।
तत इति । तत् शबर्यावासभूतम् । गुह्यम् इतरैरदर्शनीयम् । पश्यसि द्रक्ष्यसि ।। 3.73.27 ।।
न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् ।
विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ।। 3.73.28 ।।
तस्मिन् वने वक्ष्यमाणे ऋश्यमूकपर्वते च विविधः नागाः गजाः सन्ति तथापि तमाश्रमं तत्र प्रदेशे स्थिताः नागाः नाक्रमितुं शक्नुवन्ति ।। 3.73.28 ।।
ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम् ।
[ मतङ्गवनमित्येव विश्रुतं रघुनन्दन ।।] ।। 3.73.29 ।।
अनाक्रमणे हेतुमाह ऋषेरिति । तस्य पूर्वोक्तस्य । विधानात् निर्माणात् तत्काननं जातमिति शेषः ।। 3.73.29 ।।
तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने ।
नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः ।। 3.73.30 ।।
देवारण्यं चैत्ररथादि । निर्वृतः निवृत्तदुःख इत्यर्थः ।। 3.73.30 ।।
ऋश्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः ।
सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ।
उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ।। 3.73.31 ।।
एवमनुग्रहार्थं शबर्याश्रमं गत्वा पुनः पम्पायाः पुरस्तादृश्यमूको गन्तव्य इत्याह सार्धश्लोकेन ऋश्येति । ऋश्या मृगाविशेषाः मूकाः निःशब्दा भवन्ति यस्मिन् सः ऋस्यमूकः । सुदुःखमारोहणं यस्य स तथा । तत्र हेतुः शिशुनागाभिरक्षित इति । अत्र नागाः गजा एव “विविधास्तत्र वै नागाः” इति पूर्वमुक्तत्वात् । उदारः प्रशस्तः । पूर्वकाले ब्रह्मणा उदारः प्रशस्तो निर्मितः । कुत्रचिन्निमित्ते अयं प्रशस्तो भवत्वित्यनुगृहीत इत्यर्थः ।। 3.73.31 ।।
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।
यत्स्वप्ने लभते वित्तं तत्प्रबुद्धो ऽधिगच्छति ।। 3.73.32 ।।
न त्वेनं विषमाचारः पापकर्माधिरोहति ।। 3.73.33 ।।
प्राशस्त्यमाह शयान इति ।। 3.73.32,33 ।।
यस्तु तं विषमाचारः पापकर्माधिरोहति ।
तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ।। 3.73.34 ।।
अतिशयान्तरमाह यस्त्विति ।। 3.73.34 ।।
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् ।
क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ।। 3.73.35 ।।
शिशुनागानां कलभानाम् । तत्रापीत्यत्रापिशब्दात् पम्पादिकं समुच्चीयते । अनेन ऋश्यमूकस्य पम्पासामीप्यमुक्तम् ।। 3.73.35 ।।
सिक्ता रुधिरधाराभिः संहृत्य परमद्विपाः ।
प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ।। 3.73.36 ।।
संहृत्य अन्योयं प्रहृत्य रुधिरधाराभिः सिक्ताः अत एव पृथक् कीर्णाः चरन्ति ।। 3.73.36 ।।
ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ।
[ अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम् ।। ]
निर्वृताः संविगाहन्ते वनानि वनगोचराः ।। 3.73.37 ।।
संविगाहन्ते प्रवशन्ति ।। 3.73.37 ।।
ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् ।
रुरूनपेतापजयान् दृष्ट्वा शोकं जहिष्यसि ।। 3.73.38 ।।
द्वीपिनः व्याघ्रान् । नीलकोमलकप्रभान् नीलरत्नवन्मनोज्ञप्रभान् । रुरून् मृगाविशेषान् । अपेतापजयान् जयशीलानित्यर्थः । जहिष्यसि त्यक्ष्यसि ।। 3.73.38 ।।
राम तस्य तु शैलस्य महती शोभते गुहा ।
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ।। 3.73.39 ।।
रामेति । शिला अपिधानमाच्छादनं यस्याः सा । अस्या गुहायाः प्रवेशनं दुःखं दुःखकरम्, उन्नतस्थानस्थितत्वादिति भावः ।। 3.73.39 ।।
तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः ।
फलमूलान्वितो रम्यो नानामृगसमावृत्तः ।। 3.73.40 ।।
महान् विशालः, अस्तीति शेषः । फलमूलान्वितः फलमूलान्विततीरः ।। 3.73.40 ।।
तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः ।
कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ।। 3.73.41 ।।
तस्यामिति । कदाचित् भूमाविति सिद्धम् ।। 3.73.41 ।।
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ।
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ।। 3.73.42 ।।
अनुशास्य उपदिश्य । स्रगस्यास्तीति स्नग्वी “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । भास्करवर्णाभः सूर्यप्रभातुल्यप्रभः । खे व्यरोचत रामानुज्ञानार्थं क्षणमतिष्ठदित्यर्थः ।। 3.73.42 ।।
तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ ।
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके ।। 3.73.43 ।।
तं त्विति । प्रस्थितौ सन्तौ सुखं व्रजस्व व्रज । इति अन्तिके ऊचतुः अन्तिके प्रस्थिताविति कबन्धसमीपमागत्योचतुरित्यर्थः ।। 3.73.43 ।।
गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च ।
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ।। 3.73.44 ।।
गम्यतामिति । प्रस्थितः स्वर्गमिति शेषः ।। 3.73.44 ।।
स तत्कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः ।
निदर्शयन् राममवेक्ष्य खस्थं सख्यं कुरुष्वेति तदाभ्युवाच ।। 3.73.45 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिसप्ततितमः सर्गः ।। 73 ।।
उक्तमर्थं सर्गान्ते सङ्गृह्णाति स इति । तत् पूर्वोक्तं रूपं शरीरं रामं प्रति निदर्शयन् । सख्यं कुरुष्व सुग्रीवेणेति शेषः । अस्मिन् सर्गे पञ्चचत्वारिंशच्छ्लोकाः ।। 3.73.45 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ।। 73 ।।