श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टचत्वारिंशः सर्गः
एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः ।
ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ।। 3.48.1 ।।
एवं ब्रुवन्तीं सीतां रावणो भर्त्सयति एवमित्यादिना । संरब्धः कुपितः सम्भ्रमाविष्टो वा ।। 3.48.1 ।।
भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि ।
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ।। 3.48.2 ।।
भ्रातेति । वैश्रवणस्य सपत्न्या मातुरपत्यं पुमान् सापत्नः, सापत्न एव सापत्न्यः । स्वार्थे ष्यञ् ।। 3.48.2 ।।
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः ।
विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ।। 3.48.3 ।।
यस्येति । यस्य सम्बन्धिनो भयात् देवादयः मृत्योर्भीताः प्रजा इव विद्रवन्ति ।। 3.48.3 ।।
येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे ।
द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ।। 3.48.4 ।।
येनेति । द्वयोर्मात्रोरपत्यं द्वैमात्रः, सपन्तीमातृपुत्र इत्यर्थः । कारणान्तरे कस्मिंश्चित् कारणावकाशे । द्वन्द्वं युद्धम् । “द्वन्द्वं कलहयुग्मयोः” इत्यमरः ।। 3.48.4 ।।
यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् ।
कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ।। 3.48.5 ।।
स्वमधिष्ठानं स्वां पुरीं कैलासमध्यास्ते प्रबलावष्टम्भार्थमिति भावः । “अधिशीङ्स्थासां कर्म” इत्यधिकरणस्य कर्मसंज्ञा । नरवाहनः कुबेरः ।। 3.48.5 ।।
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् ।
वीर्यादेवार्जितं भद्रे येन यामि विहायसम् ।। 3.48.6 ।।
यस्येति । तत् पसिद्धम् । कामेन गच्छतीति कामगम्, अधिष्ठातृकामानुरूपं गच्छतीत्यर्थः । येन पुष्पकेण । विहायसम् आकाशम् । एतादृशविशेषणविशिष्टो यो रावणो नाम रावण इति प्रसिद्धः सो ऽहमिति पूर्वोणान्वयः ।। 3.48.6 ।।
मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि ।
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ।। 3.48.7 ।।
ममेति । विद्रवन्ति विद्रवेयुः ।। 3.48.7 ।।
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ।
तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते रविः ।। 3.48.8 ।।
यत्र देशे । तीव्रांशुश्च तीक्ष्णांशुरपि रविः मद्भयात् शिशिरांशुः शीतलांशुः सम्पद्यते ।। 3.48.8 ।।
निष्कम्पपत्त्रास्तरवो नद्यश्च स्तिमितोदकाः ।
भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ।। 3.48.9 ।।
निष्कम्पेति । पत्त्राण्यपि न चलन्तीत्यर्थः ।। 3.48.9 ।।
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा ।
सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ।। 3.48.10 ।।
पारे पारसदृशे । त्रिकूटे समुद्रस्य मध्य इति पूर्वमुक्तत्वात् यथेन्द्रस्यामरावती तथा मम लङ्का पुरी असाधारणेत्यर्थः । अस्तीति शेषः ।। 3.48.10 ।।
प्राकारेण परिक्षिप्ता पाण्डरेण विराजता ।
हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ।। 3.48.11 ।।
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता ।
[शतयोजनविस्तीर्णा त्रिंशद्योजनमायता ।]
सर्वकालफलैर्वृक्षैः सङ्कुलोद्यानशोभिता ।। 3.48.12 ।।
लङ्कां वर्णयति प्राकारेणेति । रजतमयत्वात् पाण्डरेण हेममय्यः कक्ष्याः हर्म्याङ्गणादयो यस्याः सा । “कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने” इत्यमरः । तोरणो बहिर्द्वारम् । सम्बाधा सङ्कुला । तूर्यनादेन वाद्यशब्देन विनादिता । सर्वः कालो येषां तानि सर्वकालानि, सर्वकालसम्भवानीत्यर्थः । तादृशानि फलानि येषां तैः सर्वकालफलैः । सङ्कुलोद्यानैः व्याप्तोद्यानैः शोभिता एतादृशी सा पुरी रम्येत्यन्वयः ।। 3.48.11,12 ।।
तत्र त्वं वसती सीते राजपुत्रि मया सह ।
न स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ।। 3.48.13 ।।
तत्रेति । वसती वसन्ती । अनित्यमागमशासनमिति नुमभावः । नारीणामिति “अधीगर्थ” इति षष्ठी । मनस्वनी तत्समासक्तेत्यर्थः ।। 3.48.13 ।।
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि ।
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ।। 3.48.14 ।।
मानुषान् मनुष्यलोकसम्भावान् । दिव्यान् स्वर्गसम्भवान् । गतायुषः गतप्रायायुषः, अल्पायुष इत्यर्थः । अनेन भुज्जाना मानुषान् भोगानिति पूर्वं सीतोक्तस्य परिहार उक्तः ।। 3.48.14 ।।
स्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः ।
मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम् ।। 3.48.15 ।।
तेन किं भ्रष्टराज्येन रामेण गतचेतसा ।
करिष्यसि विशालाक्षि तापसेन तपस्विना ।। 3.48.16 ।।
अथ रामस्य स्वापेक्षया उक्तमतिशयं प्रतिवक्ति स्थापयित्वेत्यादिना, श्लोकद्वयमेकान्वयम् । प्रियं पुत्रं भरतं राज्ये स्थापयित्वा ततो राज्यात् प्रव्राजितः । जेष्ठत्वे ऽपि प्रव्राजनान्मदवीर्यत्वं सिद्धमित्याह तेनेति । तेन मन्दवीर्येण । गतचेतसा कर्तव्याकर्तव्यमूढमनसा । तापसेन “भग्नाः कृषेर्भागवता भवन्ति” इति न्यायेन अशूरेण । तपस्विना शोच्येन । “तपस्वी तापसः शोच्यः” इति विश्वः । अनेन इतः परं राज्यं साधयिष्यतीत्याशा न कर्तव्येत्युक्तम् ।। 3.48.15,16 ।।
सर्वराक्षसभर्तारं कामात् स्वयमिहागतम् ।
न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ।। 3.48.17 ।।
सर्वराक्षसेति । सर्वराक्षसभर्तारं त्वया प्रार्थनीयमित्यर्थः । स्वयं कामात् अर्थितया इहागतं प्रत्याख्यातुं निराकर्तुम् । स्वयमागमने हेतुः मन्मथेति ।। 3.48.17 ।।
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि ।
चरणेनाभिहत्येव पुरूरवसमुर्वशी ।। 3.48.18 ।।
प्रत्याख्यानफलमाह प्रत्याख्यायेति । भीरु इत्यनेन रामात् भीतिः प्रत्याख्यानमूलमिति मम मन इति व्यज्यते । परितापं पश्चात्तापम् । पुरूरवसं राजानं चरणेनाभिहत्य उर्वशीव, उरून् महतो वशीकरोतीत्युर्वशी । “वश कान्तौ” पृषोदरादित्वादुकारलोपः । गौरादित्वात् ङीष् । एवं ह्रस्वादिस्तालव्यान्तश्च । तथाच माघयमकम् । “दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम्” इति । नारायणस्य ऊरौ वसतीति व्यत्पत्तावपि पृषोदरादित्वाद्वर्णलोपादिना ह्रस्वादिस्तालव्यान्त एव च युक्तः । उर्वशी किल स्वयमेव प्रार्थयन्तं पुरूरवसं प्रथमं निरस्य पश्चात्तापेन पुनस्तमागतेति पौराणिकी कथा ।। 3.48.18 ।।
अङ्गुल्या न समो रामो मम युद्धे स मानुषः ।
तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ।। 3.48.19 ।।
अङ्गुल्या अङ्गुलिबलेन । न समः न समबलः । सम्प्राप्तं मामिति शेषः ।। 3.48.19 ।।
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना ।
अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ।। 3.48.20 ।।
संरक्तेति कोपातिशयो द्योत्यते । रहिते निर्जने वने “रागं विविक्ता इति वर्धयन्तीः” इति रागजननौचित्ये ऽपि परुषमब्रवीत् । हन्त सीतायाः पातिव्रत्यमेतदिति ऋषिर्विस्मयते ।। 3.48.20 ।।
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ।
भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ।। 3.48.21 ।।
कथमिति । पुण्यात्मनः कुबेरस्य भ्राता सन् कथं पापकर्मणि प्रवर्तस इत्यर्थः ।। 3.48.21 ।।
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ।। 3.48.22 ।।
कर्कशः क्रूरः ।। 3.48.22 ।।
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् ।
न च रामस्य भार्यां मामपनीयास्ति जीवितम् ।। 3.48.23 ।।
अपनीय स्थितस्य तवेति शेषः ।। 3.48.23 ।।
जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् ।
न मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ।। 3.48.24 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टचत्वारिंशः सर्गः ।। 48 ।।
क्रोधातिशयेनोक्तमेव पुनराह जीवेदिति । अप्रतिरूपम् अनुपमं रूपं यस्यास्तां मादृशीम् । अश्लीलत्वपरिहाराय न मामित्यनुक्तिः । मोक्षः मरणादिति शेषः । अमृतमपि न त्वद्रक्षणसमर्थमित्यर्थः ।। 3.48.24 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ।। 48 ।।