श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकषष्टितमः सर्गः
दृष्ट्वा ऽ ऽश्रमपदं शून्यं रामो दशरथात्मजः ।
रहितां पर्णशालां च विध्वस्तान्यासनानि च ।। 3.61.1 ।।
अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः ।
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ।। 3.61.2 ।।
अथ रामस्य नवमीमवस्थां दर्शयत्येकषष्टितमे दृष्ट्वेत्यादिश्लोकद्वयमेकान्वयम् । शून्यं सीतारहितम् । रहितां सीतयेति शेषः । विध्वस्तानि रावणाक्रान्तत्वादिति भावः । सर्वशः सर्वत्र । तत्र वनप्रदेशे । वैदेहीं सन्निरीक्ष्य विचित्य तत्रादृष्ट्वा । पुनरपि रामग्रहणं क्रियाभेदात् । प्राक्रुश्य सीतामुच्चैराहूय उवाच । भुजग्रहणं शोककृतविकारविशेषः । प्रगृह्य उत्क्षिप्य ।। 3.61.1,2 ।।
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ।
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ।। 3.61.3 ।।
क्वेति । क्व नु अत्र वने कुत्र प्रदेशे वर्तते, कं वा देशान्तरं गता ।। 3.61.3 ।।
वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि ।
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ।। 3.61.4 ।।
वृक्षेणेति । आच्छाद्य, स्वमिति शेषः । हसितुम् अन्तर्हितां मां ज्ञातुमसमर्थो ऽसीत्येवं परिहसितुम् । अद्य शोककाले ।। 3.61.4 ।।
यैः सह क्रिडसे सीते विश्वस्तैर्मृगपोतकैः ।
एते हीनास्त्वाया सौम्ये ध्यायन्त्यास्राविलेक्षणाः ।।
सीतया रहितो ऽहं वै नहि जीवामि लक्ष्मण ।। 3.61.5 ।।
क्रीडसे क्रीडसी । विश्वस्तैः चिरोपलालनेन विश्वासं प्राप्तौः । मृगपोतकैः बालमृगैः । “पोतः पाको ऽर्भको डिम्भः” इत्यमरः । ध्यायन्ति त्वामिति शेषः । किमपि ध्यायन्तीति वा । सीतयेति । इदमर्धमेकं वाक्यम् ।। 3.61.5 ।।
मृतं शोकेन महता सीताहरणजेन माम् ।
परलोके महाराजो नूनं द्रक्ष्यति मे पिता ।। 3.61.6 ।।
परलोके स्वर्गे ।। 3.61.6 ।।
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ।
अपूरयित्वा तं कालं मत्सकाशमिहागतः ।। 3.61.7 ।।
कामवृत्तमनार्यं मां मृषावादिनमेव च ।
धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ।। 3.61.8 ।।
कथमिति श्लोकद्वयमेकान्वयम् । प्रतिज्ञां चतुर्दशवर्षवनवासप्रतिज्ञाम् । संश्रुत्य अङ्गीकृत्य । मया अभियोजितः नियुक्तस्त्वं तं कालमपूरयित्वा कथमागतः । कामवृत्तं यथेष्टाचारम् । अनार्यं दुर्जनं मां धिक् त्वामिति वक्ष्यति । अहमुपालम्भयोग्य एव, कामृत्तत्वादिति भावः ।। 3.61.7,8 ।।
विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् ।
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ।। 3.61.9 ।।
क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे ।
त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः ।। 3.61.10 ।।
विवशमित्यादिश्लोकद्वयम् । विवशम् अस्वाधीनम्, त्वत्परतन्त्रमित्यर्थः । करुणं यथा तथा उत्सृज्य त्यागकाले ऽपि तव दयास्त्येवेति भावः । अनृजुं कपटाचारम् । मां नोत्सृज सुमध्यमे इदं मदुत्सर्जनं त्वल्लक्षणस्याननुरूपमिति भावः । उत्सर्जने को दोष इत्यत्राह त्वयेति ।। 3.61.9,10 ।।
इतीव विलपन् रामः सीतादर्शनलालसः ।
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ।। 3.61.11 ।।
इतीवेति एवम्प्रकारेणेत्यर्थः । लालसः साभिलाषः ।। 3.61.11 ।।
अनासादयमानं तं सीतां दशराथात्मजम् ।
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ।। 3.61.12 ।।
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ।। 3.61.13 ।।
अनासादयमानमित्यादिसार्धश्लोक एकान्वयः । अप्राप्तवन्तमित्यर्थः । अत्यर्थं हितकाम्ययेत्यन्वयः ।। 3.61.12,13 ।।
मा विषादं महाबाहो कुरु यत्नं मया सह ।
इदं च हि वनं शूर बहुकन्दरशोभितम् ।। 3.61.14 ।।
विषादं मा कुरु, अन्वेषणे यत्नं कुर्वित्युभयत्रान्वयः । अन्वेषणयोग्यतामाह इदं च हीति । बहुकन्दरैः कन्दरतुल्यलतागृहैः शोभितम् ।। 3.61.14 ।।
प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली ।
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ।। 3.61.15 ।।
प्रियः काननसञ्चारो यस्याः सा । वनोन्मत्ता च वनं जलम् । “जीवनं भुवनं वनम्” इत्यमरः । वनेन वनदर्शनेन उन्मादवती अतिप्रियसलिलेत्यर्थः । यथक्रमं तत्कार्यमाह सेति ।। 3.61.15 ।।
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम् ।
स्नातुकामा निलीना स्याद्धासकामा वने क्वचित् ।। 3.61.16 ।।
वञ्जुलो वेतसः । सरितं स्नातुकामा सम्प्राप्ता स्यात् । हासकामा परिहासकामा । क्वचिद्वने निलीना स्याद्वा ।। 3.61.16 ।।
वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् ।
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ।।
तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहै ।। 3.61.17 ।।
पूर्वं हासार्थं गूढेति शङ्का, अत्र वित्रासनार्थमिति भिदा । मां त्वां च जिज्ञासमाना आवयोरन्वेषणादिसामर्थ्यं जिज्ञासमानेत्यर्थः । तस्या इत्यर्धम् पृथक् । श्रीमान् भार्यावियोगलक्षणं ते नास्तीति भावः ।। 3.61.17 ।।
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ।
मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ।। 3.61.18 ।।
यदि मन्यसे यदीच्छसि तदा विचिनुवः त्वं शोके मनो मा कृथाः ।। 3.61.18 ।।
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ।
सह सौमित्रिणा रामो विचेतुमुपचक्रमे ।। 3.61.19 ।।
लक्ष्मणेनैवमुक्तः अत एव समाहितः कृतचित्तसमाधानः । विचेतुम् अन्वेष्टुम् ।। 3.61.19 ।।
तौ वनानि गिरींश्चैव सरितश्च सरांसि च ।
निखिलेन विचिन्वानौ सीतां दशरथात्मजौ ।। 3.61.20 ।।
वनानि स्वल्पानि महान्ति च पुष्पापचयव्यग्रा ऽत्र सन्निहिता भवेदिति, गिरीन् विचित्रधातुसङ्ग्रहसक्तात्र भवेदिति, सरितः हंसकारण्डवादिललितपुलिनतया तदवलोकनकुतुकिनी भवेदिति, सरांसि च फुल्लकमलमण्डिततया तद्विहारपरा ऽत्र भवेदिति निखिलेन भावप्रधानो निर्देशः । कार्त्स्न्येन विचिन्वानौ सीता न लब्धेति त्यक्तव्यापारौ न भवतः । तौ दशरथात्मजौ न दृष्टेति तूष्णीं तिष्ठन्तौ न भवतः । मृदुप्रकृतिकत्वात् नैव तामभिजग्मतुरिति वक्ष्यमाणमत्राप्यनुषज्यते ।। 3.61.20 ।।
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ।
निखिलेन विचिन्वानौ नैव तामभिजग्मतुः ।। 3.61.21 ।।
तस्य शैलस्य प्रस्रवणगिरेः । सानूनि प्रस्थान् । शिखराणि शृङ्गाणि ।। 3.61.21 ।।
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ।
नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम् ।। 3.61.22 ।।
शैलं सर्वतः सर्वत्र शैले । “उभसर्वतसोः” इति द्वितीया । अन्ते इतिकरणम् ।। 3.61.22 ।।
ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत् ।
विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ।। 3.61.23 ।।
दीप्ततेजसमिति वक्ष्यमाणसीतालाभहेतुलक्षणोक्तिः ।। 3.61.23 ।।
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ।
यथा विष्णुर्महाबाहुर्बलिं बध्वा महीमिमाम् ।। 3.61.24 ।।
प्राप्स्यसीति । सीताहर्तारं बुद्ध्वेति शेषः ।। 3.61.24 ।।
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः ।
उवाच दीनया वाचा दुःखाभिहतचेतनः ।। 3.61.25 ।।
दुःखाभिहतचेतनः दुःखोपहतहृदयः इत्यर्थः ।। 3.61.25 ।।
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ।
गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ।। 3.61.26 ।।
पद्मिन्य इत्यादौ सुविचिताः सुविचित इति विभक्तिविपरिणामः कार्यः ।। 3.61.26 ।।
नहि पश्यामि वैदेहीं प्राणेभ्यो ऽपि गरीयसीम् ।। 3.61.27 ।।
न हीत्यर्धमेकं वाक्यम् ।। 3.61.27 ।।
एवं स विलपन् रामः सीताहरणकर्शितः ।
दीनशोकसमाविष्टो मुहूर्तं विह्वलो ऽभवत् ।। 3.61.28 ।।
विह्वलः परवशः ।। 3.61.28 ।।
सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः ।
निषसादातुरो दीनो निःश्वस्याशीतमायतम् ।। 3.61.29 ।।
अवसन्नाङ्गः कृशाङ्गः । गतबुद्धिः निस्सञ्ज्ञः । विचेतनः निश्चेष्टः । अशीतम् उष्णम् । आयतं दीर्घमिति निश्वासक्रियाविशेषणम् ।। 3.61.29 ।।
बहुलं स तु निःश्वस्य रामो राजीवलोचनः ।
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ।। 3.61.30 ।।
विचुक्रोश उच्चैः स्वरेणाहूतवान् ।। 3.61.30 ।।
तं ततः सान्त्वयामास लक्ष्मणः प्रियबान्धवः ।
बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः ।। 3.61.31 ।।
प्रश्रितं सविनयमिति क्रियाविशेषणम् । प्रश्रिताञ्जलिः बद्धाञ्जलिः ।। 3.61.31 ।।
अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम् ।
अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनःपुनः ।। 3.61.32 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकषष्टितमः सर्गः ।। 61 ।।
लक्ष्मणोष्ठपुटाच्च्युतं लक्ष्मणोक्तमित्यर्थः । पुनः प्राक्रोशात् उद्घोषेणाहूतवान् । अस्मिन् सर्गे द्वात्रिंशच्छ्लोकाः ।। 3.61.32 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकषष्टितमः सर्गः ।। 61 ।।