श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तषष्टितम: सर्ग:
आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला ।
अयोध्यायामवतता सा व्यतीयाय शर्वरी ।। 2.67.1 ।।
अथाराजकदोषवर्णनम्–आक्रन्दित निरानन्देति । आक्रन्दितेन हेतुना निरानन्दा । अवतता दीर्घा, दु:खवशादतिदीर्घभूतेत्यर्थ: ।। 2.67.1 ।।
व्यतीतायां तु शर्वर्यामादित्यस्योदये तत: ।
समेत्य राजकर्तार: सभामीयुर्द्विजातय: ।। 2.67.2. ।।
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यप: ।
कात्यायनो गौतमश्च जाबालिश्च महायशा: ।। 2.67.3 ।।
एते द्विजा: सहामात्यै: पृथग्वाचमुदीरयन् ।
वसिष्ठमेवाभिमुखा: श्रेष्ठं राजपुरोहितम् ।। 2.67.4 ।।
व्यतीतायामिति । राजकर्तार: राजाभिषेककार्यकर्तार: ।। 2.67.24 ।।
अतीता शर्वरी दु:खं या नो वर्षशतोपमा ।
अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ।। 2.67.5 ।।
स्वर्गतश्च महाराजो रामश्चारण्यमाश्रित: ।
लक्ष्मणश्चापि तेजस्वी रामेणैव गत: सह ।। 2.67.6 ।।
अतीतेति । अस्मिन् पार्थिवे पुत्रशोकेन पञ्चत्वमापन्ने सति । या शर्वरी न: अस्माकं वर्षशतोपमा आसीत् । सा शर्वरी दु:खं यथा तथा अतीता ।। 2.67.56 ।।
उभौ भरतशत्रुघ्नौ कैकयेषु परन्तपौ ।
पुरे राजगृहे रम्ये मातामहनिवेशने ।। 2.67.7 ।।
उभाविति । राजगृहे राजगृहनामनि पुरे, वर्तेते इति शेष: ।। 2.67.7 ।।
इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।
अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ।। 2.67.8 ।।
इक्ष्वाकूणामिति निर्धारणे षष्ठी । रामादीनां चतुर्णां मध्ये इत्यर्थ: । अद्यैव राजाविधाने दोष:–अराजकं हीति ।। 2.67.8 ।।
नाराजके जनपदे विद्युन्माली महास्वन: ।
अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ।। 2.67.9 ।।
अराजकत्वस्य विनाशहेतुत्वं प्रपञ्चयति–नाराजक इत्यादिना । विद्युन्मालीत्यादिविशेषणैर्महावर्षो दुर्लभ इति भाव: । दिव्येनेत्यनेन शिलावर्षस्तु भविष्यतीति भाव: ।। 2.67.9 ।।
नाराजके जनपदे बीजमुष्टि: प्रकीर्यते ।
नाराजके पितु: पुत्रो भार्या वा वर्तते वशे ।। 2.67.10 ।।
नेति । बीजमुष्टि: न प्रकीर्यते फललाभनिश्चयाभावादिति भाव: । भार्या वशे न वर्तते व्यभिचारे शिक्षकाभावादिति भाव: ।। 2.67.10 ।।
नाराजके धनं चास्ति नास्ति भार्याप्यराजके ।
इदमत्याहितं चान्यत् कुत: सत्यमराजके ।। 2.67.11 ।।
नाराजक इति । धनं नास्ति चोरभयादिति भाव: । भार्या नास्ति बन्धुनिग्रहादिति भाव: । इदं वक्ष्यमाणम् । अन्यत् पूर्वोक्तभयादन्यत् । अत्याहितं महाभीतिरस्ति । “अत्याहितं महाभीति:” इत्यमर: । तदेवाह कुत इति । सत्यं क्रयविक्रयादिलक्षणम् ।। 2.67.11 ।।
नाराजके जनपदे कारयन्ति सभां नरा: ।
उद्यानानि च रम्याणि हृष्टा: पुण्यगृहाणि च ।। 2.67.12 ।।
सभां न कारयन्ति मनस्स्वास्थ्याभावात् । उद्यानानि न कारयन्ति छेदनभयात् । पुण्यगृहाणि देवतायतनादीनि न कारयन्ति दुर्गनिर्माणभयादिति भाव: ।। 2.67.12 ।।
नाराजके जनपदे यज्ञशीला द्विजातय: ।
सत्त्राण्यन्वासते दान्ता ब्राह्मणा: संशितव्रता: ।। 2.67.13 ।।
ब्रह्म वेद: तदध्येतारो ब्राह्मणा: । “तदधीते तद्वेद” इत्यण् । सत्राणि महायज्ञान् । यत्र सर्वे यजमाना: सर्वे ऋत्विज: । नान्वासते नानुतिष्ठन्ति, विघ्नभयात् ।। 2.67.13 ।।
नाराजके जनपदे महायज्ञेषु यज्वन: ।
ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणा: ।। 2.67.14 ।।
यज्वन: यज्वान: । वसुसम्पन्ना अपि धनसम्पन्ना अपि । आप्तदक्षिणा: भूरिदक्षिणा: । न विसृजन्ति न दिशन्ति । आढ्यत्वव्यञ्जनेन दण्डभयादिति भाव: ।। 2.67.14 ।।
नाराजके जनपदे प्रभूतनटनर्तका: ।
उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धना: ।। 2.67.15 ।।
नटा: नाट्याभिनयसमर्था:, प्रायेणाह राष्ट्रवर्धना इति ।। 2.67.15 ।।
नाराजके जनपदे सिद्धार्था व्यवहारिण: ।
कथाभिरनुज्यन्ते कथाशीला: कथाप्रियै: ।। 2.67.16 ।।
व्यवहारिण: कमप्यर्थमुद्दिश्यान्योन्यं विवदमाना: । सिद्धार्था: लब्धप्रयोजना: । न भवन्ति निरूपणनियमनकर्तुरभावादुत्कोचप्रायत्वाच्चेति भाव: । यद्वा व्यवहारिण: क्रयविक्रयरूपेण व्यापारेण जीवन्त: । कथाशीला: इतिहासपुराणादिकथावदनशीला: । कथाप्रियै: कथासु तत्परै: श्रोतृभि: । कथाभि: हेतुभि: । नानुरज्यन्ते अनुरक्ता न क्रियन्ते । श्रोतृ़णां स्वाथ्याभावादिति भाव: । यद्वा कथाशीला: वावदूका: कथाभि: वादजल्पवितण्डाभि: । कथाप्रियै: सामाजिकै: सह । नानुरज्यन्ते न तुष्यन्ति । तत्पारितोषिकादिप्रदराजाभावात् ।। 2.67.16 ।।
नाराजके जनपदे उद्यानानि समागता: ।
सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिता: ।। 2.67.17 ।।
समागता: सङ्घीभूता: । न यान्ति पुष्पापचयाद्यर्थं सखीभि: सह न यान्ति । चोरभयादिति भाव: ।। 2.67.17 ।।
नाराजके जनपदे वाहनै: शीघ्रगामिभि: ।
नरा निर्यान्त्यरण्यानि नारीभि: सह कामिन: ।। 2.67.18 ।।
शीघ्रगामिभिर्वाहनै: रथैरित्यर्थ: । न निर्यान्ति परिभवशङ्कयेति भाव: ।। 2.67.18 ।।
नाराजके जनपदे धनवन्त: सुरक्षिता: ।
शेरते विवृतद्वारा: कृषिगोरक्षजीविन: ।। 2.67.19 ।।
विवृतद्वारा न शेरते किन्तु बद्धकपाटा एव ।। 2.67.19 ।।
नाराजके जनपदे बद्धघण्टाविषाणिन: ।
अटन्ति राजमार्गेषु कुञ्जरा: षष्टिहायना: ।। 2.67.20 ।।
विषाणिन: प्रशस्तदन्ता: । षष्टिहायना: षष्टिवर्षा: ।। 2.67.20 ।।
नाराजके जनपदे शरान् सततमस्यताम् ।
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ।। 2.67.21 ।।
नेति । अस्यतां क्षिपताम् । उपासने अभ्यासे “स्यादुपासनमभ्यास:” इत्यमर: । तलनिर्घोष: ज्याकरतलनिर्घोष: ।। 2.67.21 ।।
नाराजके जनपदे वणिजो दूरगामिन: ।
गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिता: ।। 2.67.22 ।।
क्षेमं क्षेमावहम् । बहुपण्यै: समाचिता: समृद्धा: । यद्वा पण्यानां क्रय्यद्रव्याणां समाचिता: दशभारा: । “आचितो दशभार: स्यात्” इत्यमर: । बहव: पण्यसमाचिता: येषां ते तथोक्ता: ।। 2.67.22 ।।
नाराजके जनपदे चरत्येकचरो वशी ।
भावयन्नात्मनात्मानं यत्र सांयगृहो मुनि: ।। 2.67.23 ।।
एको ऽसहायश्चरतीत्येकरचर: । वशी जितेन्द्रिय: । आत्मना अन्त:करणेन । आत्मानं परमात्मानम् । भावयन् चिन्तयन् । यत्र सायंगृह: यस्मिन्प्रदेशे सायङ्कालो भवति तत्र गृहं निवासो यस्य तथा सन्न चरति अन्नप्रदात्रभावादिति भाव: ।। 2.67.23 ।।
नाराजके जनपदे योगक्षेमं प्रवर्तते ।
न चाप्यराजके सेना शत्रून् विषहते युधि ।। 2.67.24 ।।
योगक्षेमम् अलब्धलाभो योग:, लब्धस्य परिपालनं क्षेम:, योगश्च क्षेमश्च योगक्षेमम् । द्वन्द्वैकवद्भाव: । विषहते जयति ।। 2.67.24 ।।
नाराजके जनपदे हृष्टै: परमवाजिभि: ।
नरा: संयान्ति सहसा रथैश्च परिमण्डिता: ।। 2.67.25 ।।
परिमण्डिता: भूषिता: ।। 2.67.25 ।।
नाराजके जनपदे नरा: शास्त्रविशारदा: ।
संवदन्तो ऽवतिष्ठन्ते वनेषूपवनेषु च ।। 2.67.26 ।।
संवदन्त: व्याकुर्वन्त: । वनेषु मुनीनामावासभूतवनेषु ।। 2.67.26 ।।
नाराजके जनपदे माल्यमोदकदक्षिणा: ।
देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनै: ।। 2.67.27 ।।
कल्प्यन्ते सम्पाद्यन्ते ।। 2.67.27 ।।
नाराजके जनपदे चन्दनागरुरूषिता: ।
राजपुत्रा विराजन्ते वसन्त इव शाखिन: ।। 2.67.28 ।।
रूषिता: लिप्ता: ।। 2.67.28 ।।
यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् ।
अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ।। 2.67.29 ।।
यथेति । तथा राष्ट्रमिति न शोभत इति शेष: ।। 2.67.29 ।।
ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसो: ।
तेषां यो नो ध्वजो राजा स देवत्वमितो गत: ।। 2.67.30 ।।
नाराजके जनपदे स्वकं भवति कस्यचित् ।
मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ।। 2.67.31 ।।
ध्वज इति । ध्वजो रथस्येत्यादिदृष्टान्तार्थं वच: । प्रज्ञानं ज्ञापकम् । ज्ञानं लिङ्गम् । ध्वज: प्रकाशक: । इत: अस्माल्लोकात्प्रेत्य देवत्वं गत इत्यर्थ: ।। 2.67.3031 ।।
ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशया: ।
ते ऽपि भावाय कल्पन्ते राजदण्डनिपीडिता: ।। 2.67.32 ।।
ये हीति । सम्भिन्नमर्यादा: उल्लङ्घितस्वस्वजातिवर्णाश्रममर्यादा: । अत एव पूर्वं राजदण्डनिपीडिता: ये नास्तिकास्ते इदानीं छिन्नसंशया: राजदण्डशङ्कारहिता: सन्त:, भावाय सद्भावाय प्रभावाय वा । कल्पन्ते समस्तदैष्टिकपीडासमर्था भवन्तीत्यर्थ: ।। 2.67.32 ।।
यथा दृष्टि: शरीरस्य नित्यमेव प्रवर्तते ।
तथा नरेन्द्रो राष्ट्रस्य प्रभव: सत्यधर्मयो: ।। 2.67.33 ।।
यथेति । दृष्टि: शरीरस्य यथा प्रवर्तते हितसाधकत्वेनाहितनिवारकत्वेन च सदैव प्रवर्तते । सत्यधर्मयो: प्रभव: कारणं राजापि राष्ट्रस्य तथा प्रवर्तत इत्यर्थ: ।। 2.67.33 ।।
राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ।। 2.67.34 ।।
राजेति । कुलवतां क्षेत्रबीजशुद्धिमताम् । कुलं कुलाचारप्रवर्तक: ।। 2.67.34 ।।
यमो वैश्रवण: शक्रो वरुणश्च महाबल: ।
विशेष्यन्ते नरेन्द्रेण वृत्तेन महता तत: ।। 2.67.35 ।।
यम इति । नरेन्द्रेण महता वृत्तेन सर्वप्रकाररक्षणरूपचरित्रेण । विशेष्यन्ते अध:क्रियन्ते । यकि गुणश्छान्दस: । यमस्य दण्डनमात्रम्, कुबेरस्य धनदत्वमेव, इन्द्रस्य पालनमेव वरुणस्य सदाचारनियमनमेव । एतद्गुणचतुष्टययुक्तत्वान्नरेन्द्रेण यमादयो व्यावर्त्यन्त इत्यर्थ: । यद्वा यतो महता वृत्तेन युक्त: ततो हेतो: एकैक दिग्वर्तिप्रजारक्षकयमादिभ्य: विशेष्यते अतिशीयते ।। 2.67.35 ।।
अहो तम इवेदं स्यान्न प्रज्ञायेत किञ्चन ।
राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ।। 2.67.36 ।।
अहो इति । साध्वसाधुनी लोके विभजन् व्यवस्थापयन् । राजा न स्याच्चेत् । इदम् अराजकत्वम् । अहो तम इव स्यात् । यत: किंचन कर्तव्याकर्तव्यं न प्रज्ञायेत । यद्वा साध्वसाधुनी विभजन् राजा लोके न भवेत् चेत् इदं जगत् किञ्चन किञ्चिदपि । न प्रज्ञायेत न प्रतीयेत किंतु तम इव स्यात् सूर्याभाव इव तमोरूपमेव स्यात् ।। 2.67.36 ।।
जीवत्यपि महाराजे तवैव वचनं वयम् ।
नातिक्रमामहे सर्वे वेलां प्राप्येव सागर: ।। 2.67.37 ।।
जीवतीति । महाराजे जीवत्यपि वयं तव वचनं नातिक्रमामहे इदानीं किमुतेति भाव: ।। 2.67.37 ।।
स न: समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम् ।
कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्च ।। 2.67.38 ।।
स इति । हे द्विजवर्य वसिष्ठ स: त्वम् । न: अस्माकम् । वृत्तम् अराजकत्वप्रमुषितं सर्वं कृत्यं समीक्ष्य नृपं विना राज्यमरण्यभूतं स्यादित्यपि समीक्ष्य इक्ष्वाकुसुतं दशरथतनयम् अभिषिञ्चेति योजना ।। 2.67.38 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तषष्टितम: सर्ग: ।। 67 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तषष्टितम: सर्ग: ।। 67 ।।