श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चसप्ततितम: सर्ग:
दीर्घकालात् समुत्थाय संज्ञां लब्ध्वा च वीर्यवान् ।
नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्व मातरम् ।
सो ऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत् ।। 2.75.1 ।।
दीर्घकालादिति । दीनां प्रतिहतेच्छत्वात् । अमात्यमध्ये सुमन्त्रादिमध्ये । अनेन भरतागमनं श्रुत्वा सुमन्त्रादय: इत:पूर्वमागता इति गम्यते । अभ्यकुत्सयत् मन्त्रिणां ज्ञापनाय पुनरप्यनिन्ददित्यर्थ: ।। 2.75.1 ।।
राज्यं न कामये जातु मन्त्रये नापि मातरम् ।
अभिषेकं न जानामि यो ऽभूद्राज्ञा समीक्षित: ।
विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितो ऽवसम् ।। 2.75.2 ।।
कैकेय्या कृतं स्वेष्टं नेति मन्त्रिभ्यो ज्ञापयति–राज्यमिति । जातु कदाचिदपि । एतत् न कामये न मन्त्रये इत्युभयत्रापि सम्बध्यते । मन्त्रये राज्यार्थमिति शेष: । मन्त्रणं विचार: न जानामि मदनुज्ञापूर्वको ऽयं न भवतीत्यर्थ: । यो मदर्थोभिषेक: राज्ञा समीक्षितश्चिन्तित: अभूत् तमभिषेकं न जानामि । अज्ञाने हेतुमाह विप्रकृष्ट इति ।। 2.75.2 ।।
वनवासं न जानामि रामस्याहं महात्मन: ।
विवासनं वा सौमित्रे: सीतायाश्च यथाभवत् ।। 2.75.3 ।।
तथैव क्रोधतस्तस्य भरतस्य महात्मन: ।
कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ।। 2.75.4 ।।
वनवासमिति । विवासनं वेत्यत्र न जानामीत्यनुकर्ष: ।। 2.75.34 ।।
आगत: क्रूरकार्याया: कैकेय्या भरत: सुत: ।
तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ।। 2.75.5 ।।
आगत इति । दीर्घदर्शिनमित्यनेन रामनिर्गमनं भरतो न संमन्यत इति कौसल्याहृदयमिति सूचितम् ।। 2.75.5 ।।
एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा ।
प्रतस्थे भरतो यत्र वेपमाना विचेतना ।। 2.75.6 ।।
एवमिति । भरतो यत्र स्थित: तत्र प्रतस्थे ।। 2.75.6 ।।
स तु रामानुजश्चापि शत्रुघ्नसहिस्तदा ।
प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् ।। 2.75.7 ।।
स इति । यत्र कौसल्याया निवेशनं स्थितं तत्र प्रतस्थे ।। 2.75.7 ।।
तत: शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दु:खितौ ।
पर्य्यष्वजेतां दु:खार्त्तां पतितां नष्टचेतनाम् ।
रुदन्तौ रुदतीं दु:खात् समेत्यार्यां मनस्विनीम् ।। 2.75.8 ।।
भरतं प्रत्युवाचेदं कौसल्या भृशदु:खिता ।। 2.75.9 ।।
तत इत्यादि । आर्यां ज्येष्ठां मातरम् ।। 2.75.89 ।।
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् ।
सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ।। 2.75.10 ।।
कथं राज्यं प्राप्तं तत्राह–सम्प्राप्तमिति । क्रूरेण रामविवासनपूर्वकेण । कर्मणा वराभ्यर्थनेन ।। 2.75.10 ।।
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् ।
कैकेयी किं गुणं तत्र पश्यति क्रूरदर्शिनी ।। 2.75.11 ।।
प्रस्थाप्येति । तत्र प्रस्थापने । कं गुणम् अतिशयं पश्यति न कमपि गुणम्, रामप्रस्थापनं विनापि राज्यलाभसम्भवात् ।। 2.75.11 ।।
क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति ।
हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशा: ।। 2.75.12 ।।
क्षिप्रमिति । कैकेयी मामपि प्रस्थापयितुमर्हति सर्वस्य राज्यस्य तदायत्तत्वादिति भाव: । हिरण्यनाभ: हिरण्यवत्स्पृहणीयनाभियुक्त: । नाभिग्रहणं शरीरस्योपलक्षणम् ।। 2.75.12 ।।
अथवा स्वयमेवाहं सुमित्रानुचरा सुखम् ।
अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघव: ।। 2.75.13 ।।
कैकेयीकृतपापानुबन्धिनस्तव राजसंस्काराधिकारो नास्तीति ध्वनयन्त्याह–अथवेति । अग्निहोत्रं राजाग्निहोत्रम् । अग्निहोत्रस्य ज्येष्ठभार्याधीनत्वात् दशरथेन भरतसंस्कारप्रतिषेधाच्चेति भाव: । एतेन राजशरीरप्रापणमप्यर्थसिद्धम् ।। 2.75.13 ।।
कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि ।
यत्रासौ पुरुषव्याघ्र: पुत्रो मे तप्यते तप: ।। 2.75.14 ।।
काममिति । तपस्तप्यते तप: करोतीत्यर्थ: । “तपस्तप: कर्मकस्यैव” इति कर्मवद्भावादात्मनेपदम् ।। 2.75.14 ।।
इदं हि तव विस्तीर्णं धनधान्यसमाचितम् ।
हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया ।। 2.75.15 ।।
तव प्रस्थापने मम का शक्तिस्तत्राह–इदमिति । धनधान्यसमाचितं धनधान्यसम्पूर्णम् । तया कैकेय्या । निर्यातितं दापितम् । “निर्यातनं वैरशुद्धौ दाने न्यासार्पणे मतम्” इति विश्व: ।। 2.75.15 ।।
इत्यादिबहुभिर्वाक्यै: क्रूरै: सम्भर्त्सितो ऽनघ: ।
विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना ।। 2.75.16 ।।
इत्यादिबहुभिरिति । सम्भर्त्सित: परपक्षबुद्ध्या भाषित: । व्रणे सूचिना तुद्येव व्यथयित्वेव । पूर्वमेव भ्रातृपितृवियोगखिन्नो ऽपि कौसल्यावाक्यश्रवणखिन्न इत्यर्थ: ।। 2.75.16 ।।
पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतन: ।
विलप्य बहुधा ऽसंज्ञो लब्धसंज्ञस्तत: स्थित: ।। 2.75.17 ।।
पपातेति । चरणौ प्रतीति शेष: । बहुधासंज्ञ इत्यत्र असंज्ञ इति पदच्छेद: ।। 2.75.17 ।।
एवं विलपमानां तां भरत: प्राञ्जलिस्तदा ।
कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ।। 2.75.18 ।।
एवमिति । एवं विलपमानां पूर्वोक्तप्रकारेण विलपन्तीम् ।। 2.75.18 ।।
आये कस्मादजानन्तं गर्हसे मामकिल्बिषम् ।
विपुलां च मम प्रीतिं स्थिरां जानासि राघवे ।। 2.75.19 ।।
आर्य इति । अजानन्तम्, अभिषेकादिकमिति शेष: ।। 2.75.19 ।।
कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन ।
सत्यसन्ध: सतां श्रेष्ठो यस्यार्यो ऽनुमते गत: ।। 2.75.20 ।।
कौसल्यया स्वस्मिन्नारोपितं दोषं परिहर्तुं शपथवाक्यान्याह–कृतेत्यादिना । आर्य: राम: यस्यानुमते सम्मतौ सत्यां गत: तस्य शास्त्रानुगा कृता बुद्धि: गुरुणा विधिनिषेधबोधकशास्त्रानुसारित्वेन सुशिक्षिता बुद्धि: कदाचन माभूदिति सम्बन्ध: । यद्यहमार्यप्रवासने अनुमन्तास्मि तर्हि श्रुतिस्मृतिज्ञानात् प्रच्युतो भूयासमित्यर्थ: । एवमुत्तरत्रापि सामान्यनिर्देशो भरतविषयतया योजनीय:, “निर्विशेषं न सामान्यम्” इति न्यायात् । अत्र शपथव्याजेन धर्मविशेषाश्च शिक्ष्यन्ते मुनिनेति बोध्यम् । अत्र च सत्पुरुषविषयापराधे शास्त्रज्ञानभ्रंशो भवतीति सूचितम् ।। 2.75.20 ।।
प्रेष्यं पापीयसां यातु सूर्यं च प्रति मेहतु ।
हन्तु पादेन गां सुप्तां यस्यार्यो ऽनुमते गत: ।। 2.75.21 ।।
प्रेष्यमिति । प्रेष्यं प्रेष्यभावम् । पापीयसाम् अतिशयेन पापिनाम् । हीनजातीनां प्रेष्यत्वं हि पापहेतु: । सूर्यं प्रति मेहतु मूत्रपुरीषोत्सर्गं करोतु सूर्याभिमुखेन मेहने यत्पापं तत् प्राप्नोत्वित्यर्थ: । अनेन सूर्यंप्रति मेहनं न कर्त्तव्यमिति सिद्धम् । गां पादेन हन्तु पादेन गोहननपापं प्राप्नोतु । पादेन गोहननं दोष: । सुप्तामित्यनेन स्वहननप्रवृत्तगोहननं न दोषायेत्युक्तम् ।। 2.75.21 ।।
कारयित्वा महत्कर्म भर्त्ता भृत्यमनर्थकम् ।
अधर्मो यो ऽस्य सो ऽस्यास्तु यस्यार्यो ऽनुमते गत: ।। 2.75.22 ।।
कारयित्वेति । यो भर्त्ता भृत्यं महत्कर्म कारयित्वा । “हृक्रोरन्यतरस्याम्” इति द्विकर्मकत्वम् । अनर्थकं तं प्रयोजनशून्यं करोतीति शेष: । अस्य भर्तु: य: अधर्म: सो ऽस्तु ।। 2.75.22 ।।
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।
ततस्तं द्रुह्यतां पापं यस्यार्योनुमते गत: ।। 2.75.23 ।।
परिपालयमानस्येति । परिपालयमानस्य राज्ञ: । राज्ञि परिपालयति सति । तं प्रति द्रुह्यतां पापम् । तत: तस्य ।। 2.75.23 ।।
बलिषड्भागमुद्धृत्य नृपस्यारक्षत: प्रजा: ।
अधर्मो यो ऽस्य सोस्यास्तु यस्यार्यो ऽनुमते गत: ।। 2.75.24 ।।
बलिषड्भागमिति । बलिषड्भागं बलि: कर: “बलि: पूजोपहारे च दैत्यभेदे करे ऽपि च” इति वैजयन्ती । षष्ठो भाग: षड्भाग: बलिश्चासौ षड्भागश्चेति विशेषणसमास: । उद्धृत्य आदाय ।। 2.75.24 ।।
संश्रुत्य च तपस्विभ्य: सत्रे वै यज्ञदक्षिणाम् ।
तां विप्रलपतां पापं यस्यार्यो ऽनुमते गत: ।। 2.75.25 ।।
संश्रुत्येति । सत्त्रे यागे तपस्विभ्य: व्रतोपवासशीलेभ्य: ऋत्विग्भ्य: यज्ञदक्षिणां संश्रुत्य प्रतिज्ञाय तां दक्षिणां विप्रलपतां विरुद्धोक्त्या अपलपताम् ।। 2.75.25 ।।
हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले ।
मा स्म कार्षीत्सतां धर्मं यस्यार्यो ऽनुमते गत: ।। 2.75.26 ।।
हस्त्यश्वरथसम्बाध इति । सतां शूराणां धर्मम् अपरावर्त्तनम् । मा स्म कार्षीत् परावर्त्तमानस्य यत्पापं तदस्त्वित्यर्थ: ।। 2.75.26 ।।
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।
स नाशयतु दुष्टात्मा यस्यार्यो ऽनुमते गत: ।। 2.75.27 ।।
उपदिष्टमिति । धीमता गुरुणा यत्नेनोपदिष्टं सुसूक्ष्मार्थं परलोकसाधकरहस्यार्थयुक्तं शास्त्रं वेदान्तादिविशिष्टार्थं नाशयतु विस्मरतु ।। 2.75.27 ।।
मा च तं व्यूढबाह्वंसं चन्द्रार्कसमतेजसम् ।
द्राक्षीद्राज्यस्थमासीनं यस्यार्यो ऽनुमते गत: ।। 2.75.28 ।।
मेति । व्यूढबाह्वंसं व्यूढौ संहतौ मांसलौ बाहू अंसौ च यस्य तम् “व्यूढौ विन्यस्तसंहतौ” इत्यमर: । राज्यस्थं प्राप्तराज्यम् । आसीनं सिंहासने आसीनं तं रामम् मा द्राक्षीत्, तादृशरामदर्शनभाग्यरहितो भवत्वित्यर्थ: ।। 2.75.28 ।।
पायसं कृसरं छागं वृथा सो ऽश्नातु निर्घृण: ।
गुरूंश्चाप्यवजानातु यस्यार्यो ऽनुमते गत: ।। 2.75.29 ।।
पायसमिति । कृसरं तिलौदनम् । छागम् अजम्, मांसमात्रोपलक्षणमेतत् । वृथाश्नातु देवतापित्रतिथिनिवेदनमन्तरेण भुङ्क्तामित्यर्थ: । अवजानातु प्रत्युत्थानाभिवादनादिकं न करोत्वित्थर्थ: ।। 2.75.29 ।।
गाश्च स्पृशतु पादेन गुरून् परिवदेत् स्वयम् ।
मित्रे द्रुह्येत सो ऽत्यन्तं यस्यार्यो ऽनुमते गत: ।। 2.75.30 ।।
गा इति । गा: पादेन स्पृशतु हन्तु । पादेनेत्यत्र हननमुक्तम्, इह तु पादस्पर्शोपि पापहेतुरित्युच्यते । परिवदेत् अपवदेत् । मित्रे द्रुह्येत मित्राय द्रुह्यत्वित्यर्थ: ।। 2.75.30 ।।
विश्वासात् कथितं किञ्चित् परिवादं मिथ: क्वचित् ।
विवृणोतु स दुष्टात्मा यस्यार्यो ऽनुमते गत: ।। 2.75.31 ।।
विश्वासादिति । परिवादम् अपवादम् । “अपवादोपक्रोशनिर्वादावर्णपरिवादा:” इति हलायुध: । मिथ: रहस्ये । “मिथो ऽन्योन्यरहस्ययो:” इति वैजयन्ती । विश्वासाद्रह:कथितस्य परिवादस्य क्वचिदन्यत्र प्रकटीकरणं पातकमिति भाव: ।। 2.75.31 ।।
अकर्त्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रप: ।
लोके भवतु विद्वेष्यो यस्यार्यो ऽनुमते गत: ।। 2.75.32 ।।
अकर्तेति । अकर्त्ता प्रत्युपकारस्याकर्त्ता । अथाप्यकृतज्ञ: आभ्यामेकं पापमुक्तम् । त्यक्तात्मा सद्भि: परिहृत: अथापि निरपत्रप: निर्लज्ज:, अकृतप्रायश्चित्त इति यावत् । इदमेकं पापम् ।। 2.75.32 ।।
पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारित: ।
स एको मृष्टमश्नातु यस्यार्यो ऽनुमते गत: ।। 2.75.33 ।।
पुत्रदारैरिति । मृष्टमश्नातु इतरेषु कदन्नभुक्षु स्वयं मृष्टं समीचीनमन्नम् अश्नातु ।। 2.75.33 ।।
अप्राप्य सदृशान् दाराननपत्य: प्रमीयताम् ।
अनवाप्य क्रियां धर्म्यां यस्यार्यो ऽनुमते गत: ।। 2.75.34 ।।
अप्राप्येति । सदृशान् समानकुलान् । धर्म्यां क्रियाम् अग्निहोत्रादिकं च अप्राप्य अनपत्य: सन् प्रमीयताम् ।। 2.75.34 ।।
मात्मन: सन्ततिं द्राक्षीत् स्वेषु दारेषु दु:खित: ।
आयु: समग्रमप्राप्य यस्यार्यो ऽनुमते गत: ।। 2.75.35 ।।
अप्राप्येत्यादिविवरणम्–मात्मन इति । अनेन ऋणापाकरणं विना ब्रह्मचर्यादेव संन्यास: प्रतिषिद्ध्यते । अरक्तविषयमिदमितिचेन्न ब्रह्मचर्यादेव प्रव्रजेदित्यादेर्दारालाभविषयत्वात् । तत्रैवहि इतरथेत्यनेनायमर्थो दर्शित: ।। 2.75.35 ।।
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ।। 2.75.36 ।।
राजस्त्रीत्यत्रापि यस्यार्यो ऽनुमते गत इत्यनुषञ्जनीयम् ।। 2.75.36 ।।
लाक्षया मधुमांसेन लोहेन च विषेण च ।
सदैव बिभृयाद्भृत्यान् यस्यार्यो ऽनुमते गत: ।। 2.75.37 ।।
लाक्षयेति । भृत्यान् भरणीयान् । लाक्षादिविक्रयलब्धद्रव्येण बिभृयाद्रक्षेदित्यर्थ: । “लाक्षालवणमांसानि वर्जनीयानि विक्रये” इति स्मृते: । ‘अप्यकार्यशतं कृत्वा’ इत्यस्यापवादो ऽयम् ।। 2.75.37 ।।
सङ्ग्रामे समुपोढे स्म शत्रुपक्षभयंकरे ।
पलायमानो वध्येत यस्यार्यो ऽनुमते गत: ।। 2.75.38 ।।
सङ्ग्राम इति । समुपोढे निकटे “उपोढो निकटोढयो:” इति वैजयन्ती ।। 2.75.38 ।।
कपालपाणि: पृथिवीमटतां चीरसंवृत: ।
भिक्षमाणो यथोन्मत्तो यस्यार्योनुमते गत: ।। 2.75.39 ।।
कपालपाणिरिति । अटतां चरतु । चीरं मलिनं जीर्णवस्त्रम् । अनेन शैवमतप्रवेशो निन्द्यते ।। 2.75.39 ।।
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यश: ।
कामक्रोधाभिभूतस्तु यस्यार्योनुमते गत: ।। 2.75.40 ।।
पाने प्रसक्त इति स्पष्टम् ।। 2.75.40 ।।
मा स्म धर्मे मनो भूयादधर्मं सुनिषेवताम् ।
अपात्रवर्षी भवतु यस्यार्यो ऽनुमते गत: ।। 2.75.41 ।।
मा स्मेति । अपात्रवर्षी अपात्रे बहुदायी ।। 2.75.41 ।।
सञ्चितान्यस्य वित्तानि विविधानि सहस्रश: ।
दस्युभिर्विप्रलुप्यन्तां यस्यार्योनुमते गत: ।। 2.75.42 ।।
सञ्चितानीति । दस्युभि: तस्करै: ।। 2.75.42 ।।
उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते ।
तच्च पापं भवेत्तस्य यस्यार्योनुमते गत: ।। 2.75.43 ।।
उभे इति । उभयो: संध्ययो: ।। 2.75.43 ।।
यदग्निदायके पापं यत्पापं गुरुतल्पगे ।
मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ।। 2.75.44 ।।
यदिति । गुरुतल्पगे गुरुदारगे ।। 2.75.44 ।।
देवतानां पितृ़णां च मातापित्रोस्तथैव च ।
मा स्म कार्षीत् स शुश्रूषां यस्यार्यो ऽनुमते गत: ।। 2.75.45 ।।
देवतानामिति । देवानां शुश्रूषा अग्निहोत्रादिकर्म सम्भृतैराज्यचरुपशुपुरोडाशादिभि: प्रीणनम् । पितृ़णां तु उपरागादिषु मातापितृमरणतिथ्यादिषु च पूर्वोक्तैरन्यैश्च तिलादिभिराराधनम् । पितृशुश्रूषयैव मृतमातापितृशुश्रूषाग्रहणसम्भवात् । मातापित्रोरित्यत्र जीवतोरिति विवक्षितम् ।। 2.75.45 ।।
सतां लोकात्सतां कीर्त्त्यात् सञ्जुष्टात् कर्मणस्तथा ।
भ्रश्यतु क्षिप्रमद्यैव यस्यार्यो ऽनुमते गत: ।। 2.75.46 ।।
सतामिति । सतां कीर्त्त्यात् सद्भि: क्रियमाणश्लाघनात् । सञ्जुष्टात् सत्सेवितात् ।। 2.75.46 ।।
अपास्य मातृशुश्रूषामनर्थे सो ऽवतिष्ठताम् ।
दीर्घबाहुर्महावक्षा यस्यार्यो ऽनुमते गत: ।। 2.75.47 ।।
अपास्येति । पुनर्मातृशुश्रूषाग्रहणं तत्त्यागे प्रत्यवायभूयस्तया तन्नित्यतया च । मातृशुश्रूषा हि नित्या, यतस्तस्यां पतितायामपि शुश्रूषां विदधति स्मृतय: । अनर्थे अधर्मे ।। 2.75.47 ।।
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वित: ।
स भूयात् सततं क्लेशी यस्यार्यो ऽनुमते गत: ।। 2.75.48 ।।
बहुपुत्र इति । बहुपुत्रस्यापि धनिनो दु:खाभावात् । अपुत्रस्य दारिद्य्रे ऽपि भरणीयाल्पतया क्लेशाल्पतेति च विशेषणद्वयम् ।। 2.75.48 ।।
आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम् ।
अर्थिनां वितथां कुर्याद्यस्यार्यो ऽनुमते गत: ।। 2.75.49 ।।
आशामिति । आशंसमानानां स्तुवताम् । ऊर्ध्वचक्षुषाम् उन्नतासनस्थदातृमुखनिरीक्षकाणाम् अर्थिनाम् आशां वितथां कुर्यात् ।। 2.75.49 ।।
मायया रमतां नित्यं परुष: पिशुनो ऽशुचि: ।
राज्ञो भीतस्त्वधर्मात्मा यस्यार्यो ऽनुमते गत: ।। 2.75.50 ।।
माययेति । मायया वञ्चनया । रमतां सक्तो भवतु ।। 2.75.50 ।।
ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम् ।
अतिवर्त्तेत दुष्टात्मा यस्यार्यो ऽनुमते गत: ।। 2.75.51 ।।
ऋतुस्नातामिति । ऋतुकालानुरोधिनीम् ऋतुस्नानदिवसे स्वसंनिहिताम् ।। 2.75.51 ।।
धर्मदारान् परित्यज्य परदारान्निषेवताम् ।
त्यक्तधर्मरतिर्मूढो यस्यार्यो ऽनुमते गत: ।। 2.75.52 ।।
धर्मदारानिति । निषेवतां भजताम् ।। 2.75.52 ।।
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् ।
तदेव प्रतिपद्येत यस्यार्यो ऽनुमते गत: ।। 2.75.53 ।।
विप्रलुप्तप्रजातस्येति । विप्रलुप्तप्रजातस्य नष्टापत्यस्य सन्ततिहीनस्येत्यर्थ: । तदेव दुष्कृतं प्रतिपद्येत ।। 2.75.53 ।।
पानीयदूषके पापं तथैव विषदायके ।
यत्तदेक: स लभतां यस्यार्यो ऽनुमते गत: ।। 2.75.54 ।।
पानीयेति । पानीयदूषके विषदायके च यत्पापं तत् द्वयम् एको लभतामित्यर्थ: ।। 2.75.54 ।।
ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रिय: ।
बालवत्सां च गां दोग्धु यस्यार्यो ऽनुमते गत: ।। 2.75.55 ।।
ब्राह्मणायेति । बालवत्साम् अनिर्दशाम् ।। 2.75.55 ।।
तृष्णार्तं सति पानीये विप्रलम्भेन योजयेत् ।
लभेत तस्य यत्पापं यस्यार्यो ऽनुमते गत: ।। 2.75.56 ।।
तृष्णार्तमिति । पानीये सति गृहे विद्यमाने सति । विप्रलम्भेन वञ्चनया यो योजयेत् न ददातीत्यर्थ: । तस्य यत्पापं तल्लभेत ।। 2.75.56 ।।
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यत: ।
तस्य पापेन युज्येत यस्यार्यो ऽनुमते गत: ।। 2.75.57 ।।
विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मज: ।
एवमाश्वासयन्नेव दु:खार्त्तो निपपात ह ।। 2.75.58 ।।
तथा तु शपथै: कष्टै: शपमानमचेतनम् ।
भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत् ।। 2.75.59 ।।
भक्त्येति । विवदमानेषु वादिप्रतिवादिषु विवादं कुर्वत्सु । भक्त्या एकस्मिन् स्नेहेन । मार्गं जयोपायमाश्रित्य पश्यत: ब्रुवतस्तस्य पापेन युज्येतेति सम्बन्ध: ।। 2.75.5759 ।।
मम दु:खमिदं पुत्र भूय: समुपजायते ।
शपथै: शपमानो हि प्राणानुपरुणत्सि मे ।। 2.75.60 ।।
ममेति । उपरुणत्सि पीडयसीत्यर्थ: । यद्वा प्राणानुपरुणत्सि रामवियोगेन मे निर्गच्छत: प्राणान्
स्थापयसि, शपथकरणेन ममाश्वासो जात इत्यर्थ: ।। 2.75.60 ।।
दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मण: ।
वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि ।। 2.75.61 ।।
इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम् ।
परिष्वज्य महाबाहुं रुरोद भृशदु:खिता ।। 2.75.62 ।।
दिष्ट्येति । दिष्ट्या भाग्येन । आत्मा अन्त:करणम् । धर्मात् ज्येष्ठानुवर्त्तनधर्मात् । मे मह्यम् । सहलक्ष्मण: सत्यप्रतिज्ञोसि । लक्ष्मणवत् सत्यप्रतिज्ञो ऽसीत्यर्थ: । अत: सतां लोकानवाप्स्यसि ।। 2.75.6162 ।।
एवं विलपमानस्य दु:खार्त्तस्य महात्मन: ।
मोहाच्च शोकसंरोधाद्बभूव लुलितं मन: ।। 2.75.63 ।।
एवमिति । एवं विलपमानस्य पूर्वोक्तशपथरूपेण विलपत: । शोक संरोधात् शोककृतसंरोधात् ।। 2.75.63 ।।
लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धे: पतितस्य भूमौ ।
मुहुर्मुहुर्निश्वसतश्च धर्मं सा तस्य शोकेन जगाम रात्रि: ।। 2.75.64 ।।
लालप्यमानस्येति । लालप्यमानस्य भृशं प्रलपत: । विचेतनस्य मूर्च्छितस्य । प्रनष्टबुद्धे: क्षुभितान्त:करणस्य । धर्मम् उष्णं यथाभवति तथा निश्वसत: ।। 2.75.64 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चसप्ततितम: सर्ग: ।। 75 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चसप्ततितम: सर्ग: ।। 75 ।।