श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनाशीतितम: सर्ग:
तत: प्रभातसमये दिवसे च चतुर्दशे ।
समेत्य राजकर्त्तारो भरतं वाक्यमब्रुवन् ।। 2.79.1 ।।
तत इति । त्रयोदशदिवसपर्यन्तमपरक्रियाव्यापृतत्वाच्चतुर्दश इत्युक्तम् । समेत्य एकीभूय ।। 2.79.1 ।।
गतो दशरथ: स्वर्गं यो नो गुरुतरो गुरु: ।
रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ।। 2.79.2 ।।
गुरुतरो गुरु:, परमगुरुरित्यर्थ: ।। 2.79.2 ।।
त्वमद्य भव नो राजा राजपुत्र महायश: ।
सङ्गत्या नापराध्नोति राज्यमेतदनायकम् ।। 2.79.3 ।।
“राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्” इति मातापित्रादेरपि राज्ञ एवान्तरङ्गरक्षकत्वोपदेशात् अनायकमपि एतद्राज्यं सङ्गत्या दैवयोगेन नापराध्नोति । राज्यस्थजनजातमन्योन्यं न द्रुह्यतीत्यर्थ: ।। 2.79.3 ।।
आभिषेचनिकं सर्वमिदमादाय राघव ।
प्रतीक्षते त्वां स्वजन: श्रेणयश्च नृपात्मज ।। 2.79.4 ।।
राज्यं गृहाण भरत पितृपैतामहं ध्रुवम् ।
अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ ।। 2.79.5 ।।
प्रकृत्याभिमुख्यमप्यस्तीत्याह–आभिषेचनिकमिति । आभिषेचनिकम् अभिषेकप्रयोजनं पदार्थजातम् । स्वजन: अमात्यादि: । श्रेणय: नैगमा: प्रतीक्षन्त इति विपरिणाम: ।। 2.79.45 ।।
[एवमुक्त: शुभं वाक्यं द्युतिमान् सत्यवाक्छुचि: ।]
आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् ।
भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रत: ।। 2.79.6 ।।
भाण्डम् उपकरणम् ।। 2.79.6 ।।
ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य न: ।
नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जना: ।। 2.79.7 ।।
राजता राजत्वम् ।। 2.79.7 ।।
राम: पूर्वो हि नो भ्राता भविष्यति महीपति: ।
अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ।। 2.79.8 ।।
वत्स्यामि रामप्रतिनिधित्वेनेति शेष: ।। 2.79.8 ।।
युज्यतां महती सेना चतुरङ्गमहाबला ।
आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ।। 2.79.9 ।।
युज्यतामिति । आनयिष्यामीत्यत्र इडार्ष: ।। 2.79.9 ।।
आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् ।
पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति ।। 2.79.10 ।।
उपस्कृतं संस्कृतम् । उपकरणमिति वार्थ: । रामहेतो: रामाभिषेकार्थम् ।। 2.79.10 ।।
तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् ।
आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ।। 2.79.11 ।।
पुरस्कृतं पूजितम् “पुरस्कृत: पूजिते स्यादभियुक्ते ऽग्रत: कृते” इति वैजयन्ती । यद्वा पुरस्कृतं स्वजनदर्शनेनाभिमुखीकृतमित्यर्थ: । अध्वरात् यागशालाया: । हव्यवाहं त्रेताग्निम् ।। 2.79.11 ।।
न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम् ।
वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति ।। 2.79.12 ।।
मातृगन्धिनीं केवलमातृव्यपदेशाम् लेशमात्रमातृभावामिति वा । “गन्धोलेशे महीगुणे” इति वैजयन्ती ।। 2.79.12 ।।
क्रियतां शिल्पिभि: पन्था: समानि विषमाणि च ।
रक्षिणश्चानुसंयान्तु पथि दुर्गविचारका: ।। 2.79.13 ।।
क्रियतामिति । तत्समीपगमनायेति शेष: । विषमाणि निम्नोन्नतस्थलानि समानि क्रियन्ताम् । पथि दुर्गविचारका: मार्गे दुर्गस्थलशोधका: । यद्वा दुर्गाभिज्ञा रक्षिण: ।। 2.79.13 ।।
एवं सम्भाषमाणं तं रामहेतोर्नृपात्मजम् ।
प्रत्युवाच जन: सर्व: श्रीमद्वाक्यमनुत्तमम् ।। 2.79.14 ।।
रामहेतो: अनुत्तमं श्रीमद्वाक्यम् । एवं सम्भाषमाणं प्रत्युवाचेति सम्बन्ध: ।। 2.79.14 ।।
एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् ।
यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ।। 2.79.15 ।।
पद्मा पद्मालया श्री: ते उपतिष्ठतां त्वत्समीपे अनपायिनी तिष्ठत्वित्यर्थ: । नृपसुते नृपसुताय । स एव सुत: ज्येष्ठत्वात् । “इतरे कामजा: स्मृता:” वचनादिति भाव: ।। 2.79.15 ।।
अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च ।
प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसम्भवा: ।। 2.79.16 ।।
संश्रवणे रामानयनप्रतिज्ञाविषये । “आगूसङ्गरसन्धा: प्रतिश्रव: संश्रव: प्रतिज्ञा च” इति हलायुध: । निशम्य स्थितानामिति शेष: । आर्यानननेत्रसम्भवा इत्यत्र आर्येत्यविभक्तिकनिर्देश: । आर्याणामिति यावत् ।। 2.79.16 ।।
ऊचुस्ते वचनमिदं निशम्य हृष्टा: सामात्या: सपरिषदो वियातशोका: ।
पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टास्तव वचनाच्च शिल्पिवर्ग: ।। 2.79.17 ।।
हे नरवर तव वचनात् शिल्पिवर्ग: भक्तिमान् जन: रक्षकश्च पन्थानं प्रति व्यादिष्टा: आज्ञप्ता: इतीदमूचुरिति सम्बन्ध: ।। 2.79.17 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनाशीतितम: सर्ग: ।। 79 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनाशीतितम: सर्गः ।। 79 ।।