[highlight_content]

86 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितम: सर्ग:

आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मन: ।

भरतायाप्रमेयाय गुहो गहनगोचर: ।। 2.86.1 ।।

आचचक्ष इत्यादि । अथ आश्वासनानन्तरम् । सद्भावं ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् । आचचक्ष इत्यादि भगवद्विषयोपदेशे नूतनपुरातनविभागो नास्ति । देशिका वक्तार: सादरा: श्रोतार इत्याह । आङीषदर्थे । स्ववागिन्द्रियविषयमेवावदत् नतु कार्त्स्न्येन । अथ भरतस्वभावज्ञानानन्तरम् । सद्भावं ‘बाल्यात्प्रभृति सुस्निग्ध:’ इति सत्ताव्याप्तं स्वभावम् । लक्ष्मणस्य महात्मन: । पयोधिं पाणिना परिच्छेत्तुमुद्युक्त: भरतायाप्रमेयाय एतादृशस्योपदेष्टेति नास्ति, गुहो गहनगोचर: वन्यवृक्षादितारतम्यमात्रज्ञ: एतादृशस्वभावमविज्ञातवान् । यद्वा रामविरहेण कुत्रचित् कुञ्जे स्थित: तद्देशीयागमने समुत्थाय निर्गत: ।। 2.86.1 ।।

तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् ।

भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रुवम् ।। 2.86.2 ।।

इयं तात सुखा शय्यात्वदर्थमुपकल्पिता ।

प्रत्याश्वसि हि शेष्वास्यां सुखं राघवनन्दन ।। 2.86.3 ।।

भरतस्य रामविषयस्नेहमभिवर्द्धयितुं लक्ष्मणस्य ज्येष्ठानुवर्तनरूपं पूर्ववृत्तान्तमाह–तं जाग्रतमित्यादिना । भ्रातृगुप्त्यर्थम् अत्यन्तं जाग्रतं शरचापासिधारिणम् एकहस्ते शरयुक्तचापम् अपरहस्ते असिं च दधानमित्यर्थ: । गुणैर्भ्रातृभक्यादिगुणैर्युक्तम् ।। 2.86.23 ।।

उचितो ऽयं जन: सर्वो दु:खानां त्वं सुखोचित: ।

धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ।। 2.86.4 ।।

उचित इति । तस्य रामस्य ।। 2.86.4 ।।

नहि रामात् प्रियतरो ममास्ति भुवि कश्चन ।

मोत्सुकोभूर्ब्रवीम्येतदप्यसत्यं तवाग्रत: ।। 2.86.5 ।।

नहीति । मोत्सुकोभू: अस्यां रात्रौ रामरक्षणौत्सुक्यं मा कृथा इत्यर्थ: । एतद्रक्षणं प्रति तवाग्रत: असत्यं ब्रवीम्यपि ब्रवीमि किम् ? न ब्रवीम्येवेत्यर्थ: ।। 2.86.5 ।।

अस्य प्रसादादाशंसे लोके ऽस्मिन् सुमहद्यश: ।

धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ।। 2.86.6 ।।

स्वस्यैहिकमामुष्मिकं च फलं रामायत्तमित्याह–अस्येत्यादिना । धर्मावाप्तिम् आमुष्मिकफलसाधनसिद्धिम् केवलां न्यायप्राप्तामिति यावत् ।। 2.86.6 ।।

सो ऽहं प्रियसखं रामं शयानं सह सीतया ।

रक्षिष्यामि धनुष्पाणि: सर्वै: स्वैर्ज्ञातिभि: सह ।। 2.86.7 ।।

नहि मे ऽविदितं किञ्चिद्वने ऽस्मिंश्चरत: सदा ।

चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ।। 2.86.8 ।।

एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना ।

अनुनीता वयं सर्वे धर्ममेवानुपश्यता ।। 2.86.9 ।।

कथं दाशरथौ भूमौ शयाने सह सीतया ।

शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ।। 2.86.10 ।।

यो न देवासूरै: सर्वै: शक्य: प्रसहितुं युधि ।

तं पश्य गुह संविष्टं तृणेषु सह सीतया ।। 2.86.11 ।।

नेति । मेविदितमित्यत्र अविदितमिति पदच्छेद: ।। 2.86.811 ।।

महता तपसा लब्धो विविधैश्च परिश्रमै: ।

एको दशरथस्यैष पुत्र: सदृशलक्षण: ।। 2.86.12 ।।

महतेति । तपसा अनशनेन । परिश्रमै: यज्ञादिभिरित्यर्थ: । एक: मुख्य: “एके मुख्यान्यकेवला:” इत्यमर: ।। 2.86.12 ।।

अस्मिन् प्रव्राजिते राजा न चिरं वर्त्तयिष्यति ।

विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ।। 2.86.13 ।।

प्रव्राजनकालिकदशरथदशां स्मरन्नाह–अस्मिन्निति । वर्त्तयिष्यति जीविष्यति ।। 2.86.13 ।।

विनद्य सुमहानादं श्रमेणोपरता: स्त्रिय: ।

निर्घोषोपरतं नूनमद्य राजनिवेशनम् ।। 2.86.14 ।।

विनद्येति । सुमहानादं विनद्य, कृत्वेत्यर्थ: । अद्य स्त्रिय: उपरता इति मन्ये इत्युपस्कार्यम् । निवेशनं निवेशनं च ।। 2.86.14 ।।

कौसल्या चैव राजा च तथैव जननी मम ।

नाशंसे यदि जीवेयु: सर्वे ते शर्वरीमिमाम् ।। 2.86.15 ।।

कौसल्येति । सर्वे ते जीवेयुरिति नाशंसे यदि जीवेयुरिमां शर्वरीमेवेति सम्बन्ध: ।। 2.86.15 ।।

जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया ।

दु:खिता या तु कौसल्या वीरसूर्विनशिष्यति ।। 2.86.16 ।।

जीवेदिति । शत्रुघ्नस्यान्ववेक्षया शत्रुघ्नसम्बन्ध्यवेक्षणेच्छया । वीरसू: कौसल्या दु:खितेति यत् अतो विनशिष्यति । दु:खिता या त्विति पाठ: समीचीन: । तत्पक्षे या दु:खिता वीरसू: कौसल्या सा तु विनशिष्यत्येवेत्यर्थ: ।। 2.86.16 ।।

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।

राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ।। 2.86.17 ।।

अतिक्रान्तमिति । अतिक्रान्तमतिक्रान्तं सर्वं प्रयोजनमतीत्येत्यर्थ: ।। 2.86.17 ।।

सिद्धार्था: पितरं वृत्तं तस्मिन् काले ह्युपस्थिते ।

प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ।। 2.86.18 ।।

सिद्धार्था इति । वृत्तम् अतीतम्, मृतमिति यावत् ।। 2.86.18 ।।

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।

हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ।। 2.86.19 ।।

गजाश्वरथसम्बाधां तूर्यनादविनादिताम् ।

सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ।। 2.86.20 ।।

आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम् ।

सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ।। 2.86.21 ।।

रम्येत्यादि । हर्म्यप्रासादसम्पन्नां हर्म्याणि धनिनां गृहाणि, प्रासादा देवानां राज्ञां च गृहाणि तै: सम्पन्नां समृद्धाम् । सर्वरत्नविभूषितां सर्वै: श्रेष्ठवस्तुभिरलङ्कृताम् । तूर्यनादविनादितां तूर्यस्य नृत्यगीतादिकस्य नादेन विनादिताम्, हर्म्यादिषु कृतप्रतिध्वनिमित्यर्थ: । सर्वकल्याणै: सर्वमङ्गलै: सम्पूर्णां सर्वोत्सवै: सम्पूर्णां वा । आरामोद्यानसम्पूर्णाम् आरामा: उपवनानि उद्यानानि राज्ञामसाधारणवनानि तै: समृद्धाम् । समाजोत्सवशालिनीम् उत्सवसमूहशालिनीम् ।। 2.86.1921 ।।

अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम् ।

निवृत्ते समये ह्यस्मिन् सुखिता: प्रविशेमहि ।। 2.86.22 ।।

अपीति । सत्यप्रतिज्ञेन तीर्णवनवासप्रतिज्ञेन रामेण । प्रविशेमहि, पुरीमिति शेष: ।। 2.86.22 ।।

परिदेवयमानस्य तस्यैवं सुमहात्मन: ।

तिष्ठतो राजपुत्रस्य शर्वरी सा ऽत्यवर्त्तत ।। 2.86.23 ।।

प्रभाते विमले सूर्ये कारयित्वा जटावुभौ ।

अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ।। 2.86.24 ।।

परिदेवयमानस्येति । तिष्ठतो राजपुत्रस्य राजपुत्रसम्बन्धिनी शर्वरी । अत्यवर्त्तत निरन्तरपरिदेवनेन रात्रिं यापितवानित्यर्थ: ।। 2.86.2324 ।।

जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ।

वरेषुचापासिधरौ परन्तपौ व्यवेक्षमाणौ सह सीतया गतौ ।। 2.86.25 ।।

जटाधराविति । व्यवेक्षमाणौ सर्वतो दत्तावधानौ ।। 2.86.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितम: सर्ग: ।। 86 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षडशीतितम: सर्ग: ।। 86 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.