श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ।। 4.34.1 ।।
अथ सुग्रीवं प्रति रामसन्देशकथनं चतुस्त्रिंशे तमप्रतिहतमित्यादि ।। 4.34.1 ।।
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ।
भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् ।। 4.34.2 ।।
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ।
महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः ।। 4.34.3 ।।
क्रुद्धमित्यादि । महेन्द्रस्य ध्वज इव उत्पपात । स्वलङ्कृत इत्युभयविशेषणम् ।। 4.34.2,3 ।।
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः ।
सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ।। 4.34.4 ।।
उत्पतन्तमिति । अनूत्पेतुः पश्चादुत्पेतुः ।। 4.34.4 ।।
संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः ।
बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ।। 4.34.5 ।।
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।
अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ।। 4.34.6 ।।
सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः ।
कृतज्ञः सत्यवादी च राजा लोके महीयते ।। 4.34.7 ।।
संरक्तनयनः, मदेनेति शेषः ।। 4.34.57 ।।
यस्तु राजा स्थिते ऽधर्मे मित्राणामुपकारिणाम् ।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ।। 4.34.8 ।।
यस्त्विति । अधर्मे इति च्छेदः ।। 4.34.8 ।।
शतमश्वानृते हन्ति सहस्रं तु गवानृते ।
आत्मानं स्वजनं हन्ति पुरषः पुरुषानृते ।। 4.34.9 ।।
शतमिति । पुरुषः अश्वानृते अश्वविषयानृते शतं हन्ति, शताश्वहननदोषभाग् भवेदित्यर्थः । एवं गवानृते गोविषयानृते सहस्रं हन्ति सहस्रगोहननदोषभाग् भवेत् । पुरुषानृते आत्मनं स्वजनं हन्ति, आत्मस्वजनहननदोषभाग् भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वहननदोषभाग् भवेदिति भावः ।। 4.34.9 ।।
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।
कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ।। 4.34.10 ।।
पूर्वमिति । तन्मित्रकार्यं न प्रतिकरोति पुनर्न करोति ।। 4.34.10 ।।
गीतो ऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ।
दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम ।। 4.34.11 ।।
गीतो ऽयमिति । ब्रह्मणा स्वायम्भुवमनुना ।। 4.34.11 ।।
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ।। 4.34.12 ।।
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ।
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ।। 4.34.13 ।।
निष्कृतिः प्रायश्चित्तम् ।। 4.34.12,13 ।।
ननु नाम कृतार्थेन त्वया रामस्य वानर ।
सीतया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ।। 4.34.14 ।।
कृतमिच्छता उपकारं स्मरता ।। 4.34.14 ।।
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ।
न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ।। 4.34.15 ।।
महाभागेन रामेण पापः करुणवेदिना ।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ।। 4.34.16 ।।
कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः ।
सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ।। 4.34.17 ।।
न च सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ।। 4.34.18 ।।
स त्वमिति । मण्डूकराविणं मण्डूकग्रहणार्थं मण्डूकवद्रौति तमिव वञ्चकं त्वां न जानातीत्यर्थः ।। 4.34.1518 ।।
न नूनमिक्ष्वाकुवरस्य कार्मुकच्युतान् शरान् पश्यसि वज्रसन्निभान् ।
ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसा ऽप्यवेक्षसे ।। 4.34.19 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ।। 34 ।।
रामस्य सन्दिष्टं वाक्यमभिधाय प्रकृतकार्योचितं स्ववाक्यमाह न नूनमिति । इक्ष्वाकुवरस्य कार्मुकच्युतान् बाणान् वज्रसन्निभान् न पश्यति नाद्राक्षीः नूनम् । ततो नाम तस्मात् खलु सुखं निषेवसे, सुखी सन् रामकार्यं मनसा ऽपि नावेक्षस इति योजना ।। 4.34.19 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ।। 34 ।।