श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ।। 4.66.1 ।।
वीर वानरलोकस्य सर्वशास्त्रविशारद ।
तूष्णीमेकान्तमाश्रित्य हनुमान् किं न जल्पसि ।। 4.66.2 ।।
हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ।
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ।। 4.66.3 ।।
अनेकेत्यादि ।। 4.66.13 ।।
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ।। 4.66.4 ।।
बहुशो हि मया दृष्टः सागरे स महाबलः ।
भुजगानुद्धरन् पक्षी महावेगो महायशाः ।। 4.66.5 ।।
अरिष्टनेमिनः काश्यपस्य । नकारान्तत्वमार्षम् ।। 4.66.4,5 ।।
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।
विक्रमश्चापि वेगश्च न ते तेनावहीयते ।। 4.66.6 ।।
पक्षयोरिति । अत्र समानपदमध्याहार्यम् । विक्रमादिकं तेन गरुत्मना समानम् । नावहीयते न न्यूनं भवति । तेनेति पञ्चम्यर्ते तृतीया ।। 4.66.6 ।।
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव ।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ।। 4.66.7 ।।
विशिष्टं श्रेष्ठम् ।। 4.66.7 ।।
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ।। 4.66.8 ।।
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि ।
अभिशापादभूत्तात वानरी कामरूपिणी ।। 4.66.9 ।।
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ।
कपित्वे चारुसर्वाङ्गी कदाचित् कामरूपिणी ।। 4.66.10 ।।
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ।
विचित्रमाल्याभरणा महार्हक्षौमवासिनी ।
अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ।। 4.66.11 ।।
अप्सरेति निर्देश आर्षः ।। 4.66.811 ।।
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ।
स्थितायाः पर्वतस्याग्रे मारुतो ऽपहरच्छनैः ।। 4.66.12 ।।
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ।
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ।। 4.66.13 ।।
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ।
दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः ।। 4.66.14 ।।
रक्तदशं रक्ताग्रम् ।। 4.66.1214 ।।
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ।
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ।। 4.66.15 ।।
सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्यमब्रवीत् ।
एकपत्नीव्रतमिदं को नाशयितुमिच्छति ।
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।। 4.66.16 ।।
स तामिति । तां गतात्मा तद्गतचित्तः । तां पर्यष्वजतेति सम्बन्धः ।। 4.66.15,16 ।।
न त्वां हिंसामि सुश्रोणि माभूत्ते सुभगे भयम् ।
मनसा ऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ।। 4.66.17 ।।
नेति । न हिंसामि पातिव्रत्यान्न प्रच्यावयामि ।। 4.66.17 ।।
वीर्यवान् बुद्धिसम्पन्नस्तव पुत्त्रो भविष्यति ।
महासत्त्वो महातेजा महाबलपराक्रमः ।
लङ्घने प्लवने चैव भविष्यति मया समः ।। 4.66.18 ।।
एवमुक्ता ततस्तुष्टा जननी ते महाकपे ।
गुहायां त्वं महाबाहो प्रजज्ञे प्लवगर्षभम् ।। 4.66.19 ।।
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ।
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ।। 4.66.20 ।।
न केवलं पातिव्रत्यभङ्गाभावः, श्रेयो ऽपि भविष्यतीत्याह वीर्यवानिति ।। 4.66.1820 ।।
शतनि त्रीणि गत्वा ऽथ योजनानां महाकपे ।
तेजसा तस्य निर्धूतो न विषादं गतस्ततः ।। 4.66.21 ।।
तावदापततस्तूर्णमन्तरिक्षं महाकपे ।
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ।। 4.66.22 ।।
तदा शैलाग्रशिखरे वामो हनुरभज्यत ।
ततो हि नामधेयं ते हनुमानिति कीर्त्यते ।। 4.66.23 ।।
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ।
त्रैलोक्ये भृशसङ्क्रुद्धो न ववौ वै प्रभञ्जनः ।। 4.66.24 ।।
सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति ।
प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः ।। 4.66.25 ।।
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ।
अशस्त्रवध्यतां तात समरे सत्यविक्रम ।। 4.66.26 ।।
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ।
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ।। 4.66.27 ।।
स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ।
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ।। 4.66.28 ।।
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ।
[ ईदृशस्य हि ते तात वर्णयामः कथं बलम् ।
कार्यं च लोकसम्मान्यं कर्तुं शक्तस्त्वमेव हि ।
भवान् जीवातवे ऽस्माकमञ्जनागर्भसम्भवः ।]
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ।। 4.66.29 ।।
वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् ।
दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः ।। 4.66.30 ।।
शतानि त्रीण्येतदनेकशतयोजनानामुपलक्षणम् । “बहुयोजनसाहस्रं क्रामत्येषः” इत्युत्तरकाण्डे वक्ष्यमाणत्वात् ।। 4.66.2130 ।।
त्रिविक्रमे मया तात सशैलवनकानना ।
त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ।। 4.66.31 ।।
तथा चौषधयो ऽस्माभिः सञ्चिता देवशासनात् ।
निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ।। 4.66.32 ।।
स इदानीमहं वृद्धः परिहीनपराक्रमः ।
साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ।। 4.66.33 ।।
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ।
त्वद्वीर्यं द्रष्टुकामेयं सर्ववानरवाहीनी ।। 4.66.34 ।।
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ।
परा हि सर्वभूतानां हनुमन् या गतिस्तव ।। 4.66.35 ।।
विषण्णा हरयः सर्वे हनूमन् किमुपेक्षसे ।
विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव ।। 4.66.36 ।।
ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ।
प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा ।। 4.66.37 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ।। 66 ।।
त्रिविक्रम इति । पृथिवीत्यनेनाण्डकटाहमध्य उक्तः । तस्याः त्रिःसप्तकृत्वः क्रमणं मध्यप्रदेशे । यद्वा यावती महाबलिभूमिः तावती पृथिवी अत्र विवक्षिता । तस्याः प्रदक्षिणं तद्बहिःप्रदेशेन सङ्गच्छते । यद्वा क्रमणानन्तरं जाम्बवान् विजयघोषणार्थं पृथिवीमात्रप्रदक्षिणं कृतवानिति प्रसिद्धिः । अन्यत्सर्वमतिरोहितार्थम् ।। 4.66.3137 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्षष्ठितमः सर्गः ।। 66 ।।