[highlight_content]

03 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः

विश्रवसोमुनिवरात्कुबेरोत्पत्तिः ॥ १ ॥ कुबेरतपस्तुष्टेनपरमेष्ठिना तस्मै दिक्पतित्वधन -पतित्ववरदानम् ॥ २ ॥ कुबेरेण स्वपितृतियोगेन राक्षसाधिष्ठितपूर्वलङ्कायां स्वजनैः सहनिवासः ॥ ३ ॥

अथ पुत्र: पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।

िरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥

सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुिः ।

सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥

ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।

ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ॥ ३ ॥

तस्य तद्वृत्तं विश्रवसस्तादृशं रितमित्यर्थः । देववर्णिनीं देवसमानरूपां ॥ ३ ॥

प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।

प्रजान्वेषिकया बुद्ध्या श्रेयो ह्यस्य वििन्तयन् ॥ ४ ॥

मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।

स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम् ।

जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ॥ ५ ॥

तस्मिञ्जाते तु संहृष्टः संबभूव पितामहः ॥ ६ ॥

दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।

नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ॥ ७ ॥

यस्माद्विश्रवसोपत्यं सादृश्याद्विश्रवा इव ।

तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः ॥ ८ ॥

स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।

अवर्धताहुतिहुतो महातेजा यथाऽनलः ॥ ९ ॥

तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।

रिष्ये परमं धर्मं धर्मो हि परमा गतिः ॥ १० ॥

प्रतिगृह्येत्यादिलोकपञ्कमेकं वाक्यं । सर्वैर्ब्रह्मगुणैः । शमदमादिभिरित्यर्थः । पितामहः वैश्रवणपितामहः । पुलस्त्य इत्यर्थः । प्रजामन्वि्छतीति प्रजान्वेषिका प्रत्ययस्थात् इतीत्वं । अस्य विश्रवसस्तस्मिन्पुत्रे जाते तुष्टो बभूव । श्रेयस्करीं धनेशत्वरूपश्रेयः प्राप्तिहेतुभूतां । जन्मलग्नपर्यालोनया कालान्तरे धनाध्यक्षनामको भविष्यतीति निश्ित्य तत्काले विश्रवसोपत्यत्वाद्वैश्रवण इति विश्रुतो भविष्यतीति नाम कार । विश्रवसो विश्रवणं वा इति विश्रवणादेशः ।। ४-१० ।।

 

स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।

यन्त्रितो नियमैरुग्रैश्कार सुमहत्तपः ॥ ११ ॥

नियमैः यन्त्रितः संजातबन्धनः ॥ ११ ॥

 

पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।

जलाशी मारुताहारो निराहारस्तथैव

एवं वर्षसहस्राणि जमुस्तान्येकवर्षवत् ॥ १२ ॥

अथ प्रीतो महातेजाः सेन्द्रैः सुरगणै: सह ।

गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ॥ १३ ॥

परितुष्टोऽस्मि ते वत्स कर्मणाऽनेन सुव्रत ।

वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ॥ १४ ॥

तं तं विधिं । विधिमेवाह – जलाशीत्यादि ॥ १२-१४ ॥

 

अथाब्रवीद्वैश्रवणः पितामहसुपस्थितम् ।

भगवँल्लोकपालत्वमि्छेयं वित्तरक्षणम् ॥ १५ ॥

अथाब्रवीद्वैश्रवणं परितुष्टेन ेतसा ।

ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ॥ १६ ॥

अहं वै लोकपालानां तुर्थं स्रष्टुमुद्यतः ॥ १७ ।।

वित्तरक्षणं अशेषनिधिपतित्वं ।। १५-१७ ॥

 

यमेन्द्रवरुणानां पदं यत्तव ेप्सितम् ।

तद्ग्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।

शक्राम्बुपयमानां तुर्थस्त्वं भविष्यसि ॥ १८ ॥

यदीप्सितं तद्ग्छ निधीशत्वमवाप्नुहि ॥ १८ ॥

 

एत पुष्पकं नाम विमानं सूर्यसन्निभम् ।

प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ॥ १९ ॥

स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् ।

कृतकृत्या वयं तात दत्वा तव वरद्वयम् ॥ २० ॥

इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ॥ २१ ॥

गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभःस्थलम् ।

वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ॥ २२ ॥

निवासनं न मे देवो विदधे स प्रजापतिः ।

भगवँलब्धवानस्मि वरमिष्टं पितामहात् ॥ २३ ॥

तं पश्य भगवन्कंिन्निवासं साधु मे प्रभो ।

पीडा भवेद्यत्र प्राणिनो यस्य कस्यित् ॥ २४ ॥

एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।

नं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ॥ २५ ॥

दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।

तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ।

लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ॥ २६ ॥

राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ।

तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ॥ २७ ॥

त्रिदशैः समतामिति । नतु ऋषिपुत्रवद्वर्तस्वेत्यर्थः ॥ १९-२७ ॥

 

हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता ।

रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ॥ २८ ॥

राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।

शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ॥ २९ ॥

शून्या संप्रति लङ्का सा प्रभुस्तस्या न विद्यते ।

स त्वं तत्र निवासाय ग्छ पुत्र यथासुखम् ॥ ३० ॥

निर्दोषस्तत्र ते वासो न बाधा तत्र कस्यित् ॥ ३१ ॥

यन्त्ररूपैः शस्त्रैः समावृता ॥ २८-३१ ॥

 

एत्छ्रुत्वा स धर्मात्मा धर्मिष्ठं वनं पितुः ।

निवासयामास तदा लङ्कां पर्वतमूर्धनि ।

नैर्ऋतानां सहस्रैस्तु हृटैः प्रमुदितैः सह ॥ ३२ ॥

प्रमुदितैः सह निवासयामासेति योजना ॥ ३२ ॥

 

िरेणैव कालेन संपूर्णा तस्य शासनात् ॥ ३३ ॥

स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः ।

समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ॥ ३४ ॥

काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।

अभ्याग्छद्विनीतात्मा पितरं मातरं हि ॥ ३५ ॥

स देवगन्धर्वगणैरभिष्टुतस्तथाऽप्सरो नृत्य विभूषितालयः ॥

गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ॥ ३६ ॥

संपूर्णाधनधान्यादिसर्वैश्वर्यपूर्णेत्यर्थः ॥ ३३-३६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः ॥ ३ ॥

इति श्रीगोविन्दराजविरिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥

Languages

Related Parts

error: Content is protected !!