[highlight_content]

38 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टत्रिंशः सर्गः

रामेण स्वाभिषेकावलोकनकुतुकसमागतनानादेशाधिपानां तत्तन्नगरंप्रतिप्रेषणम् ॥ १ ॥

एवमास्ते महाबाहुरहन्यहनि राघवः ।

प्रशासत्सर्वकार्याणि पौरजानपदेषु ॥ १ ॥

ततः कतिपयाहस्सु वैदेहं मिथिलाधिपम् ।

राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवा ह ॥ २ ॥

अथ सामन्तराजविसर्जनं-एवमित्यादि ॥ एवं पूर्वोक्तप्रकारेण । सर्वोपास्यमान इत्यर्थः । प्रशासदिति शत्रन्तं पदं ॥ १-२ ॥

 

भवान्हि गतिरव्यग्रा भवता पालिता वयम् ।

भवतस्तेजसोग्रेण रावणो निहतो मया ॥ ३ ।।

इक्ष्वाकूणां सर्वेषां मैथिलानां सर्वशः ।

अतुलाः प्रीतयो राजन्संबन्धकपुरोगमाः ॥ ४ ॥

भवान्हि गतिरव्यग्रेति । अला प्रतिष्ठेत्यर्थः । भवता पालिता इति । कन्याप्रदानादिना परिपालितवंशा इत्यर्थः । तेजसा तपोवीर्येण । पाविता इति पाठः ॥ ३-४ ॥

 

तद्भवान्त्स्वपुरीं यातु रत्नान्यादाय पार्थिव ।

भरतश् सहायार्थं पृष्ठतस्तेऽनुयास्यति ॥ ५ ॥

रत्नानि अस्माभिर्दीयमानानि उत्तमवस्तूनि ॥ ५ ॥

 

स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् ।

प्रीतोस्मि भवतो राजन्दर्शनेन नयेन ॥ ६ ॥

तथेति कृत्वा तथास्त्वित्यङ्गीकृत्येत्यर्थः ॥ ६ ॥

 

यान्येतानि तु रत्नानि मदर्थं संितानि वै ।

दुहित्रे तानि वै राजन्सर्वाण्येव ददामि ॥ ७ ॥

एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ।

प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ८ ॥

मदर्थं मत्प्री- तिदानार्थं ॥ ७-८ ॥

 

ततः प्रयाते जनके केकयं मातुलं प्रभुः ।

राघवः प्राञ्जलिर्भूत्वां वाक्यमेतदुवा ह ॥ ९ ॥

केकयं मातुलमिति युधाजितमित्यर्थः ॥ ९ ॥

 

इदं राज्यमहं ैव भरतश् सलक्ष्मणः ।

आयत्तास्त्वं हि नो राजन्गतिश् पुरुषर्षभ ॥ १० ॥

आयत्ताः । त्वयीति शेषः  । गतिः आपद्बन्धुरित्यर्थः ॥ १० ॥

 

राजाऽपि वृद्धः संतापं त्वदर्थमुपयास्यति ।

तस्माद्गमनमद्यैव रोते तव पार्थिव ॥ ११ ॥

राजा केकयः ॥ ११ ॥

 

लक्ष्मणेनानुयात्रेण पृष्ठतोऽनुगमिष्यते ।

धनमादाय विपुलं रत्नानि विविधानि ॥ १२ ॥

युधाजित्तु तथेत्याह गमनं प्रति राघवम् ।

रत्नानि धनं ैव त्वय्येवाक्षय्यमस्त्विति ॥ १३ ॥

अनुयात्रेण अनुयात्रोपाररूपेण अनुयात्रानुरूपोपारार्थ । अनुगमिष्यते । भवानिति शेषः । लक्ष्मणस्त्वनुयात्रार्थं पृष्ठतोनुगमिष्यतीतिपाठः ।। १२-१३ ।।

 

प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः ।

रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ १४ ॥

रामेण पूर्वमभिवाद्य प्रदक्षिणं कृतः केकयवर्धनः राजानं रामं प्रदक्षिणीकृत्य प्रयातः। रामस्य मूर्धाभिषिक्तत्वाज्येष्ठेन मातुलेनापि रामं प्रति प्रदक्षिणादिकरणं ॥ १४ ॥

 

लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः ।

हतेऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ १५ ॥

तं विसृज्य ततो रामो वयस्यमकुतोभयम् ।

प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ १६ ॥

वृत्रे हते सति विष्णुना उपेन्द्रेण सह स्थितो वासवः यथा विसृजति तथा लक्ष्मणमनुयात्रार्थं विसृज्येत्यर्थः ॥ १५-१६ ॥

 

दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।

उद्योगश् कृतो राजन्भरतेन त्वया सह ॥ १७ ॥

यस्मात्त्वया भरतेन सह मम रणसहायार्थमुद्योगः कृतः । यस्माद्भवता परमा प्रीतिर्दृर्शिता परं सौहार्दं दर्शितं । अनेनानुवादेन रावणसंहारार्थं काशीराजेन संगतमिति सिद्धम् ॥ १७ ॥

 

तद्भवानद्य काशेय पुरीं वाराणसीं व्रज ।

रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ १८ ॥

काशेय काशीदेशे भव । ढग्भाव आर्षः ॥ १८ ॥

 

एतावदुक्त्वा ोत्थाय काकुत्स्थ: परमासनात् ।

पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ।

विसर्जयामास तदा कौसल्यानन्दवर्धनः ॥ १९ ॥

राघवेणाभ्यनुज्ञातः काशीशोप्यकुतोभयः ।

वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥ २० ॥

उरोगतं यथा भवति तथा निरन्तरं गाढं पर्यध्वजत ।। १९-२० ।।

 

विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् ।

प्रहसन्राघवो वाक्यमुवा मधुराक्षरम् ॥ २१ ॥

प्रहसन्निति । त्रिशतसंख्याकपृथिवीपतिदर्शनजसंतोषात्प्रहासः ॥ २१ ॥

 

भवतां प्रीतिरव्यंग्रा तेजसा परिरक्षिता ।

धर्मश् नियतो नित्यं सत्यं भवतां सदा ॥ २२ ॥

युष्माकं ानुभावेन तेजसा महात्मनाम् ।

हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ २३ ॥

हेतुमात्रमहं तत्र भवतां तेजसा हतः ।

रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥ २४ ॥

भवतां तेजसा अव्यग्रा प्रतिष्ठिता प्रीतिः वनाय निर्गतस्य मे पुनश्ागत्यानुभवयोग्यतया परिरक्षिता । भवतां तेजसा धर्मश् नियतः । सत्यं नियतं ॥ २२-२४ ॥

 

भवन्तश् समानीता भरतेन महात्मना ।

श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥ २५ ॥

उद्युक्तानां सर्वेषां पार्थिवानां महात्मनाम् ।

कालो व्यतीतः सुमहान्गमनं रोयाम्यतः ॥ २६ ॥

प्रत्यूुस्तं राजानो हर्षेण महता वृताः ।

दिष्ट्या त्वं विजयी राम स्वराज्येऽपि प्रतिष्ठितः ॥ २७ ॥

भवन्तश् समानीताः संमिलिताः ।। २५-२७ ॥

 

दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।

एष नः परमः काम एषा नः प्रीतिरुत्तमा ।। २८ ।।

यत्वां विजयिनं राम पश्यामो हतशात्रवम् ।

एतत्त्वय्युपपन्नं यदस्मांस्त्वं प्रशंससे ॥ २९ ॥

प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ।

आपृ्छामो गमिष्यामो हृदिस्यो नः सदा भवान् ॥ ३० ॥

वर्तामहे महाबाहो प्रीत्याऽत्र महता वृत्ताः ।

भवे ते महाराज प्रीतिरस्मासु नित्यदा ॥ ३१ ॥

हतशात्रवं हतशत्रुं ।। २८-३१ ।।

 

बाढमित्येव राजानो हर्षेण परमन्विताः ।
ुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ ३२ ॥

[ दिष्ट्या ते कमलवरेक्षणं सुनासं ताम्रोष्ठं सुखमतिशोभि शुक्लदन्तम् ।

पश्यामो विजयमहाहवेषु नित्यं भ्राजन्तं निशि शरदीव पूर्णन्द्रम् ।। ३३ ।।

पूजिताश् त्वया राम मानिताश् विशेषतः ।

गमिष्यामो महाराज स्वं स्वं देशं रघूत्तम ॥ ३४ ॥]

पूजिताश्ैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ॥ ३५ ॥

बाढमित्येवेति ।। रामेणोक्ता इति शेषः । गमिष्याम इत्यूुरिति पूर्वेणान्वयः ॥ ३२-३५ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥

इति श्रीगोविन्दराजविरिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टत्रिंशः सर्गः ॥ ३८ ॥

Languages

Related Parts

error: Content is protected !!