श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तमः सर्गः
श्रीनारायणेन बहुराक्षससेनासंहरणपूर्वकं मालिवधः ॥ १ ॥
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। १ ॥
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः ।
वृतोञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः ॥ २ ॥
श्याम: सन्नवदातः शुभ्र: श्यामावदात: निर्मल इत्यर्थ: । अञ्जनगिरीवेति विभक्तिलोपश्छान्दसः ॥ २ ॥
शलभा इव केदारं मशका इव पर्वतम् ।
यथाऽमृतघटं दंशा मकरा इव चार्णवम् ॥ ३ ॥
अनृतघटं मधुघटं । दंशाः वनमक्षिकाः ॥ ३ ॥
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।
हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ ४ ॥
स्यन्दनैः स्यन्दनगता गजैश्च गंजपृष्ठगाः ।
अश्वारोहास्तथाऽश्वैश्च पादाताश्चाम्बरे स्थिताः ॥ ५ ॥
वज्राः वज्रधारा इव स्थिताः अनिलमनोजवाश्च । विपर्यये संहारकाले । हरिं लोका: प्रजा इव ।। ४-५ ।।
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः ।
निरुच्छ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥ ६ ।।
निशाचरैस्ताड्यमाने मीनैरिव महोदधिः ।
शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्योसृजच्छरान् ॥ ७ ॥
हरिं निरुच्छ्वासं चक्रुः उच्छ्वासा नवसरवन्तं कृतवन्तः ॥ ६-७ ॥
शरैः पूर्णायतोत्सृष्टैर्वर्ज्रवक्त्रैर्मनोजवैः ।
चिच्छेद विष्णुर्निशितैः शतशोथ सहस्रशः ॥ ८ ॥
विद्राव्य शरवर्षेण वर्षं वायुरिवोत्थितम् ।
पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥ ९ ॥
पूर्णायततया उत्सृष्टैः वज्रवक्त्रैः वज्रमिवाकुण्ठं वक्रं येषां तैः ॥ ८-९ ॥
सोम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।
ररास भीमनिर्ह्रादस्त्रैलोक्यं व्यथयन्निव ॥ १० ॥
शङ्खराजरवः सोथ त्रासयामास राक्षसान् ।
मृगराज इवारण्ये समदानिव कुञ्जरान् ॥ ११ ॥
अम्बुजः शङ्खः । सर्वप्राणेन सर्वबलेन । ध्मातः आध्मानितः ॥ १०-११ ॥
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।
स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ॥ १२ ॥
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।
विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥ १३ ॥
भिद्यमानाः शरैः संख्ये नारायणकरच्युतैः ॥
निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥ १४ ॥
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै ।
असृक् क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। १५ ।।
शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा ।
राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥ १६ ॥
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च ।
रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ॥ १७ ॥
सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।
पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ॥ १८ ॥
कुञ्जराभवन्नित्यार्षः संधिः । भवन्निति वा च्छेदः । शङ्करावितेन शङ्खध्वनिना । स्वार्थे णिः ।। १२-१८ ।।
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः ।
निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ॥ १९ ॥
शार्ङ्गविनिर्मुक्ता इत्येतद्विवृणोति – निर्धावन्तीति ॥ १९ ॥
शरभेण यथा सिंहा: सिंहेन द्विरदा यथा ।
द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥ २० ॥
द्वीपिनः क्षुद्रव्याघ्राः ॥ २० ॥
द्वीपिनेव यथा श्वान: शुना मार्जारका यथा ।
मार्जारेण यथा सर्पा: सर्पेण च यथाऽऽखवः ॥ २१ ॥
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना ।
द्रवन्ति द्राविताश्चान्ये शायिताश्च महीतले ॥ २२ ॥
आखवो मूषिका: ।। २१-२२ ।।
राक्षसानां सहस्राणि निहत्य मधुसूदनः ।
वारिजं पूरयामास तोयदं सुरराडिव ॥ २३ ॥
सुरराडिवेति इन्द्रस्य मेघनियन्तृत्वात्तथोक्तं ॥ २३ ॥
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ।
ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ २४ ॥
प्रभग्ने राक्षसबले नारायणशराहते ।
सुमाली शरवर्षेण निववार रणे हरिम् ॥ २५ ॥
स तु तं छादयामास नीहार इव भास्करम् ।
राक्षसाः सत्त्वसंपन्नाः पुनर्धैर्य समादधुः ॥ २६ ॥
अथ सोभ्यपतद्रोषाद्राक्षसो चलदर्पितः ।
महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ॥ २७ ॥
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ।
ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥ २८ ॥
राक्षसं रक्षःसंबन्धि ॥ २४-२८ ॥
सुमार्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।
चिच्छेद येन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥ २९ ॥
यन्तुः सारथेः । भ्रान्ताः नष्टसारथिकत्वादनवस्थितगतिका इत्यर्थः ॥ २९ ॥
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।
इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ॥ ३० ॥
ततो विष्णुं महाबाहुं प्रापतन्तं रणाजिरे ।
हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ।
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः ॥ ३१ ॥
मालेर्धनुश्च्युता बाणा: कार्तस्वरविभूषिताः ।
विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ ३२ ॥
अर्द्यमानः शरैः सोथ मालिमुक्तैः सहस्रशः ।
चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥ ३३ ॥
इन्द्रियार्थैरश्वैः धृतिहीनो नरः यथा तथा सुमाली बभ्रामेत्यर्थः ॥ ३०-३३ ॥
अथ मौर्वीस्वनं श्रुत्वा भगवान्भूतभावनः ।
मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ॥ ३४ ॥
मौर्वीस्वनं श्रुत्वेत्यनेन मालिशरस्याच्छिन्नगतिर्गम्यते ॥ ३४ ॥
ते मालिदेहमासाद्य वज्रवविद्युत्प्रभाः शराः ।
पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ॥ ३५ ॥
नागाः सर्पाः । सुधारसं अमृतं गरुडानीतं ॥ ३५ ॥
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः ।
मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ।। ३६ ॥
विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः ।
आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ३७ ॥
मालिमौलिं मालिमुकुटं ॥ ३६-३७ ॥
गदया गरुडेशानमीशानमिव चान्तकः ।
ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाऽचलम् ॥ ३८ ॥
गदयाऽभिहतस्तेन मालिना गरुडो भृशम् ।
रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥ ३९ ॥
पराङ्मुखे कृते देवे मालिना गरुडेन वै ।
उदतिष्ठन्महाञ्छन्दो रक्षसामभिनर्दताम् ॥ ४० ॥
गरुडा: पक्षिणः तदीशानं वैनतेयं ।। ३८-४० ।।
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ।
तिर्यगास्थाय संक्रुद्धः पक्षीशे भगवान्हरिः ॥ ४१ ॥
पराङ्मुखोप्युत्ससर्ज मालेश्चक्रं जिघांसया ॥ ४२ ॥
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।
कालचक्रनिभं चक्रं माले: शीर्षमपातयत् ॥ ४३ ॥
तच्छिरो राक्षसेन्द्रस्य चक्रकृत्तं विभीषणम् ।
पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥ ४४ ॥
हरिहयानुजः इन्द्रानुजः ॥ ४१-४४ ॥
ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः ।
सिंहनादरवोन्मुक्तः साधु देवेति वादिभिः ॥ ४५ ॥
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि ।
सबलौ शोकसंतप्तौ लङ्कामेव प्रधावितौ ॥ ४६ ॥
गरुडस्तु समाश्वस्त: सन्निवृत्य यथा पुरा ।
राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥ ४७ ॥
चक्रकृत्तास्यकमला गदासंचूर्णितोरसः ।
लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥ ४८ ॥
केचिच्चैवासिना च्छिन्नास्तथाऽन्ये शरपीडिताः ।
निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ ४९ ॥
सर्वप्राणसमीरितः सर्वबलेन प्रवर्तितः ॥ ४५-४९ ॥
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः ॥
नक्तंचरान्मुक्तविधूतकेशान्यथाऽशनीभिः सतडिन्महाभ्राः ॥ ५० ॥
अशनीभिरित्यार्षो दीर्घः ॥ ५० ॥
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।
विनिस्रुतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥ ५१ ॥
उन्मत्ततरं अतिशयेन विस्मृतस्वपरविवेकं ॥ ५१ ॥
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सहकुञ्जराणाम् ।
रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ ५२ ॥
पुराणासिंहेन नरसिंहेन ॥ ५२ ॥
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः ।
धावन्ति नक्तंचरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥ ५३ ॥
समुत्सृजन्तः व्यक्तवन्तः ॥ ५३ ॥
चक्रप्रहारैर्विनिकृत्तशीर्षा: संचूर्णिताङ्गाश्च गदाप्रहारैः ।
असिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ॥ ५४ ॥
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।
निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नील पर्वतैः ॥ ५५ ॥
द्विविधया द्विप्रकारेण विभिन्नाः । खण्डिता इत्यर्थः ॥ ५४-५५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तमः सर्गः ॥ ७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥