श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरशीतितमः सर्गः
लक्ष्मणेन रामंप्रत्यश्वमेधस्यसर्वार्थसाधकत्वोक्त्त्या तन्त्ररुच्युत्पादनाय वृत्रवधाख्यान -प्रस्तावः ॥ १ ॥ चिरंधर्मेणराज्यंकृतव तावृत्रेण राज्येपुत्राभिषेचनपूर्वकंवनेतपश्चरणम् ॥ २ ॥ तत्तपश्चरणसंत्रस्तेनेन्द्रेण श्रीविष्णुमेय वृत्रवधप्रार्थना ॥ ३ ॥
तथोक्तवति रामे तु भरते च महात्मनि ।
लक्ष्मणोथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ १ ॥
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।
पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ २ ॥
रोचतामित्यादि । अनुष्ठातुमिति शेषः । सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योश्वमेधेन यजते इति श्रुतेः ॥ २ ॥
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ३ ॥
पुरा किल महाबाहो देवासुरसमागमे ।
वृत्रो नाम महानासीद्दैतेयो लोकसंमतः ॥ ४ ॥
एवमश्वमेधस्य ब्रह्महत्यान्तसर्वपापशोधकत्वे पुरावृत्तकथनं – श्रूयते हीत्यादि ॥ ३-४ ॥
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।
अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥ ५ ॥
धर्मज्ञश्च कृतज्ञव बुद्ध्या च परिनिष्ठितः ।
शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ६ ॥
तस्मिन्प्रशासति तदा सर्वकामदुधा मही ।
रसवन्ति प्रसूनानि मूलानि च फलानि च ॥ ७ ॥
अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः ।
स राज्यं तादृशं भुङ्ते स्फीतमद्भुतदर्शनम् ॥ ८ ॥
ततस्त्रिगुणमिति । योजनशतत्रयमित्यर्थः । अनुरागेण स्वीयत्वाभिमानेन हेतुना, स्नेहात् ॥ ५-८ ।।
तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ।
तपो हि परमं श्रेयः संमोहमितरत्सुखम् ॥ ९ ॥
इतरत्सुखमिति । वैषयिकसुखमित्यर्थः ॥ ९ ॥
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।
तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥ १० ॥
मधुरः सौम्यश्वासावीश्वरश्च मधुरेश्वरः तं । मधुराया नगर्या ईश्वरं वा ॥ १० ॥
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।
विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह ॥ ११ ॥
तपस्यता महाबाहो लोका वृत्रेण निर्जिताः ।
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। १२ ।।
परमार्तवत् परमार्तः सन् ।। ११-१२ ।।
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वरः ।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ १३ ॥
भूय एव अतः परमपीत्यर्थः । भूतजातमपीति शेषः ॥ १३ ॥
तं चैनं परमोदारमुपेक्षसि महाबलम् ।
क्षणं हि नभवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ १४ ॥
क्षणमपि न भवेत् न जीवेदित्यर्थः ॥ १४ ॥
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।
तदांप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ १५ ॥
उपलब्धवान् वृत्र इति शेषः॥ १५ ॥
स त्वं प्रसादं देवानां कुरुष्व सुसमाहितः ।
त्वत्कृतेन हि सर्वं स्यात्मशान्तमरुजं जगत् ॥ १६ ॥
स त्वमिति । रक्षणेनेति शेषः ॥ १६ ॥
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।
वृत्रघातेन महता त्वेषां साह्यं कुरुष्व ह ॥ १७ ॥
वृत्रघातेन हेतुना साह्यं उपकारं कुरु । हशब्दः पादपूरकः ॥ १७ ॥
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।
असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ १८ ॥
अन्येषामिदमसह्यं । अन्येषामसुराणां यद्यपि त्वत्साह्यमसह्यमथापि तत्कुरु । हि यस्माद्भवानेवागतीनां गतिः तस्मात् ॥ १८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुरशीतितमः सर्गः ॥ ८४ ॥