श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तोत्तरशततमः सर्गः
परिषदोमध्येऽद्यभरतं राज्येभिषिच्याहंवनंगच्छामीतिश्रीरामवचनम् ॥ १ ॥ तच्छ्रवणेन भरतेन राज्यगर्हणपूर्वकं कोशलेषुकुशं उत्तरकोसलेषुलवमभिषिच्यतामितिकथनम् ॥ २ ॥ ततोवसिष्ठवचनात्तथाकुशलवयोरभिषेकः ॥ ३ ॥ ततः शत्रुघ्नंप्रति श्रीरामेणदूतप्रेषणम् ॥ ४ ॥
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ।
पुरोधसं मन्त्रिणश्च नैगमांवेदमब्रवीत् ॥ १ ॥
अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ।
अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥ २ ॥
भरतमयोध्याधिपतिमभिषेक्ष्यामीति मनोरथं करोमि । ततो वनं यास्यामि । महाप्रस्थानविधिनेति शेषः ॥ २ ॥
प्रवेशयत संभारान्मा भूत्कालस्य पर्ययः ।
अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ॥ ३ ॥
संभारानिति । भरताभिषेकार्थानित्यर्थः ॥ ३ ॥
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ।
मूर्धभिः प्रणता भूमौ गतसत्वा इवाभवन् ॥ ४ ॥
भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम् ।
राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥ ५ ॥
सर्वाः प्रकृतयः सुमन्त्रादयः ॥ ४-५ ॥
सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि ।
न कामये यथा राज्यं त्वां विना रघुनन्दन ॥ ६ ॥
स्वर्गलोके न चेत्यादि । हे रघुनन्दन त्वां विना प्राप्ये स्वर्गलोके न च कामये । सुखभोगमिति शेषः । तथा त्वां विना यथा राज्यं त्वदाज्ञया यथानुक्रमप्राप्तमयोध्याराज्यं न च कामये । हे राजन् इममर्थं सत्येन शपे ।। ६ ।।
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप ।
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ॥ ७ ॥
एवं भरत उक्त्वाऽनन्तरं कुशलवावभिषिञ्चेत्याह- इमौ कुशलवावित्यादि । उत्तरेष्विति । उत्तरकोसलेष्वित्यर्थः ॥ ७ ॥
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः ।
इदं गमनमस्माकं स्वर्गायाख्यान्तु मा चिरम् ॥ ८ ॥
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् ।
पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत् ॥ ९ ॥
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ।
ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ॥ १० ॥
इदं अस्माकं प्रवर्तमानं स्वर्गाय गमनवृत्तान्तं शत्रुघ्नस्याख्यातुं दूता गच्छन्तु गत्वा चाख्यान्तु । मा चिरं विलम्बो मा भूत् । इदं गमनमस्माकं शीघ्रमाख्यान्तु मा चिरमिति च पाठः ॥ ८-१० ॥
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् ।
किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ॥ ११ ॥
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् ।
गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥ १२ ॥
प्रकृतीजनं । छान्दसो दीर्घः ॥ ११-१२ ॥
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः ।
सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ॥ १३ ॥
सत्पथं ब्रह्मलोकमार्गं । त्वया गम्यमानमिति शेषः ॥ १३ ॥
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा ।
वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ॥ १४ ॥
एषा नः परमा प्रीतिरेष नः परमो वरः ।
हृद्गता नः सदा ग्रीतिस्तवानुगमने नृप ॥ १५ ॥
वयं चेति । न त्याज्या अतः सर्वान्नय । तत्र हेतुः-ईश्वरेति ।। १४-१५ ॥
पौराणां दृढभक्तिं च बाढमित्येव सोब्रवीत ।
स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ।
[ सुतौ प्रस्थापयामास धर्मिष्ठौ धर्मवत्सलौ ] ॥ १६ ॥
कृतान्तं च कर्तव्यतासिद्धान्तं च ॥ १६ ॥
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।
अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ॥ १७ ॥
सुतावभिषिच्य प्रस्थापयामास ॥ १७ ॥
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः ।
[ पुन: समीक्ष्य सीताया राघवः स्मरणं गतः ] ।
परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ॥ १८ ॥
रथानां तु सहस्राणि नागानामयुतानि च ।
दशायुतानि चाश्वानामेकैकस्य धनं ददौ ॥ १९ ॥
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ।
स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ॥ २० ॥
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा ।
दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने ॥ २१ ॥
पुरे अयोध्यायां स्वसमीपे कोसलद्वयराज्यार्थमभिषिक्तौ अङ्के प्रतिष्ठाप्य मूर्ध्न्यपाघ्राय परिष्वज्य स्थादिकं ददौ । रथानां त्वित्यादि । पुनर्दीयमानं राजौपवाह्यदिव्यरथादिविषयं अभिषिच्येत्युक्तार्थं ।। १८-२१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तोत्तरशततमः सर्गः ॥ १०७ ।।