श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तचत्वारिंशः सर्गः
लक्ष्मणेन सीतायानौकारोपणेन गङ्गोत्तरतीरस्थवाल्मीक्याश्रमसमीपप्रापणेन तस्यांसशोकंरामनियोगनिवेदनम् ॥ १ ॥
अथ नावं सुविस्तीर्णां नैपादीं राघवानुजः ।
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ १ ॥
निषादस्य गुहस्येयं नैषादी तां । समायुक्तां सज्जीकृतां ॥ १ ॥
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।
उवाच शोकसंतप्तः प्रयाहीति च नाविकम् ॥ २ ॥
स्थीयतामिति । गङ्गातीर एवेति शेषः ॥ २ ॥
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।
उवाच मैथिलीं वाक्यं प्राञ्जलिर्वाष्पसंप्लुतः ॥ ३ ॥
तीरं दक्षिणतीरमित्यर्थः ॥ ३ ॥
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता ।
अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ४ ॥
हे वैदेहि यस्मिन्निमित्ते यत्कृत्यानुष्ठानतः अहं लोकस्य वचनीकृतः वचनीयः कृतः । यलोप आर्षः । निन्द्यः संपादितो भवेयं । अस्मिन्निमित्ते धीमता सर्वज्ञेन आर्येण यद्यस्मादहं नियुक्तः तेन हेतुना मे महच्छल्यं हृद्गतं ॥ ४ ॥
श्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत् ।
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ ५ ॥
प्रसीद च न मे पापं कर्तुमर्हसि शोभने ।
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ ६ ॥
एवं हृच्छल्यं प्राप्तवतो मे मृत्युः मरणं हि वा यत् यदि स्यात् । अद्य तदेव मे परं श्रेयो भवेत् । न चेत्यादि । ईदृशे लक्ष्मणो निर्घृण इति लोकनिन्द्ये अस्मिन् वक्ष्यमाणरूपे कार्ये न चाहं नियोज्योस्मि नियोक्तुमर्होस्मि । तथा विनियुक्तस्य कार्यस्य सर्वथैव कर्तव्यत्वादिति शेषः । अतः प्रसीदेत्यादि योज्यं ॥ ५-६ ॥
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥ ७ ॥
मृत्युं काङ्क्षन्तं । परमहृच्छल्यवशादिति शेषः ॥ ७ ॥
किमिदं नावगच्छामि ब्रूहि तत्वेन लक्ष्मण ।
पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ ८ ॥
नावगच्छामि एवं रोदनादेर्हेतुमिति शेषः । महीपतेः रामस्य । क्षेममपि सुखमपि । न पश्यामि ॥ ८ ॥
शापितोसि नरेन्द्रेण यत्त्वं संतापमागतः ।
तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ॥ ९ ॥
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतन: ।
अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ १० ॥
यस्मात्त्वमेवं संतापमागतः तस्मात्त्वं नरेन्द्रेणैव शापितोसि । मह्यं मम । आज्ञापयामि । त इति । त्वामित्यर्थः ॥ ९-१० ॥
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् ।
पुरे जनपदे चैव स्वत्कृते जनकात्मजे ।
रामः संतप्तहृदयो मां निवेद्य गृहं गतः ॥ ११ ॥
श्रुत्वेत्यादिलोकद्वयमेकान्वयं ॥ त्वत्कृते अपवादं श्रुत्वासा त्वं त्यक्तेत्यन्वयः ॥ ११ ॥
न तानि वचनीयानि मया देवि तवाग्रतः ।
यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ॥ १२ ॥
कोयमपवाद इत्यत्राह-न तानीति । यानि वचनानि राज्ञा अमर्षात् हृदि न्यस्तानि तानि तवाग्रतो मया न वचनीयानि वक्तुमशक्यानि । अतएवामर्षः मया पृष्ठतः कृतः । नोपन्यस्त इत्यर्थः ॥ १२ ॥
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ।
पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ।। १३ ।।
तथापि ते तव विषये । पौरापवादभीतेन राज्ञा यदादिष्टं तन्मया च ग्राह्यं । नान्यथा नतु त्वयि दोषबुद्ध्येत्यर्थः ॥ १३ ॥
आश्रमान्तेषु च मया व्यक्तव्या त्वं भविष्यसि ।
राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ॥ १४ ॥
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ १५ ॥
ततः किमित्यत्राह-आश्रमान्तेष्विति ॥ तदेवं किल दौर्हृदं गर्भ: । गर्भिण्या अभिलषितमवश्यं कार्यं । तस्मादप्याश्रमान्तेषु त्यक्तव्येत्यर्थः ॥ १४-१५ ॥
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ।
सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ १६ ॥
पादच्छायामुपागम्य सुखमस्य महात्मनः ।
उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ १७ ॥
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ १८ ॥
परमकः परमानुकम्पावान् ॥ १६-१८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥