श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः
प्रभातेश्रीरामेण वसिष्ठेनमाहाप्रास्थानिकविधिविधापनपूर्वकं विमलसूक्ष्माम्बरधारिणा कुशपाणिना श्रीभूदेवीविभूषितपार्श्वयुगेन पुरुषवेषधारिभिर्वेदायुधाद्यभिमानिदेवैः ऋष्यादिभिश्चानुगम्यमानेन च सता नियमात्पादचारेण निजपरमपदजिगमिषयानिजगृहान्नि -र्गमनम् ॥ १ ॥ रामस्यमहाप्रस्थानसमयेसस्त्रीबालवृद्धैः सकलजनैः खगमृगनगतृणादिप्राणिगणै -रपि परमपदजिगमिषयाहर्षात्तदनुसरणम् ॥ २ ॥
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १ ॥
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।
वाजपेयातपत्रं च शोभमानं महापथे ॥ २ ॥
वाजपेयातपत्रं चेति । तस्य धर्मानुष्ठानबलप्राप्तत्वाद्राजचिह्नस्य संन्यस्तत्वाच्च सीतायाः पत्न्याः स्थितत्वादग्नेरपि स्थितिरिति पूर्वमेवोक्तं ॥ २ ॥
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।
चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥ ३ ॥
महाप्रस्थानमर्हतीति महाप्रास्थानिकं ॥ ३ ॥
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ ४ ॥
परं ब्रह्ममावर्तयन्निति । अकारान्तत्वमार्षं । देवमन्त्रमित्यर्थः । प्रसज्य गृहीत्वेति । अङ्गुलीविवरप्रसक्तं कृत्वेत्यर्थः ॥ ४ ॥
अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निस्सुखः पथि ।
निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥ ५ ॥
निश्चेष्टः किंचित्पदार्थदर्शन श्रवणस्पर्शनादिविषयकेन्द्रियचेष्टारहित इत्यर्थः । निःसुखः पथि पादुकादिसुखमुपेक्ष्य शर्कराकण्टकबाधां सोढुमुद्युक्तः । निर्जगामेत्यर्थः ॥ ५ ॥
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरूपाश्रिता ।
सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाऽग्रतः ॥ ६ ॥
शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।
तथाऽऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥ ७ ॥
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।
ओङ्कारोथ वषट्कारः सर्वे राममनुव्रताः ॥ ८ ॥
ऋषयश्च महात्मानः सर्व एव महीसुराः ।
अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥ ९ ॥
सपद्मा पद्महस्ता ॥ ६-९ ॥
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।
सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ॥ १० ॥
सान्तः पुरश्च भरतः शत्रुघ्नसहितो ययौ ।
रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥ ११ ॥
ते च सर्वे महात्मानः साग्निहोत्रा: समागताः ।
सपुत्रदारा: काकुत्स्थमनुजग्मुर्महामतिम् ॥ १२ ॥
नपुंसका वर्षवराः ॥ १०-१२ ।।
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।
सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ॥ १३ ॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।
गच्छन्तमन्वगच्छंस्तं राघवं गुणरञ्जिताः ॥ १४ ॥
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।
राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ॥ १५ ॥
प्रहृष्टवत् देहविसर्जनसमये समीपावस्थानजःप्रहर्षः ॥ १३-१५ ॥
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।
दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥ १६ ॥
किलकिलाशब्दैरिति । उपलक्षितमिति शेषः । सर्व मिति । वानरबलमिति शेषः ॥ १६ ॥
न तत्र कश्चिद्दीनो वा व्रीडितो वाऽपि दुःखितः ।
हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् ॥ १७ ॥
द्रष्टुकामोथ निर्यान्तं रामं जानपदो जनः ।
यः प्राप्तः सोपि दृष्ट्वैव स्वर्गायानुगतो मुदा ॥ १८ ॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।
आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥ १९ ॥
ब्रीडित इति । भगवदपराधादिना । पूर्वकृतेनेतिशेषः ॥ १७-१९ ।।
यानि भूतानि नगरेप्यन्तर्धानगतानि च ।
राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥ २० ॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।
सर्वाणि रामगमने ह्यनुजम्मुर्हितान्यपि ॥ २१ ॥
स्वर्गाय ब्रह्मलोकगमनाय ।। २०-२१ ।।
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।
तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥ २२ ॥
उच्छ्वसत् सप्राणमित्यर्थः । सुसूक्ष्ममपि न दृश्यते । अननुयातमितिशेषः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने नवोत्तरशततमः सर्गः ।। १०९ ।।