श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तविंशः सर्गः
रावणेन कैलासात्सुमालिप्रभृतिभिः सह स्वर्गलोकमेत्येन्द्रादिभिः सहमहासमरप्रवर्तनम् ॥ १ ॥ सुमालिनासुरसेनावमर्दने सावित्रनाम्नावसुना तेनसहयुद्ध्वा गदयातस्यहननम् ॥ २ ॥
कैलासं लङ्घयित्वाऽथ दशग्रीवः स रावणः ।
आससाद महातेजा इन्द्रलोकं निशाचरः ॥ १ ॥
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।
देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ॥ २ ॥
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् ।
अब्रवीत्तत्र तान्देवान्त्सर्वानेव समागतान् ॥ ३ ॥
आदित्यान्सवसून्रूद्रान्विश्वान्साध्यान्मरुद्गणान् ।
सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ॥ ४ ॥
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।
सन्नह्य सुमहासत्वा युद्धश्रद्धासमन्विताः ॥ ५ ॥
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।
विष्णोः समीपमागम्य वाक्यमेतदुवाच ह ॥ ६ ॥
विष्णो कथं करिष्यामि महावीर्यपराक्रमः ।
असौ हि बलवान्रक्षो युद्धार्थमभिवर्तते ॥ ७ ॥
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।
तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ॥ ८ ॥
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।
त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ॥ ९ ॥
तद्यथेति । त्वद्बलमाहृत्य यथा नमुच्यादयो हतास्तथा अस्यापि हननोपायं कुर्वित्यर्थः ॥ ९ ॥
न ह्यन्यो देव देवेश त्वामृते मधुसूदन ।
गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ॥ १० ॥
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।
त्वेयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥ ११ ॥
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।
त्वामेव भगवन्त्सर्वे प्रविशन्ति युगक्षये ॥ १२ ॥
देवेति संबुद्धिः ॥ १०-१२ ॥
तदाचक्ष्व यथा तत्वं देवदेव मम स्वयम् ।
अपि चक्रसहायस्त्वं योत्स्यसे रावण प्रभो ॥ १३ ॥
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।
अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे ॥ १४ ॥
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः ।
हन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥ १५ ॥
तत्तस्मात्कारणात् । यथा मे जयः स्यात् तथा तत्त्वं उपायतत्त्वं आचक्ष्व स्वयमेव युद्ध्यस्वेति वा । ब्रूहीति शेषः ॥ १३-१५ ॥
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।
राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥ १६ ॥
मे महत्कर्म युद्धकर्म करिष्यन्तीत्येतत्सहजज्ञानशक्त्या दृष्टमवगतं ॥ १६ ॥
यत्तु मां त्वमभाषिष्ठा युध्यस्वेति सुरेश्वर ।
नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥ १७ ॥
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते ।
दुर्लभश्चैव कामोऽद्य वरगुप्ताद्धि रावणात् ॥ १८ ॥
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो ।
भवितास्मि यथाऽस्याहं रक्षसो मृत्युकारणम् ॥ १९ ॥
अहमेव निहन्तास्मि रावणं सपुरस्सरम् ।
देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ॥ २० ॥
एतत्ते कथितं तत्वं देवराज शचीपते ।
युध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ॥ २१ ॥
ततो रुद्रा: सहादित्या वसवो मरुतोऽश्विनौ ।
सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ॥ २२ ॥
नाहं प्रतियोत्स्यामि इदानीमिति शेषः ॥ १७-२२ ॥
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।
तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥ २३ ॥
प्रकृष्टं युद्धं यस्य तत्प्रयुद्धं ॥ २३ ॥
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ।
संग्राममेवाभिमुखा ह्यभ्यवर्तन्त हृष्टवत् ॥ २४ ॥
ततो दैवतसैन्यानां संक्षोभः समजायत ।
तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ॥ २५ ॥
ततो युद्धं समभवद्देवदानवरक्षसाम् ।
घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ॥ २६ ॥
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।
युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ॥ २७ ॥
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।
अकम्पनो निकुम्भश्च शुकः सारण एव च ॥ २८ ॥
संह्रादो धूमकेतुश्च महादंष्ट्रो घटोदरः ।
जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ॥ २९ ॥
हृष्टवत् हृष्टाः सन्तः ॥ २४-२९ ॥
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः ।
त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥ ३० ॥
महाकायोतिकायश्च देवान्तकनरान्तकौ ।
एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥ ३१ ॥
रावणस्यार्यक: सैन्यं सुमाली प्रविवेश ह ।
सदैवतगणान्त्सर्वान्नानामहरणैः शितैः ।
व्यध्वंसयत्सुसंक्रुद्धो वायुर्जलचरानिव ॥ ३२ ॥
[ सुमालिभयसंत्रस्ताः सुरास्ते सर्वतो दिशि ।
प्रदुद्रुवुर्वध्यमानाः सिंहत्रस्ता मृगा इव ॥ ३३ ॥]
तद्दैवतबलं राम हन्यमानं निशाचरैः ।
प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ॥ ३४ ॥
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।
सावित्र इति विख्यातः प्रविवेश रणाजिरम् ॥ ३५ ॥
सैन्यैः परिवृतो हृष्टो नानाप्रहरणोद्यतैः ।
त्रासयन्शत्रुसैन्यानि सिंह: क्षुद्रमृगानिव ॥ ३६ ॥
तथाऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ।
निर्भयौ सह सैन्येन तदा प्राविशतां रणे ॥ ३७ ॥
करवीरपुष्पवत् अक्षिणी यस्य सः करवीराक्षः ॥ ३०-३७ ।।
ततो युद्धं समभवत्सुराणां सह राक्षसैः ।
क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ॥ ३८ ॥
ततस्ते राक्षसाः सर्वे विबुधान्त्समरे स्थितान् ।
नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥ ३९ ॥
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् ।
समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ॥ ४० ॥
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ।
नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोभ्यवर्तत ॥ ४१ ॥
स दैवतबलं सर्वं नानाप्रहरणैः शितैः ।
व्यध्वंसयत संक्रुद्धो वायुर्जलधरं यथा ॥ ४२ ॥
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ।
हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ ४३ ॥
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ।
वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ॥ ४४ ॥
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ।
विक्रमेण महातेजा वारयामास संयुगे ॥ ४५ ॥
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ॥ ४६ ॥
समरेष्वनिवर्तिनां रक्षसां कीर्तिं क्रुद्धानां सुराणां राक्षसैःसह युद्धमभवदिति योजना ॥ ३८-४६ ॥
ततस्तस्य महाबाणैर्वसुना सुमाहात्मना ।
निहतः पन्नगरथः क्षणेन विनिपातितः ॥ ४७ ॥
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् ।
गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ४८ ॥
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ।
तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ॥ ४९ ॥
सा तस्योपरि चोलकाभा पतन्तीव बभौ गदा ।
इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ॥ ५० ॥
तस्य नैवास्थि न शिरो न मांसं ददृशे तदा ।
गदया भस्मतां नीतं निहतस्य रणाजिरे ॥ ५१ ॥
तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ।
व्यद्रवन्त्सहिताः सर्वे क्रोशमानाः परस्परम् ।
विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥ ५२ ॥
तस्य सुमालिनः ॥ ४७-५२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तविंशः सर्गः ॥ २७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तविंशः सर्गः ।। २७ ।।