श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोदशः सर्गः
ब्रह्मोत्सृष्टनिद्वानिपीडितेनकुंभकर्णेन स्ववचनाद्रावणनिर्मापितगृहवरे चिरस्वापारंभः ।। १ ।। रावणेन देवर्ष्यादिविहिंसने तदसहमानेनकुबेरेण तन्निवर्तनायरावणंप्रति दूतप्रेषणम् ॥ २ ॥ कुबेरनिदेशश्रवणरुष्टेनरावणेन दूतशिरश्छेदनम् ॥ ३ ॥
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।
निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ १ ॥
ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः ।
निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ २ ॥
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।
[ अकुर्वन्कुम्भकर्णस्य कैलाससममालयम् ] ॥ ३ ॥
लोकेश्वरेण ब्रह्मणोत्सृष्टा प्रेषिता । रूपिणी मूर्ता ।। १-३ ॥
विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ॥ ४ ॥
विस्तीर्णं योजनमिति । तिर्यङ्भानेनेति शेषः । ततो द्विगुणमायतं । युद्धकाण्डे योजनायतमित्युक्तं द्विगुणयोजनायतपरं ॥ ४ ॥
स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ॥ ५ ॥
किङ्किणीजालकं प्रान्तेषु किङ्किणीजालयुक्तं ॥ ५ ॥
दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥
मनोहरं सर्वसुखं कारयामास राक्षसः ।
सर्वत्र सुखदं नित्यं मेरो: पुण्यां गुहामिव ॥ ६ ॥
तत्र निद्रासमाविष्टः कुम्भकर्णो महाबलः ।
बहून्यब्दसहस्राणि शयानो न प्रयुध्यते ॥ ७ ॥
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।
देवर्षियक्षगन्धर्वान्संजघ्ने हि निरङ्कुशः ॥ ८ ॥
उद्यानानि च चित्राणि नन्दनादीनि यानि च ।
तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः ॥ ९ ॥
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।
नगान्वज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ १० ॥
दान्तो दन्तविकारः ।। ६-१० ॥
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।
कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ॥ ११ ॥
कुलानुरूपं वृत्तमिति । असक्तमिति शेषः ॥ ११ ॥
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा ।
लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् ॥ १२ ॥
हितं हितपरं ॥ १२ ॥
स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।
मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ १३ ॥
आगमनंप्रतीति कार्यमिति शेषः ॥ १३ ॥
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च विभीषणः ।
सभायां दर्शयामास तमासीनं दशाननम् ॥ १४ ।।
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।
जयेति वाचा संपूज्य तूष्णीं समभिवर्तत ॥ १५ ॥
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते ।
उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ १६ ॥
राज्ञः कुबेरस्य । तं दूतं ॥ १४-१६ ॥
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।
उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ १७ ॥
उभयोरिति । उभयोर्मातापित्रोः । कुलस्याभिजनस्य तयोर्वृत्तस्य च सदृशं यथा तथा ॥ १७ ॥
साधु पर्याप्ततावत्कृतश्चारित्रसंग्रहः ।
साधुधर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ १८ ॥
साधु सम्यक् । चारित्रसंग्रहः कृतश्चेदेतावदेव पर्याप्तं । उक्तमर्थं विवृणोति-साध्वित्यादि । व्यवस्थानं व्यवस्थितिः । यदि शक्यत इत्युक्त्या ज्येष्ठतया नियोगबुद्धिर्व्यावर्तते ॥ १८ ॥
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।
देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ १९ ॥
तस्य क्रूरत्वान्मायाचारित्रव्यवस्थानेन विना किं कृतमित्यत्राह — दृष्टमित्यादिना ॥ त्वत्तः त्वया । मम मया । समुद्योग इति । प्रतिक्रियाकरणायेतिशेष: ॥ १९ ॥
निराकृतश्च बहुशस्त्वयाऽहं राक्षसाधिप ।
अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ।। २० ।।
रमणीयाः तोषणीयाः । स्वबान्धवाः बाल्यादज्ञानापराद्धाः त्वया कृतापराधा आसन्नित्यर्थः ॥ २० ॥
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।
रौद्रं वृत्तं समास्थाय नियतो नियतेन्द्रियः ॥ २१ ॥
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ।
सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ।। २२ ।।
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।
रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ।। २३ ।।
देव्या दिव्यप्रभावेन दग्धं सव्यं ममेक्षणम् ।
रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् ॥ २४ ॥
ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।
तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ २५ ॥
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।
प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥ २६ ॥
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ।
प्रीतोस्मि तव धर्मज्ञ तपसा तेन सुव्रत ॥ २७ ॥
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ।
तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम् ।
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा ॥ २८ ॥
रौद्रं रुद्रप्रसादकव्रतं । इदंतु केदारव्रतमित्याहुः ॥ २१-२८ ॥
तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ।
तपसा निर्जितश्चैव सखा मम भवानघ ॥ २९ ।।
॥ देव्या दग्धं प्रभावेन यच्च सव्यं तवेक्षणम् ।
[ पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् ॥ ]
एकाक्षिपिङ्गलेत्येवं नाम स्थास्यति शाश्वतम् ॥ ३० ॥
रोचयस्व स्वरुचितं कुरु ॥ २९-३० ॥
एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ।
आगत्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥ ३१ ॥
आगत्य स्वगृहमागत्य । मे स्थितेन मया । अधर्म: तव पापविनिश्चयः श्रुतः ॥ ३१ ॥
तदधर्मिष्ठसंयोगाभिवर्त कुलदूषणात् ।
चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥ ३२ ॥
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ।
हस्तौ दन्तांश्च संपीड्य वाक्यमेतदुवाच ह ॥ ३३ ॥
तदधर्मत्वाद्धेतोः । कुलदूषणादधर्मिष्ठसंसर्गान्निवर्त निवर्तस्व ॥ ३२-३३ ।।
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे ।
नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ ३४ ॥
वाक्यं विज्ञातमिति वाक्यतात्पर्यार्थो विज्ञातइत्यर्थः ॥ ३४ ॥
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः ।
महेश्वरसखित्वं तु मूढ श्रावयसे किल ॥ ३५ ॥
धनरक्षको मे हितमिति ब्रवीति । एतद्धि मे न हितं न सममनुचितं चेत्यर्थः । हे मूढ महेश्वरसखित्वं तद्रूपबलसंपत्तिं । श्रावयसे किल ॥ ३५ ॥
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया ।
यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ ३६ ॥
इदं न मर्षणीयं यत्त्वयाभिहितं भाषितं तदपि न मर्षणीयमित्यर्थः ।। ३६ ।।
न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते ।
तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ।
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।। ३७ ॥
मम हृदयं गुरुः न हन्तव्य इति पूर्वमेवमन्यते स्म । तथापि एषा मतिर्जायेत | कृतशब्दार्थमाह – त्रीनिति ॥ ३७ ॥
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते ।
चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ३८ ॥
तस्यैकस्य कृते वधप्रसङ्ग इति शेषः ।। ३८ ।।
एवमुक्त्वा तु लङ्गेशो दूतं खङ्गेन जघ्निवान् ।
ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥ ३९ ॥
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः ।
त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥ ४० ॥
एनं खड्गच्छिन्नमित्यर्थः ॥ ३९-४० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोदशः सर्गः ॥ १३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥