श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टत्रिंशः सर्गः
रामेण स्वाभिषेकावलोकनकुतुकसमागतनानादेशाधिपानां तत्तन्नगरंप्रतिप्रेषणम् ॥ १ ॥
एवमास्ते महाबाहुरहन्यहनि राघवः ।
प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ १ ॥
ततः कतिपयाहस्सु वैदेहं मिथिलाधिपम् ।
राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ २ ॥
अथ सामन्तराजविसर्जनं-एवमित्यादि ॥ एवं पूर्वोक्तप्रकारेण । सर्वोपास्यमान इत्यर्थः । प्रशासदिति शत्रन्तं पदं ॥ १-२ ॥
भवान्हि गतिरव्यग्रा भवता पालिता वयम् ।
भवतस्तेजसोग्रेण रावणो निहतो मया ॥ ३ ।।
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ।
अतुलाः प्रीतयो राजन्संबन्धकपुरोगमाः ॥ ४ ॥
भवान्हि गतिरव्यग्रेति । अचला प्रतिष्ठेत्यर्थः । भवता पालिता इति । कन्याप्रदानादिना परिपालितवंशा इत्यर्थः । तेजसा तपोवीर्येण । पाविता इति च पाठः ॥ ३-४ ॥
तद्भवान्त्स्वपुरीं यातु रत्नान्यादाय पार्थिव ।
भरतश्च सहायार्थं पृष्ठतस्तेऽनुयास्यति ॥ ५ ॥
रत्नानि अस्माभिर्दीयमानानि उत्तमवस्तूनि ॥ ५ ॥
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् ।
प्रीतोस्मि भवतो राजन्दर्शनेन नयेन च ॥ ६ ॥
तथेति कृत्वा तथास्त्वित्यङ्गीकृत्येत्यर्थः ॥ ६ ॥
यान्येतानि तु रत्नानि मदर्थं संचितानि वै ।
दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥ ७ ॥
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ।
प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ८ ॥
मदर्थं मत्प्री- तिदानार्थं ॥ ७-८ ॥
ततः प्रयाते जनके केकयं मातुलं प्रभुः ।
राघवः प्राञ्जलिर्भूत्वां वाक्यमेतदुवाच ह ॥ ९ ॥
केकयं मातुलमिति युधाजितमित्यर्थः ॥ ९ ॥
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः ।
आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥ १० ॥
आयत्ताः । त्वयीति शेषः । गतिः आपद्बन्धुरित्यर्थः ॥ १० ॥
राजाऽपि वृद्धः संतापं त्वदर्थमुपयास्यति ।
तस्माद्गमनमद्यैव रोचते तव पार्थिव ॥ ११ ॥
राजा केकयः ॥ ११ ॥
लक्ष्मणेनानुयात्रेण पृष्ठतोऽनुगमिष्यते ।
धनमादाय विपुलं रत्नानि विविधानि च ॥ १२ ॥
युधाजित्तु तथेत्याह गमनं प्रति राघवम् ।
रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥ १३ ॥
अनुयात्रेण अनुयात्रोपचाररूपेण अनुयात्रानुरूपोपचारार्थ । अनुगमिष्यते । भवानिति शेषः । लक्ष्मणस्त्वनुयात्रार्थं पृष्ठतोनुगमिष्यतीतिपाठः ।। १२-१३ ।।
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः ।
रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ १४ ॥
रामेण पूर्वमभिवाद्य प्रदक्षिणं कृतः केकयवर्धनः राजानं रामं प्रदक्षिणीकृत्य प्रयातः। रामस्य मूर्धाभिषिक्तत्वाज्येष्ठेन मातुलेनापि रामं प्रति प्रदक्षिणादिकरणं ॥ १४ ॥
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः ।
हतेऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ १५ ॥
तं विसृज्य ततो रामो वयस्यमकुतोभयम् ।
प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ १६ ॥
वृत्रे हते सति विष्णुना उपेन्द्रेण सह स्थितो वासवः यथा विसृजति तथा लक्ष्मणमनुयात्रार्थं विसृज्येत्यर्थः ॥ १५-१६ ॥
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।
उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥ १७ ॥
यस्मात्त्वया भरतेन सह मम रणसहायार्थमुद्योगः कृतः । यस्माद्भवता परमा प्रीतिर्दृर्शिता परं सौहार्दं च दर्शितं । अनेनानुवादेन रावणसंहारार्थं काशीराजेन संगतमिति सिद्धम् ॥ १७ ॥
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज ।
रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ १८ ॥
काशेय काशीदेशे भव । ढग्भाव आर्षः ॥ १८ ॥
एतावदुक्त्वा चोत्थाय काकुत्स्थ: परमासनात् ।
पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ।
विसर्जयामास तदा कौसल्यानन्दवर्धनः ॥ १९ ॥
राघवेणाभ्यनुज्ञातः काशीशोप्यकुतोभयः ।
वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥ २० ॥
उरोगतं यथा भवति तथा निरन्तरं गाढं पर्यध्वजत ।। १९-२० ।।
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् ।
प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥ २१ ॥
प्रहसन्निति । त्रिशतसंख्याकपृथिवीपतिदर्शनजसंतोषात्प्रहासः ॥ २१ ॥
भवतां प्रीतिरव्यंग्रा तेजसा परिरक्षिता ।
धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ २२ ॥
युष्माकं चानुभावेन तेजसा च महात्मनाम् ।
हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ २३ ॥
हेतुमात्रमहं तत्र भवतां तेजसा हतः ।
रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥ २४ ॥
भवतां तेजसा अव्यग्रा प्रतिष्ठिता प्रीतिः वनाय निर्गतस्य मे पुनश्चागत्यानुभवयोग्यतया परिरक्षिता । भवतां तेजसा धर्मश्च नियतः । सत्यं च नियतं ॥ २२-२४ ॥
भवन्तश्च समानीता भरतेन महात्मना ।
श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥ २५ ॥
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।
कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥ २६ ॥
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः ।
दिष्ट्या त्वं विजयी राम स्वराज्येऽपि प्रतिष्ठितः ॥ २७ ॥
भवन्तश्च समानीताः संमिलिताः ।। २५-२७ ॥
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।
एष नः परमः काम एषा नः प्रीतिरुत्तमा ।। २८ ।।
यत्वां विजयिनं राम पश्यामो हतशात्रवम् ।
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे ॥ २९ ॥
प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ।
आपृच्छामो गमिष्यामो हृदिस्यो नः सदा भवान् ॥ ३० ॥
वर्तामहे महाबाहो प्रीत्याऽत्र महता वृत्ताः ।
भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ ३१ ॥
हतशात्रवं हतशत्रुं ।। २८-३१ ।।
बाढमित्येव राजानो हर्षेण परमन्विताः ।
ऊचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ ३२ ॥
[ दिष्ट्या ते कमलवरेक्षणं सुनासं ताम्रोष्ठं सुखमतिशोभि शुक्लदन्तम् ।
पश्यामो विजयमहाहवेषु नित्यं भ्राजन्तं निशि शरदीव पूर्णचन्द्रम् ।। ३३ ।।
पूजिताश्च त्वया राम मानिताश्च विशेषतः ।
गमिष्यामो महाराज स्वं स्वं देशं रघूत्तम ॥ ३४ ॥]
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ॥ ३५ ॥
बाढमित्येवेति ।। रामेणोक्ता इति शेषः । गमिष्याम इत्यूचुरिति पूर्वेणान्वयः ॥ ३२-३५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टत्रिंशः सर्गः ॥ ३८ ॥