श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विंशः सर्गः
पृथिवीस्थपृथ्वीपतिपराजयपूर्वकंनिर्गतेनरावणेन गगनेमेघमण्डलवर्तिनोनारदस्या -वलोकनेन तंप्रति साभिवादनमागमनप्रयोजनप्रश्नः ॥ १ ॥ नारदेनाद्भुतयुद्धदर्शनस्यस्वागमन -प्रयोजनस्वोक्त्या मर्त्यानांदुर्बलतयातज्जयस्य कीर्त्यप्रयोजकत्वोक्त्त्याच यमस्यसर्वसंहर्तृत्वेन बलिष्ठवरिष्ठत्वोक्त्याच तज्जयचोदना ॥ २ ॥ तथा यमजयाय तल्लोकंप्रस्थितेरावणे अद्भुतरणदिदृक्षया स्वेनापितत्रगमनम् ॥ ३ ॥
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।
आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ १ ॥
आससाद घने तस्मिन्निति । तस्मिन्काले घने घनपृष्ठे स्थितं नारदमित्यर्थः ।। १ ।।
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।
अब्रवीत्कुशलं दृष्ट्वा हेतुमागमनस्य च ॥ २ ॥
नारदस्तु महातेजा देवर्षिरमितप्रभः ।
अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ३ ॥
हेतुमागमनस्य चेत्यत्रापि पृष्ट्वेत्यन्वयः ॥ २-३ ॥
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।
प्रीतोस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ॥ ४ ॥
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।
त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ५ ॥
तिष्ठेति । मद्वचनं श्रोतुमिति शेषः । विष्णुदैत्यघातादिर्दृष्टान्तार्थः ॥ ४-५ ॥
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।
श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।
तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ६ ॥
समाधिं ऐकाग्र्यं ।। ६ ।।
किमयं वध्यते तात त्वयाऽवध्येन दैवतैः ।
हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७ ॥
देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।
अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ ८ ॥
नित्यं श्रेयसि संमूढं महद्भिर्व्यसनैर्वृतम् ।
हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ९ ॥
अयं लोकः । त्वया अवध्येनेति च्छेदः ॥ ७-९ ॥
तैस्तैरनिष्टोपगमैरजस्रं यत्रकुत्र कः ।
मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। १० ।।
युद्धेनेति । मतिमान् कदा तस्मिन्मर्त्यलोके युद्धेन वधप्रणयी भवेत् न कोपीत्यर्थः ॥ १० ॥
क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः ।
विषादशोकसंमूढं लोकं त्वं क्षपयस्व मा ॥ ११ ॥
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।
मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ १२ ॥
किं च मृतमारणवद्युद्धेन तेषां वधो व्यर्थ इत्याह -क्षीयमाणमिति ॥ ११-१२ ॥
क्वचिद्रादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।
रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ १३ ॥
धाराश्रुनयनाननैः धाराभूताश्रुनयनयुक्तमुखैः ।। १३ ।।
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।
मोहितोऽयं जनो ध्वस्तः कलेशं स्वं नावबुध्यते ॥ १४ ॥
भार्याबन्धुमनोरमैः भार्याबन्धुषु मनोरमो मनोरमणं प्रीतिर्येषां तैः । क्लेशं पारलौकिकदुःखं ॥ १४ ॥
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।
जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ १५ ॥
अवश्यमेभिः सर्वेश्च गन्तव्यं यमसादनम् ।
तन्निगृह्णीष्व पौलस्त्य यमं परपुरंजय ।। १६ ।।
तमिञ्जिते जितं सर्वं भवत्येव न संशयः ।
एवमुक्तस्तु लंकेशो दीप्यमानं स्वतेजसा ।
अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च ॥ १७ ॥
मोहनिराकृतः अज्ञानेन प्रच्यावितार्थः ॥ १५-१७ ।।
महर्षे देवगन्धर्वविहार समरप्रिय ।
अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥ १८ ॥
देवगन्धर्वविहार देवगन्धर्वैर्गानपरैर्विहारपर । समरप्रिय समरदर्शनप्रिय ।। १८ ।।
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।
समुद्रममृतार्थं च मथिष्यामि रसालयम् ॥ १९ ॥
रसालयं अमृतरसालयं ॥ १९ ॥
अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ।
क खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ २० ॥
इदानीं रसातलजिगमिषुणा त्वया अन्येन मार्गेण रसातलमार्गव्यतिरिक्तमार्गेण क्व गम्यते ॥ २० ॥
अयं खलु सुदुर्गम्य: प्रेतराजपुरं प्रति ।
मार्गों गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ २१ ॥
कस्य तर्ह्ययंमार्ग इत्यपेक्षायामाह-अयं खल्वित्यादि । सुदुर्गम्य: सुदुर्गमः । यदार्षः ।। २१ ।।
स तु शारदमेघाभं हासं मुक्त्वा दशाननः ।
उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ २२ ॥
हासंमुक्त्वेति । कृत्वेति यावत् । शारदमेघाभं नारदंप्रति कृतमित्येवावोचत् । तन्मार्गेणैव गमनं तज्जयश्च मम सिद्ध एवेत्युवाचेत्यर्थः ॥ २२ ॥
तस्मादेवमहं ब्रह्मन्वैवस्वतवधोद्यतः ।
गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ २३ ॥
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।
अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ २४ ॥
तदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति ।
प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ॥ २५ ॥
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।
प्रययौ दक्षिणामाशां प्रहृष्टः सह मन्त्रिभिः ॥ २६ ॥
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।
चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ २७ ॥
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।
क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥ २८ ।।
तस्मादिति ॥ यस्मान्मार्ग उपदिष्टः यतश्च मया चतुर्दिक्पालजय: प्रतिज्ञातस्तस्मादित्यर्थः ॥ २३-२८ ॥
स्वदत्तकृत साक्षी यो द्वितीय इव पावकः ।
लब्धसंज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ २९ ॥
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।
तं कथं राक्षसेन्द्रोसौ स्वयमेव गमिष्यति ॥ ३० ॥
स्वदत्तं स्वकृतं च । स्वदत्तस्वकृतशब्देन कायक्लेशरूपं तपः महात्मनः अनुग्रहादिति शेषः ।। २९-३० ।।
यो विधाता च धाता च सुकृतं दुष्कृतं तथा ।
त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥ ३१ ॥
धाता विधाता सामान्यतो विशेषतश्च कर्ता ॥ ३१ ॥
अपरं किंतु कृत्वाऽयं विधानं संविधास्यति ।
कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ३२ ॥
अपरमिति । काल एव सर्वसाधनं । अयं तु कालातिरिक्तमपरं किं विधानं साधनसंपादनं कृत्वा कालजयं संविधास्यतीत्येवं कौतूहलसमुत्पन्नोहं यमस्य सदनं द्रष्टुं यास्यामि ॥ ३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विंशः सर्गः ॥ २० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥