श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिपञ्चाशःसर्गः
सीताशोकेनदिनचतुष्टयंराज्यकार्याकरणेनदूयतारामेण लक्ष्मणंप्रति राज्यकार्याविमन -स्यानर्थहेतुत्वेदृष्टान्ततया नृगोपाख्याननिवेदनपूर्वकं कार्यार्थिनांप्रतीक्षणचोदना ॥ १ ॥
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् ।
सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ १ ॥
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः ।
यादृशस्त्वं महाबुद्धे मम सौम्य मनोनुगः ॥ २ ॥
यच्च मे हृदयं किंचिद्वर्तते शुभलक्षण ।
तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ३ ॥
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै ।
अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ ४ ॥
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।
कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ॥ ५ ॥
स्त्रियश्चेति । कार्यार्थिन्य इत्यनुषज्यते ॥ ५ ॥
पौरकार्याणि यो राजा न करोति दिनेदिने ।
संवृते नरके घोरे पतितो नात्र संशयः ॥ ६ ॥
श्रूयते हि पुरा राजा नृगो नाम महायशाः ।
बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक्छुचिः ॥ ७ ॥
स कदाचिद्गवां कोटी: सवत्साः स्वर्णभूषिताः ।
नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ८ ॥
पतितः स्वकर्मणेति शेषः । स मृतो नरके घोरे पात्यते नात्र संशय इति च पाठः ॥ ६-८ ॥
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिताऽनघ ।
ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ॥
[ नृगस्य गोसमूहेषु ददतः पूर्वमेव सा ॥ ९ ॥ ]
स नष्टां गां क्षुधार्तो वै अन्विष्यंस्तत्रतत्रच ।
नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ॥ १० ॥
सङ्गात् राज्ञा दत्तबहुगोसङ्गात् ॥ ९-१० ॥
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ।
ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥ ११ ॥
अथ तां नामधेयेन स्वकेनोवाच स द्विजः ।
आगच्छ शबलेत्येवं सा तु शुश्राव गौ: स्वरम् ।। १२ ।।
तस्य तु स्वरमाज्ञाय क्षुधार्तस्य द्विजस वै ।
अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ १३ ॥
योपि पालयते विप्रः सोपि गामन्त्रगाद्दृतम् ।
गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ॥ १४ ॥
कनखलं कनखलाख्यग्रामं ॥ ११-१४ ॥
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ।
तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ १५ ॥
विवदन्तौ ततोऽन्योन्यं दातारमभिजग्मतुः ।
तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥ १६ ॥
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।
ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ।
क्रुद्धौ परमसंतप्तौ वाक्यं घोराभिसंहितम् ॥ १७ ॥
स्पर्शिता दत्ता ॥ १५-१७ ॥
आर्थिनां कार्यसिद्ध्यर्थं यस्मात्वं नैषि दर्शनम् ।
अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥ १८ ॥
बहुवर्षसहस्राणि बहुवर्षशतानि च ।
श्वभ्रेऽस्मिन्कृकलासो वै दीर्घकालं वसिष्यसि ॥ १९ ॥
उत्पत्स्यते हि लोकेऽस्मिन्यदूनां कीर्तिवर्धनः ।
वासुदेव इति ख्यातो लोके पुरुषविग्रहः ॥ २० ॥
कृकलासः सरठः ॥ १८-२० ॥
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यति ।
कृता च तेन कालेन निष्कृतिस्ते भविष्यति ।। २१ ।।
भारावतरणार्थं हि नरनारायणावुभौ ।
उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥ २२ ॥
निष्कृतिः शापमोक्षः ॥ २१-२२ ॥
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ।
तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥ २३ ॥
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥ २४ ॥
ब्राह्मणाय कस्मैचित् अन्यस्मा इत्यर्थः ॥ २३-२४ ।।
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते ।
तच्छीघ्रं दर्शनं महामभिवर्तन्तु कार्यिणः ॥ २५ ॥
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ।
तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥ २६ ॥
विमर्दः कलहः । अभिवर्तन्तु आगच्छन्तु । कार्यिणः कार्यार्थिनः । अभिवर्तन्तु काङ्क्षिण इति पाठः ॥ २५-२६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिपञ्चाशःसर्गः ॥ ५३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥