[highlight_content]

22 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वाविंशः सर्गः

रावणकृत निजसेनासंक्षयक्षुभितेनयमेन मृत्युप्रभृतिभिःसह साटोपंरावणेनसहमहारण -प्रवर्तनम् ॥ १ ॥ मृत्युना प्रबलीभवतोरावणस्यमारणाय स्वनियोजनमर्थितेनयमेन तत्प्रतिषेधपूर्वकंरावणसंजिहीर्षया निजण्डदण्डोद्यमने सत्वरमाविर्भूतेनब्रह्मणा तंप्रति दण्डरावणयोरुभयोरपिस्वदत्तवरतयाऽन्यतरपराभवे स्वस्यानृतवनत्वोक्त्तया रावणेदण्डपातन -प्रतिषेधनम् ॥ २ ॥ यमे तद्वनगौरवेणरथादिभिः सहान्तर्धानंगते रावणेन जयघोषणपूर्वकंपुष्पकारोहणेननिर्गमनम् ॥ ३ ॥

स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः ।

शत्रुं विजयिनं मेने स्वबलस्य संक्षयम् ॥ १ ॥

स हि योधान्हतान्मत्वा क्रोधसंरक्तलोनः ।

अब्रवीत्वरितं सूतं रथोऽयमुपनीयताम् ॥ २ ॥

तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् ।

स्थितः स महातेजा ह्यध्यारोहत तं रथम् ।

पाशमुद्गरहस्तश् मृत्युस्तस्याग्रतः स्थितः ॥ ३ ॥

उपनीयतामित्यब्रवीदित्यन्वयः ॥ २-३ ॥

 

येन संक्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् ।

कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य ाभवत् ।

यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ॥ ४ ॥

येन मृत्युना । युगान्ते सर्वं सकृदेव संह्रियत इत्यर्थः । अव्ययं प्रवाहनित्यं ॥ ४ ॥

 

तस्य पार्श्वेषु निश्छिद्राः कालपाशा: प्रतिष्ठिताः ।

पावकस्पर्शसंकाशः स्थितो मूर्तश् मुद्गरः ।। ५ ।।

ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः ।

कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ ६ ॥

निश्छिद्राः निरन्तराः ॥ ५-६ ।।

 

ततः प्रोदयन्सूतस्तानश्वान्रुधिरप्रभान् ।

प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ ७ ॥

ततः प्रोदयन्सूतस्तान्हयान्रुधिरप्रभानित्यत्र ो इति गायत्री ॥ ७ ॥

 

मुहूर्तेन यमं ते तु हया हरिहयोपमाः ।

प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ८ ॥

मनस्तुल्या: मनस्तुल्यवेगा इत्यर्थः ॥ ८ ॥

 

दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् ।

िवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ ९ ॥

विकृतं घोरसन्नाहरूपविकारवन्तं ॥ ९ ॥

 

[ अभ्यधावन्त संक्रुद्धा बलिनोतिभयंकराः । ]

लघुसन्वतया ते हि नष्टसंज्ञा भयार्दिताः ।

नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ १० ॥

स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् ।

नाक्षुभ्यत दशग्रीवो न ापि भयमाविशत् ॥ ११ ॥

स तु रावणमासाद्य व्यसृज्छक्तितोमरान् ।

यमो मर्माणि संक्रुद्धो रावणस्योपकृन्तत ॥ १२ ॥

[ मर्मसु ्छिद्यमानेषु रावणो राक्षसेश्वरः ।

सहंस्तस्थौ रुजं घोरां भिद्यमान इवालः ॥ १३ ॥]

रावणस्तु ततः स्वस्थः शरवर्षं मुमो ह ।

तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ १४ ॥

[ शरास्ते वज्रसंकाशाश्छादयन्ति रणे यमम् ।

यथाऽलं महाघोरा नानावर्णा वलाहकाः ।। १५ ।।

तान्निहत्य शरांस्तूर्णं रावणस्य यमः स्वयम् ।

ततः प्रहरणं घोरं मुमोारिनिषूदनः ॥ १६ ॥ ]

ततो महाशक्तिशरैः पात्यमानो महोरसि ।

नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ १७ ॥

एवं नानाप्रहरणैर्यमेनामित्रकर्शिना ।

सप्तरात्रं कृतः सङ्ख्ये विसंज्ञो विमुखो रिपुः ॥ १८ ॥

तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः ।

जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ १९ ॥

ततो देवाः सगन्धर्वाः सिद्धाश् परमर्षयः ।

प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ २० ॥

संवर्त इव लोकानां क्रुध्यतोरभवत्तदा ।

राक्षसानां मुख्यस्य प्रेतानामीश्वरस्य ॥ २१ ॥

राक्षसेन्द्रोपि विस्फार्य ापमिन्द्राशनिप्रभम् ।

निरन्तरमिवाकाशं कुर्वन्बाणांस्ततोसृजत् ॥ २२ ॥

मृत्युं तुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् ।

यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ २३ ॥

ततः क्रुद्धस्य वदनाद्यमस्य समजायत ।

ज्वालामाली सनिश्वासः सधूमः कोपपावकः ॥ २४ ॥

तदाश्र्यमथो दृष्ट्वा देवदानवसन्निधौ ।

प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ २५ ॥

ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत ।

मुञ् मां समरे यावद्धन्मीमं पापराक्षसम् ।

नैषा रक्षोभवेदद्य मर्यादा हि निसर्गतः ॥ २६ ॥

लघुसत्त्वतया अल्पवीर्यतया ॥ १०-२६ ।।

 

हिरण्यकशिपुः श्रीमान्नमुिः शम्बरस्तथा ।

विसंधिर्धूमकेतुश् बलिर्वैरोनोपि

दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव ॥ २७ ॥

राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।

ऋषयः पन्नगा दैत्या पक्षाश्ाप्यप्सरोगणाः ॥ २८ ॥

युगान्तपरिवर्ते पृथिवी समहार्णवा ।

क्षयं नीता महाराज सपर्वतसरिद्द्रुमा ॥ २९ ॥

दम्भुर्नाम कश्िदसुरः ।। २७-२९ ।।

 

एते ान्ये बहवो बलवन्तो दुरासदाः ।

विनिपन्ना मया दृष्टाः किमुताय निशारः ॥ ३० ॥

विनिपन्नाः विनाशं प्राप्ताः । दृष्टाः दृष्टमात्राः ।। ३० ।।

 

मुञ् मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ।

न हि कश्िन्मया दृष्टो बलवानपि जीवति ॥ ३१ ॥

यावन्निहन्मि निहनिध्यामीत्यर्थः । यावद्योगे भविष्यदर्थे लट् ॥ ३१ ॥

 

बलं मम न खल्वेतन्मर्यादैषा निसर्गतः ।

स दृष्टो न मया कालं मुहूर्तमपि जीवति ॥ ३२ ॥

मयां दृष्टो मुहूर्तमपि न जीवतीत्येतत् मद्वनं बलं न खलु बलप्रकाशनं न भवति । किंतु निसर्गतः स्वभावतः सिद्धा मर्यादा एषा । अनादिसृष्टिरेवंविधेत्यर्थः । उक्तमर्थमुपसंहरति स दृष्ट इति ॥ ३२ ॥

 

तस्यैवं वनं श्रुत्वा धर्मराजः प्रतापवान् ।

अब्रवीत्तत्र तं मृत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ३३ ॥

ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ।

कालदण्डममोघं तु तोलयामास पाणिना ॥ ३४ ॥

यस्य पार्श्वेषु निखिला: कालपाशाः प्रतिष्ठिताः ।

पावकाशनिसंकाशो मुद्गरो मूर्तिमान्स्थितः ।। ३५ ।।

दर्शनादेव यः प्राणान्प्राणिनामकर्षति ।

किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ॥ ३६ ॥

स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् ।

तेन स्पृष्टो बलवता महाप्रहरणोऽस्फुरत् ॥ ३७ ॥

ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे ।

सुराश् क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ३८ ॥

तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् ।

यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ ३९ ॥

वैवस्वत महाबाहो न खल्वमितविक्रम ।

न हन्तव्यस्त्वया तेन दण्डेनैव निशारः ॥ ४० ॥

वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव ।

स त्वया नानृतः कार्यो यन्मया व्याहृतं वः ॥ ४१ ॥

अयमेनं निहन्म्यहं अहमेनमयं निहन्मि । अविलम्बेन हन्मीत्यर्थः ॥ ३३-४१ ॥

 

यो हि मामनृतं कुर्याद्देवो वा मानुषोपि वा ।

त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ ४२ ॥

क्रुद्धेन विप्रमुक्तोयं निर्विशेषं प्रियाप्रिये ।

प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ४३ ॥

अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः ।

कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ४४ ॥

तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि ।

न ह्यस्मिन्पतिते कश्िन्मुहूर्तमपि जीवति ॥ ४५ ॥

अनृतं असत्यवादिनं कुर्यात् । मृत्युपुरस्कृतः मृत्युना पुरस्कृतः। बहुव्रीहिश् ॥ ४२-४५ ॥

 

यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः ।

म्रियते वा दशग्रीवस्तदा ह्युभयतोनृतम् ॥ ४६ ॥

तन्निवर्तय लङ्केशं दण्डमेतं समुद्यतम् ।

सत्यं मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ४७ ॥

उभयतोनृतं मया कालदण्डस्य मोघत्वसंपादने दण्डस्यानृतत्वं रक्षोमरणोपेक्षणे वरवनस्यानृतत्वमिति ॥ ४६-४७ ॥

 

एवमुक्तस्तु धर्मात्मा प्रत्युवा यमस्तदा ।

एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ४८ ॥

प्रभविष्णुः स्वामी ॥ ४८ ॥

 

किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि ।

न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ४९ ॥

यद्यस्मान्मया न हन्तव्यस्तस्मादिदानीं मया किंतु शक्यं कर्तुमिति । संिन्त्येति शेषः ॥ ४९ ॥

 

एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः ।

इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ५० ॥

दशग्रीवस्तु तं जित्वा नाम विश्राव्य ात्मनः ।

आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसदनात् ॥ ५१ ॥

अस्य रक्षसो दर्शनात् दर्शनपथात् । एष इति । प्रणश्यामि णश अदर्शने अन्तर्हितो भविष्यामीत्यर्थः । इत्युक्त्वेति । ब्रह्माणमिति शेषः ॥ ५०-५१ ॥

 

स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ।

जगाम त्रिदिवं हृष्टो नारदश् महामुनिः ॥ ५२ ॥

वैवस्वतः ब्रह्मपुरोगमैर्देवैः हृष्टः अभूदिति शेषः ॥ ५२ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥

इति श्रीगोविन्दराजविरिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥

Languages

Related Parts

error: Content is protected !!