[highlight_content]

59 Sarga उत्तरकाण्डः

श्रीमद्रामायणे ाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनषष्टितमः सर्गः

शुक्राशापाज्जरांप्राप्तेनययातिना शुक्रानुग्रहबलेनैवशर्मिष्ठापुत्रेपूरौनिजजरासंक्रमणपूर्वकं तदीययौवनस्वीकारेण िरकालंभोगानुभवः ॥ १ ॥ ततस्तृप्तेनययातिना पूरुतोनिजजरास्वीकार -पूर्वकं तस्मिंस्तदीययौवनप्रत्यर्पणेन परितोपात्तस्यराज्येऽभि षेनेनवनगमनम् ॥ २ ॥

श्रुत्वा तूशनसं क्रुद्धं तदार्तो नहुषात्मजः ।

जरां परमिकां प्राप्य यदुं वनमब्रवीत् ॥ १ ॥

यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।

जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ २ ॥

न तावत्कृतकृत्योऽस्मि विषयेषु नरर्षभ ।

अनुभूय तथा कामं ततः प्राप्स्याम्यहं जराम् ।। ३ ।।

यदुस्तद्वनं श्रुत्वा प्रत्युवा नरर्षभम् ।

पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥ ४ ॥

श्रुत्वेत्यादि ॥ १-४ ॥

 

बहिष्कृतोऽहमर्थेषु सन्निकर्षा पार्थिव ।

प्रतिगृह्णातु वै राजन्कः सहाश्नाति भोजनम् ॥ ५ ॥

तस्य तद्वनं श्रुत्वा राजा पूरुमथाब्रवीत् ।

इयं जरा महावाहो मदर्थं प्रतिगृह्यताम् ॥ ६ ॥

नाहुषेणैव मुक्तस्तु पूरु: प्राञ्जलिरब्रवीत् ।

धन्योस्म्यनुगृहीतोस्मि शासनेऽस्मि तव स्थितः ॥ ७ ॥

बहिष्कृत इति ॥ सन्निकर्षात् समीपावस्थापनादिकृत्या बहिष्कृतः ॥ ५-७ ।।

 

पूरोर्वनमाज्ञाय नाहुषः परया मुदा ।

प्रहर्षमतुलं लेभे जरां संक्रामय ताम् ॥ ८ ॥

ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ।

बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ ९ ॥

अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।

आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥ १० ॥

पूरोरिति ॥ जरां संक्रामयदिति । योगबलादिति शेषः ॥ ८-१० ॥

 

न्यासभूता मया पुत्र त्वयि संक्रामिता जरा ।

तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ।। ११ ।।

प्रीतश्ास्मि महाबाहो शासनस्य प्रतिग्रहात् ।

त्वां ाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ।। १२ ।।

एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।

देवयानीसुतं क्रुद्धो राजा वाक्यमुवा ह ॥ १३ ॥

न्यासभूतेति ॥ हे पुत्र । त्वयि मया संक्रामिता जरा तस्मान्मया जातः ॥ ११-१३ ॥

 

राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।

प्रतिहंसि ममाज्ञां यत्प्रजार्थे विफलो भव ॥ १४ ॥

पितरं गुरुभूतं मां यस्मामवमन्यसे ।

राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ १५ ॥

राक्षस इति ॥ प्रजार्थे विफलो भवेति । प्रजया पुत्रेण पितुः सकाशात्प्राप्यार्थः राज्यादिलक्षणरूपः तस्मिन्विफल उक्तप्रयोजनरहित इत्यर्थः ॥ १४-१५ ॥

 

न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः ।

वंशोपि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥ १६ ॥

तमेवमुक्त्वा राजर्षि: पूरुं राज्यविवर्धनम् ।

अभिषेकेण संपूज्य आश्रमं प्रविवेश ह ॥ १७ ॥

ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।

त्रिदिवं संगतो राजा ययातिर्नहुषात्मजः ॥ १८ ॥

पूरुश्कार तद्राज्यं धर्मेण महता वृतः ।

प्रतिष्ठाने पुरवरे काशीराज्ये महायशाः ॥ १९ ॥

यदुस्तु जनयामास यातुधानान्सहस्रशः ।

पुरे क्रौञ्वने दुर्गे राजवंशबहिष्कृतः ॥ २० ॥

नत्विति त्वयेति शेषः ॥ १६-२० ॥

 

एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।

धारितः क्षत्रधर्मेण यं निमिश्क्षमे ॥ २१ ॥

ययातिवृत्तान्तप्रतिपादनस्य प्रकृतोपयोगमाह-एष तूशनसेति ॥ यमृषिशापं निमिर्न क्षमे तादृशः शापो ययातिना धारित इत्यर्थः ॥ २१ ॥

 

एतते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।

अनुवर्तामहे सौम्य दोषो न स्वाद्यथा नृगे ॥ २२ ॥

इति कथयति रामे न्द्रतुल्यानने प्रविरलतरतारं व्योम जज्ञे तदानीम् ।

अरुणकिरणरक्ता दिग्बभौ ैत्र पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥ २३ ॥

एतदिति ॥ कारः कृत्यमेषामस्तीति कारिणः । कार्यापेक्षिण इत्यर्थः ॥ २२-२३ ॥

 

इत्यार्षे श्रीमद्रामायणे ाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥

इति श्रीगोविन्दराजविरिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥

Languages

Related Parts

error: Content is protected !!