श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः
सीताविसर्जनविषादेनरामंप्रतिशोचन्तंसौमित्रिंप्रति सुमन्त्रेण रामस्य सीताया भ्रातॄणांचविप्रयोगस्यावश्यंभावित्वस्य दशरथंप्रतिदुर्वाससा पूर्वमेवोक्तत्वनिवेदनेन परिसांत्वने लक्ष्मणेनतंप्रति विस्तरेणदुर्वासोवचनानुवदनचोदना ॥ १ ॥
दृष्ट्वा तु मैथिलीं सीतामाश्रमे संप्रवेशिताम् ।
संतापमगद्धोरं लक्ष्मणो दीनचेतनः ॥ १ ॥
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।
सीतासंतापजं दुःखं पश्य रामस्य सारथे ॥ २ ॥
ततो दुःखतरं किंतु राघवस्य भविष्यति ।
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ३ ॥
मन्त्रसहायभूतः सारथिर्मन्त्रसारथिः । सीतासंतापजं सीताविरहसंतापजमित्यर्थः ॥ २-३ ॥
व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम् ।
वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ ४ ॥
विनाभवं सीतावियोगेनावस्थानं वैदेह्या सार्धं विनाभवमित्यर्थः । दैवात् प्राग्भवाद्दृष्टादित्यर्थः ॥ ४ ॥
यो हि देवान्त्सगन्धर्वानसुरान्सह राक्षसः ।
निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ ५ ॥
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।
उषित्वा नव वर्षाणि पञ्च चैव महावने ॥ ६ ॥
दैवमनुवर्तते नतु तन्निरसितुं शक्नोतीत्यर्थः ॥ ५-६ ॥
ततो दुःखतरं भूयः सीताया विप्रवासनम् ।
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ ७ ॥
ततः सीतायाः विप्रवासनं नृशंसं क्रूरकृत्यमिति प्रतिभाति ॥ ७ ॥
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।
मैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः ॥ ८ ॥
एता वाचो बहुविधा: श्रुत्वा लक्ष्मणभाषिताः ।
सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ ९ ॥
हीनार्थवादिभिः पौरैर्हेतुभिः । मैथिलीं प्रति यशोहरे साध्वीं वने विसृष्टवानिति अपयशस्करेस्मिन् कर्मणि सीतापरित्यागरूपकर्मण्यनुष्ठिते सति कोनु धर्माश्रयः धर्मपरिग्रहः रामेण संप्राप्तः । प्रत्युत साध्वीत्यागादधर्म एव स्यादिति भावः ।। ८-९ ॥
न संतापस्त्वया कार्य: सौमित्रे मैथिलीं प्रति ।
दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥ १० ॥
भविष्यति दृढं रामो दुःखप्रायोपि सौख्यभाक् ।
प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ॥ ११ ॥
त्वां चैव मैथिली चैव शत्रुघ्नभरतावुभौ ।
संत्यजिष्यति धर्मात्मा कालेन महता महान् ॥ १२ ॥
दृष्टमिति । हे लक्ष्मण पुरा तव पितुरप्रतः अल्पभाग्यवान्रामः दुःखप्रायो भविष्यतीत्येतद्दृष्टं दृष्ट्वा मह्यमुक्तमित्यर्थः । फलितमाह – प्राप्स्यत इति ।। १०-१२ ॥
इदं त्वयि न वक्तव्यं सौमित्रे भरतेऽपि वा ।
राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ १३ ॥
इदं रहस्यं त्वयि भरते वा न वक्तव्यं । इदंशब्दार्थमाह-राज्ञेति । राज्ञा दशरथेन । वः तदिदं त्वयि भरतेपि न वक्तव्यमित्यर्थः ॥ १३ ॥
महाजनसमीपे च मम चैव नरर्षभ ।
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ १४ ॥
दुर्वाससो वचनं कथं त्वयावगतमित्यत्राह-महाजनेति ॥ महाजनसमीपे दशरथसमीप इत्यर्थः । मम वसिष्ठस्य च सन्निधौ । ऋषिणा दुर्वाससा वाक्यं व्याहृतं । त्रिभिरेवेदं वृत्तं ज्ञातमिति भावः ॥ १४ ॥
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।
सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥ १५ ॥
एवं ते त्वया श्रुतं रहस्यमित्यर्थः ॥ १५ ॥
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितम् ।
नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ १६ ॥
समाहितं सम्यग्गुप्तं तस्य वाक्यं मया जातु अनृतं न कार्यमिति मम दर्शनं मतं । तस्मात् त्वयि भरते च न वक्तव्यमिति भावः ॥ १६ ॥
सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ १७ ॥
न वक्तव्यमिति । राजरहस्यमिति शेषः । तवातिश्रद्धारहितस्य ॥ १७ ॥
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।
तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ १८ ॥
तथाप्यप्रकाश्यस्यापि प्रकाशने हेतुमाह-दैवं हि दुरतिक्रममिति । हि यस्माद्दैवं प्राचीनं कर्म दुरतिक्रमं तस्मादित्यर्थः ॥ १८ ॥
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।
न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ १९ ॥
दुरतिक्रमे हेतुः-येनेदमिति ॥ एवं भवदुःखातिशयदर्शनात् श्रद्धालवे तुभ्यं मया वक्तव्यमिति भावः ॥ १९ ॥
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ।। २० ।।
गम्भीरार्थपदमिति । पूर्वोक्तं भाषितं ॥ २० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥