श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः
च्यवनादिभिलवणासुरदुर्वृत्तंनिवेदितेनरामेण लवणमारणेनियोज्यविचारणे तंत्रति भरतेन निजनियोजनप्रार्थना ॥ १ ॥ शत्रुघ्नेन हेतूक्तिपूर्वकंस्वनियोजनयाचने रामेण तदङ्गीकारेणलवणमारणनिर्धारणेन शत्रुघ्नंप्रति लवणराज्येऽभिषेकस्वीकारचोदना ॥ २ ॥
तथोक्ते तानृषीन्राम: प्रत्युवाच कृताञ्जलिः ।
किमाहार: किमाचारो लवणः क्व च वर्तते ॥ १ ॥
अथ शत्रुघ्नस्य लवणासुरवधार्थं प्रेषणं-तथेत्यादि ॥ १ ॥
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।
ततो निवेदयामासुर्लवणो ववृधे यथा ॥ २ ॥
आहार: सर्वसवानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ३ ॥
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ४ ॥
ततोन्तराणि सत्त्वानि खादते स महाबलः ।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ ॥
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।
घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥ ६ ॥
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातृन्त्सहितान्सर्वानुवाच रघुनन्दनः ॥ ७ ॥
यथा ववृधे यादृगाहारादिना वर्धते स्म तथा निवेदयामासुः ।। २-७ ॥
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥ ८ ॥
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ९ ॥
कस्यांश इति पृष्ट्वा स्वयमेव निश्चिनोति भरतस्येति ।। ८-९ ।।
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ १० ॥
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ ११ ॥
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
संतापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ १२ ॥
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।
शयानो दुःखशय्यासु नन्दिग्रामेऽवसत्पुरा ॥ १३ ॥
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।
अनुभूयेदृशं दुःखमेष राघवनन्दनः ॥
प्रेष्ये मयि स्थिते राजन्न भूय: क्लेशमाप्नुयात् ॥ १४ ॥
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ १५ ॥
आसनं हित्वा आसनादुत्थायेत्यर्थः ।। १०-१५ ॥
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।
निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ १६ ॥
निवेशय अत्रैव नगर इति शेषः । अथवा तत्रैव तिष्ठेति भावः । अवेक्षसे अक्लेशनीयत्वेनेति शेषः ॥ १६ ॥
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ १७ ॥
निवेशने नूतनगृहनिर्माण इत्यर्थः ॥ १७ ॥
[ नगरं यमुनाजुष्टं तथा जनपदाञ्शुभान् । ]
यो हि शत्रु समुत्पाट्य पार्थिवस्य पुनः क्षये ।
न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥ १८ ॥
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ १९ ॥
मधोस्तु नगरे त्वामभिषेक्ष्यामीत्यत्र हेतुमाह-यो हीति ॥ नृपं तत्रेति । उत्पाटितवंशनृपराज्य इत्यर्थः ।। १८-१९ ।।
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ २० ॥
उत्तरं च न वक्तव्यमिति ॥ त्वत्समीप एव मया वस्तव्यमित्यादिकमित्यर्थः ॥ २० ॥
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।
वसिष्ठ प्रमुखैर्विप्रैर्विधिमन्त्र पुरस्कृतम् ॥ २१ ॥
विधिना मन्त्रेण च पुरस्कृतं ॥ २१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विषष्टितमः सर्गः ।। ६२ ।।