श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टषष्टितमःसर्गः
लवणासुरे आहारसंपादनायनगराद्बहिर्गतेसति शत्रुघ्नेन धनुष्पाणिनासता नगरद्वार्यवस्थानम् ।। १ ।। आहारादानेन पुनरागतंलवणंमति युद्धायाह्वानम् ।। २ ।। लवणेनायुधा -नयनावधिविलंबयाचने शत्रुघ्नेन तदनङ्गीकारः ॥ ३ ॥
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ १ ॥
ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।
निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥ २ ॥
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ३ ॥
ततोर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।
आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ ४ ॥
भक्ष्याहारप्रचोदितः भक्ष्यस्याहारः आहरणं तेन प्रचोदितः ॥ २-४ ।।
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।
तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ५ ॥
ईदृशानां सहस्राणि सायुधानां नराधम ।
भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥ ६ ॥
आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम ।
स्वयं प्रविष्टोऽद्य मुखं कथमासाद्य दुर्मते ॥ ७ ॥
अनेन आयुधेन ।। ५-७ ॥
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।
शत्रुघ्नो वीर्यसंपन्नो रोषादश्रूण्यवासृजत् ॥ ८ ॥
रोषादिति । दुःखानन्दाभ्यामिव रोषाप्यश्रु जायते ।। ८ ।।
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ९ ॥
उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम् ।
योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० ॥
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।
शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ११ ॥
गात्रैः विनिष्पतन्निति । गात्रेभ्योविनिष्पतन्नित्यर्थः ॥ ९-११ ॥
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।
शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि ॥ १२ ॥
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोसि दुर्मते ॥ १३ ॥
मे मत्तो जीवन्न गमिष्यसि ।। १२-१३ ।।
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ।
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ १४ ॥
मम मातृष्वसुरिति ॥ अयमर्थः पूर्वमुक्तः ॥ १४ ॥
तच्च सर्वे मया क्षान्तं रावणस्य कुलक्षयम् ।
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ ॥
मयावज्ञां पुरतः कृत्वा यूयं विशेषतः क्षान्ता इति संबन्धः । मया पूर्वं विशेषत इति पाठान्तरं ।। १५ ।।
निहताश्व हि मे सर्वे परिभूतास्तृणं यथा ।
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ १६ ॥
भूताश्च भविष्याश्च वर्तमानाश्च पुरुषाः सर्वेपि मे मया निहताः । केचित्परे तृणं यथा भवति तथा परिभूताश्च । अलक्षीकृताश्च ॥ १६ ॥
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।
तिष्ठत्वं च मुहूर्तं तु यावदायुधमानये ।
ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ १७ ॥
यादृशं तुभ्यमीप्सितं तादृशं युद्धं दास्यामि । सज्जये यावदायुधमिति । आयुधं गृहीत्वा सज्जयिष्ये तावत्तिष्ठेत्यर्थः ।। १७ ।।
तमुवाचाथ शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।
शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥ १८ ॥
तं आयुधं जिघृक्षुमित्यर्थः ॥ १८ ॥
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।
स हतो मन्दबुद्धित्वाद्यथा का पुरुषस्तथा ॥ १९ ॥
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि ।
यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥ २० ॥
प्रसरं अवकाशं । शूलग्रहणार्थमित्यर्थः ॥ १९-२० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टषष्टितमःसर्गः॥ ६८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥