श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनशततमः सर्गः
प्रभाते रामचोदनयाकुशलवाभ्यांसभायांब्रह्मर्ष्यादिपुरतउत्तरकथागानम् ॥ १ ॥ सीताऽदर्शन विषण्णेनरामेण सर्वपार्थिवविसर्जनेन विप्रेभ्योवित्तवितरणेनच यज्ञसमापनपूर्वकं पुत्रद्वयेनसहायोध्याप्रवेशः ॥ २ ॥ श्रीरामे काञ्चनमय्याजानकीप्रतिकृत्याऽश्वमेधादिभि -र्यजनपूर्वकं धर्मेणराज्यंप्रशासतिसतिदुर्भिक्षादीनांदूरतोपसरणम् ॥ ३ ॥ चिरकालात्परंराममान्ना -दिषु कालधर्मंगतेषु तेन तदुद्देशेनब्राह्मणेभ्योद्रव्यादिवितरणम् ॥ ४ ॥
रजन्यां तु प्रभातायां समानीय महामुनीन् ।
गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ॥ १ ॥
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु ।
भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ॥ २ ॥
गीयतामित्युवाच । अविशङ्काभ्यां मत्पुत्रत्वविषयशङ्कारहिताभ्यां । मातृवियोगदुः खरहिताभ्यां वा ॥ १-२ ।।
प्रविष्टायां तु सीतायां भूतलं सत्यसंपदा ।
तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ॥ ३ ॥
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।
शोकेन परमायस्तो न शान्तिं मनसागमत् ॥ ४ ॥
सत्यसंपदा सत्यवैभवेन । तस्यावसाने यज्ञस्येति । सीतानिर्याणासन्नपूर्वकालइत्यर्थः ॥ ३-४ ।।
विसृज्य पार्थिवान्त्सर्वानृक्षवानरराक्षसान् ।
जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ॥ ५ ॥
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ।
ततो विसृज्य तान्त्सर्वान्रामो राजीवलोचनः ॥ ६ ॥
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह ।
इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ॥ ७ ॥
वित्तपूर्वं वित्तदानपूर्वमित्यर्थः ।। ५-७ ॥
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।
यज्ञे यज्ञे च पत्त्न्यर्थं जानकी काञ्चनी भवत् ॥ ८ ॥
न सीताया इत्यनेन रामस्य एकदारव्रतं सीताप्रतिनिधिनैव यज्ञनिर्वर्तनं च दर्शितं ॥ ८ ॥
दश वर्षसहस्राणि वाजिमेधानथाकरोत् ।
वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ ९ ॥
दश वर्षसहस्राणीत्यनेन प्रथमयज्ञ एव सीताया भूप्रवेश इत्युक्तं । बहुसुवर्णकान् बहुसुवर्णकयागान् ॥ ९ ॥
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ।
ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ॥ १० ॥
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।
धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ ११ ॥
अनुरञ्जन्ति राजानमहन्यहनि राघवम् ।
ऋक्षवानररक्षांसि स्थिता रामस्य शासने ॥ १२ ॥
गोसवैः गोसवाख्ययागैः । अश्वमेधसंक्षेपैरिति संक्षेपवचनमेतत्परं वेदितव्यं शतशब्दस्य बहुसंख्यावचनत्वात् । गोशतैश्चेति पाठः ।। १०-१२ ।।
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।
हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ॥ १३ ॥
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ।
नाऽनर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ॥ १४ ॥
अथ दीर्घस्य कालस्य राममाता यशस्विनी ।
पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ॥ १५ ॥
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी ।
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ १६ ॥
सुभिक्षमिति । अभवदिति शेषः ।। १३-१६ ।।
सर्वा: प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ।
समागता महाभागाः सर्वधर्मं च लेभिरे ॥ १७ ॥
तासां रामो महादानं काले काले प्रयच्छति ।
मातृणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ १८ ॥
सर्वधर्मं चेति । सर्वधर्मसाध्यभोगमित्यर्थः ॥ १७-१८ ॥
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् ।
चकार रामो धर्मात्मा पितृन्देवान्विवर्धयन् ॥ १९ ॥
पित्र्याणि पितृकर्मापेक्षितानि । ब्रह्मरत्नानि ब्राह्मणदेयवस्तूनि । प्रयच्छति स्मेत्यनुकर्षः । पितॄन् देवान् विवर्धयन् यज्ञांश्चकारेति । पिण्डपितृयज्ञानित्यर्थः ॥ १९ ॥
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ।
यज्ञे बहुविधं धर्मं वर्धयानस्य सर्वदा ॥ २० ॥
वर्धयानस्य वर्धमानस्येत्यर्थः ॥ २० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनशततमः सर्गः ॥ ९९ ॥