[highlight_content]

95 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चनवतितमः सर्गः

बहुकालं सभामध्ये कुशलवगीतरामायणं श्रुतवतारामेण रामायणवचनादेव कुशलवयोः सीतासुतत्वविज्ञानम् ॥ १ ॥ तथा प्रत्ययोत्पादनेन लोकापवादापनोदनपूर्वकं निजशुद्धिप्रख्यापनाय शपथकरणे सीताभावावगमाय वाल्मीकिंप्रति दूतप्रेषणम् ॥ २ ॥ दूतमुखाच्छपथकरणे सीताङ्गीकरणश्रवणहृष्टेनरामेण सकलसभास्तारान्प्रति परेद्यु: प्रभाते प्रवर्तिष्यमाणसीताशपथदर्शनप्रार्थनापूर्वकं तेषां विसर्जनम् ॥ ३ ॥

रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।

शुश्राव मुनिभिः सार्धं पार्थिवै: सह वानरैः ॥ १ ॥

तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।

तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।

दूताञ्शुद्धसमाचारानाहूयात्ममनीषया ॥ २ ॥

मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ ३ ॥

गीते तु गीत एव । नतु ततः पूर्वं कस्यचिन्मुखादित्यर्थः ॥ २-३ ॥

 

यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।

करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥

महामुनिमनुमान्य महामुनेरनुमतिं कृत्वेत्यर्थः ॥ ४ ॥

 

छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।

प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥

श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।

करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ६ ॥

श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् ।

दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुङ्गवः ॥ ७ ॥

ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।

ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥

तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।

विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥

एवं भवतु भद्रं वो यथा वदति राघवः ।

तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥

छन्दं अभिप्रायं ।। ५-१० ।।

 

तथोक्ता मुनिना सर्वे रामदूता महौजसम् ।

प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ११ ॥

ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।

ऋषींस्तत्र समेतांश्च राज्ञवैवाभ्यभाषत ॥ १२ ॥

तभोक्ताइति सीता तथैव करिष्यतीत्युक्ता इत्यर्थः ।। ११-१२ ।।

 

भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।

पश्यन्तु सीताशपथं यश्चैवान्योपि काङ्क्षते ॥ १३ ॥

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।

सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥

राजानश्च महात्मानं प्रशंसन्ति स राघवम् ।

उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥

एवं विनिश्रयं कृत्वा श्वोभूत इति राघवः ।

विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥ १६ ॥

इति संप्रविचार्य राजसिंह: श्वोभूते शपथस्य निश्चयं वै ।

विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ १७ ॥

यश्चैवान्योपीति । यश्च पापी पापजल्पः प्राकृतः सोपीत्यर्थः ॥ १३-१७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ ९५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.