श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः
लक्ष्मणेन रामाज्ञया विभीषणस्यलङ्काराज्येऽभिषेचनम् ॥ १ ॥ रामेण मैथिलींप्रति निजविजयकुशलनिवेदनाय हनुमत्प्रेषणम् ॥ २ ॥
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।
जग्मुः स्वैःस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥ १ ॥
अथ विभीषणाभिषेकः – ते रावणवधमित्यादि ॥ अत्र क्रियाभेदात्तच्छब्दद्वयं ॥ १ ॥
रावणस्य वधं घोरं राघवस्य पराक्रमम् ।
सुयुद्धं वानराणां च सुग्रीवस्य च मंत्रितम् ॥ २ ॥
अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।
[ पतिव्रतात्वं सीताया हनूमति पराक्रमम् ॥]
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ॥ ३ ॥
शुभा: कथाः कथयन्त इत्यस्यैव विवरणं- रावणस्य वधमित्यादि । मन्त्रितं मन्त्रं । सौमित्रेरिति तन्मातुः श्लाघनव्यञ्जनाय अस्य जननी हि भाग्यवतीति ॥ २-३ ।।
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥ ४ ॥
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥ ५ ॥
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।
राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥ ६ ॥
इन्द्रदत्तं इन्द्रप्रेरितं । शिखिप्रभं अग्निप्रभं । प्रत्यपूजयत् उपचचार ॥ ४-६ ॥
परिष्वज्य च सुग्रीवं लैक्ष्मणेन प्रचोदितः ।
पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ॥ ७ ॥
प्रचोदितः विज्ञप्तः । बलालयं शिबिरं ॥ ७ ॥
अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।
सौमित्रिं सत्यसंपन्नं लक्ष्मणं दीप्ततेजसम् ॥ ८ ॥
सत्यसंपन्नत्वादिविशेषणं यथोक्तकारित्वद्योतनाय ॥ ८ ॥
विभीषणमिमं सौम्य लङ्कायामभिषेचय ।
अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥ ९ ॥
एष मे परमः कामो यदीमं रावणानुजम् ।
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ॥ १० ॥
विभीषणमित्यादिश्लोकद्वयमेकान्वयं । लङ्कायामभिषेचय लङ्कायां गत्वाऽभिषेचय । समुद्रतीरएव लङ्काराज्याभिषेके कृतेपि पुनर्विधानं रावणसिंहासनेभिषेकार्थं । अनुरक्तमित्यनेन मित्रकृत्यमुक्तं । भक्तमित्यनेन दास्यकृत्यं । उपकारिणमित्यनेनानुरागभक्त्योः कार्यपर्यवसानमुक्तं । परम:काम इत्यनेन शरणागत विभीषणाभिमतपरिपूरणमेव विजयस्य प्रधानप्रयोजनमित्यवगम्यते ॥ ९-१० ।।
एवमुक्तस्तु सौमित्री राघवेण महात्मना ।
तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ॥ ११ ॥
घटमिति जात्येकवचनं ॥ ११ ॥
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ।
आदिदेश महासत्त्वान्समुद्रसलिलानये ॥ १२ ॥
आनये आनयने । हस्त इत्यत्रापि जात्येकवचनं । वानरेन्द्राणामिति बहुवचनप्रयोगात् ॥ १२ ॥
इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः ।
आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः ॥ १३ ॥
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ।
घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ॥ १४ ॥
इतीति । आदेशाद्धेतोरित्यर्थः । इति हेतुप्रकरणप्रकारादिसमाप्तिषु इत्यमरः । वानरा वानरोत्तमा इति वचनं वानरोत्तमत्वेपि मानुषत्वव्यावर्तनाय । समुद्रात् समुद्रेभ्यः ॥ १३-१४ ॥
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ।
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ॥
अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् ॥ १५ ॥
[अभ्यषिश्चंस्तदा सर्वे राक्षसा वानरास्तदा ।
प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि ]॥ १६ ॥
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ।
दृष्ट्वाऽभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।।
[ राघवः परमां प्रीतिमाजगाम सलक्ष्मणः] ॥ १७ ॥
लङ्कायामित्यादिसार्धश्लोक एकान्वयः । अनेन रामनिदेशानन्तरमेव लक्ष्मणो विभीषणादिभिः सह लङ्कां प्रविष्टवानित्यवगम्यते । मन्त्रदृष्टेन मन्त्रेषु वेदेषु दृष्टेन स्पष्टमवगम्यमानेन विधिना प्रकारेण । शुद्धामानमित्यनेन रामाज्ञया अभिषेकमङ्गीकृतवान् । परमार्थस्तु रामकैङ्कर्य एवासक्तोभूदित्यवगम्यते । आज्ञाकैङ्कर्य हि कर्तव्यं ॥ १५ – १७ ।।
स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः ।
प्रकृती: सान्त्वयित्वा च ततो राममुपागमत् ॥ १८ ॥
अक्षतान्मोद काँल्लाजान्दिव्याः सुमनसस्तदा ।
आजह्नुरथ संहृष्टाः पौरास्तस्मै निशाचराः ॥ १९ ॥
प्रकृती: अमात्यप्रभृतीन् । सान्त्वयित्वा पुत्रमित्रादिविनाशजशोकापनोदनं कृत्वा । राममुपागमत् । लक्ष्मणेन सहेति शेषः ॥ १८–१९ ॥
स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥ २० ॥
मङ्गलमर्हतीति मङ्गस्यं । मङ्गलप्रयोजनमित्यर्थः । मङ्गलं हरिद्रादिमङ्गलद्रव्यं । सर्वे उक्ताक्षतादिभिन्नं । रामाय लक्ष्मणाय च न्यवेदयत् ।। २० ।।
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।
प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया ॥
[ तत्प्रगृह्य परां प्रीतिं जगाम सहलक्ष्मणः ] ॥ २१ ॥
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ।
अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ॥ २२ ॥
तस्यैव प्रियकाम्यया न तु स्वभोगेच्छया ॥ २१-२२ ॥
अनुमान्य महाराजमिमं सौम्य विभीषणम् ।
[ प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम् ] ॥ २३ ॥
गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ।
प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ॥ २४ ॥
वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।
आचक्ष्व जयतांश्रेष्ठ रावणं च मया हतम् ॥ २५ ॥
प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।
प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि ॥ २६ ॥
अनुमान्येत्यादिसार्धश्लोकत्रयमैकान्वयं । विभीषणमनुमान्य लङ्कां गच्छ । विभीषणमनुज्ञाप्य रावणगृहं प्रविश्य । विजयेन विजयकथनेन । अभिनन्द्य सीतां तोषयित्वा । वैदेह्यै मां कुशलिनमाचक्ष्वेति संबन्धः । संदेशं सीतावाचिकं ॥ २३-२६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥