श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवतितमः सर्गः
विभीषणेन्द्रजितोर्युद्धम् ॥ १ ॥ हनुमदादीनांराक्षसैस्सहमहायुद्धम् ॥ २ ॥ पुनर्लक्ष्मणेन्द्र -जितोर्युद्धम् ॥ ३ ॥ लक्ष्मणेनेन्द्रजिरसारथिवधः ॥ ४ ॥ प्रमाथिप्रमुखवानरैर्हयहननपूर्वकमिन्द्र जिद्रथविमथनम् ॥ ५ ॥
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ ।
प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ ॥ १ ॥
तौ द्रष्टुकामः संग्रामे परस्परगतौ बली ।
शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥ २ ॥
अथेन्द्रजितो रथभङ्गः–युध्यमानौ त्वित्यादिलोकद्वयमेकान्वयं ॥ प्रभिन्नौ मत्तमातङ्गाविव परस्परगतौ परस्परं युद्धार्थं सङ्गतौ । तौ लक्ष्मणेन्द्रजितौ प्रथमं द्रष्टुकामः स विभीषणस्तौ दृष्ट्वा संग्राममूर्धनि योद्धुं तस्थावित्यन्वयः । स्वयं प्रथमं युद्धं कर्तुमुद्युक्तोपि तयोर्बलाधिक्यं द्रष्टुं तूष्णीं स्थितः । तयोर्बलतौल्ये दृष्टे स्वस्य रामविषयकिञ्चित्कारार्थमिदानीं युद्धाय तस्थावित्यर्थः ॥ १-२ ॥
ततो विस्फारयामास महद्धनुरवस्थितः ।
उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् ॥ ३ ॥
धनुः तादात्विकं किंचित् । विभीषणस्य केवलगदापाणित्वात् ।। ३ ।।
ते शराः शिखिसंकाशा निपतन्तः समाहिताः ।
राक्षसान्दारयामासुर्वज्राणीव महागिरीन् ॥ ४ ॥
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः ।
चिच्छिदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः ॥ ५ ॥
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः ।
बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ॥ ६ ॥
ततः संचोदयानो वै हरीन्रक्षोरणप्रियान् ।
उवाच वचनं काले कालज्ञो रक्षसां वरः ।। ७ ।।
वज्राणि अशनयः ॥ ४–७ ॥
एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः ।
एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥ ८ ॥
अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि ।
रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ॥ ९ ॥
परायणं गति: ।। ८ – ९ ।।
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः ।
कुम्भकर्णश्च कुम्भश्व धूम्राक्षश्च निशाचरः ॥ १० ॥
जम्बुमाली महामाली तीक्ष्णवेगोशनिप्रभः ।
सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ॥ ११ ॥
संह्रादी विकटो निघ्नस्तपनो दम एव च ।
प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ॥ १२ ॥
अग्निकेतुश्च दुर्घर्षो रश्मिकेतुश्च वीर्यवान् ।
विद्युजिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ॥ १३ ॥
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः ।
कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ॥ १४ ॥
उक्ताननुक्तांश्च राक्षसान् युद्धे हतान्कांश्चित्परिगणयत्युत्साहनाय – प्रहस्त इत्यादिना श्लोकपञ्चकेन ॥ अकम्पन: कम्पनश्च राक्षसौ सर्वत्र निहत इत्यनेनान्वयः । देवान्तकनरान्तकावित्यत्र निहताविति विपरिणामः कार्यः ॥ १०–१४ ॥
एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् ।
बाहुभ्यां सागरं तीर्त्वा लङ्घयतां गोष्पदं लघु ॥ १५ ॥
एतान् राक्षससत्तमान् निहत्य स्थितानां भवतां इन्द्रजितो हननं, बाहुभ्यां सागरं तीर्त्वा स्थितस्य पुंसो गोष्पदतरणमिव सुकरमिति निदर्शना । बाहुभ्यां सागरं तीर्त्वेव एतानतिबलान् बहून् राक्षससत्तमान् निहत्य स्थितैः भवद्भिः गोष्पदमिव लघु इन्द्रजिद्धननरूपं स्वल्पं कार्यं लङ्घतामित्यन्षयः ॥ १५ ॥
एतावदेव शेषं वो जेतव्यमिह वानराः ।
हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥ १६ ॥
एतावदेव इन्द्रजिन्मात्रमेव ॥ १६ ॥
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम ।
घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥ १७ ॥
जनितुः जनयितुः । पितृव्यस्येत्यर्थः ॥ १७ ॥
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति ।
तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ।
वानरा घ्नत संभूय भृत्यानस्य समीपगान् ॥ १८ ॥
इति तेनातियशसा राक्षसेनाभिचोदिताः ।
वानरेन्द्रा जहृपिरे लाङ्गूलानि च विव्यधुः ॥ १९ ॥
ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः ।
मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः ॥ २० ॥
जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः ।
अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ॥ २१ ॥
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः ।
परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः ॥ २२ ॥
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः ।
जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ॥ २३ ॥
बाष्पं कर्तृ । चक्षुः निरुध्यति निरुणद्धि ॥ १८-२३ ॥
स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।
देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ॥ २४ ॥
यथा भीम इति । महास्वनो देवानां संप्रहारो यथा तथेत्यर्थः ॥ २४ ॥
हनुमानपि संक्रुद्धः सालमुत्पाट्य वीर्यवान् ।
[ स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः ॥ ]
रक्षसां कदनं चक्रे समासाद्य सहस्रशः ॥ २५ ॥
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि ।
लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ॥ २६ ॥
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ ।
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ॥ २७ ॥
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ।
चन्द्रादित्याविवोष्णान्ते यथा मेधैस्तरस्विनौ ॥ २८ ॥
हनुमानिति । अत्र हनुमतो युद्धकथनात् किंचिद्विश्रमार्थं तस्य पृष्ठावरूढो लक्ष्मण इत्यवगम्यते । सहस्रशः कदनमित्यन्वयः ॥ २५-२८ ।।
न ह्यादानं न संधानं धनुषो वा परिग्रहः ।
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ॥ २९ ॥
न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् ।
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥ ३० ॥
न ह्यादानमित्यादिश्लोकद्वयमेकान्वयं ॥ आदानं बाणस्य तूणादुद्धरणं । संधानं उद्धृतस्य बाणस्य धनुष्यवस्थापनं । धनुषो वा परिग्रहः सव्यापसव्यत्वेन कार्मुकग्रहणं । बाणानां विप्रमोक्षः विसर्जनं । विकर्षः आकर्णग्रहणं । विग्रहः आलीढाद्यवस्थानविशेषः, सावष्टम्भावस्थानं वा, धनुर्ज्यादीनां प्रविभागो वा । विग्रह: समरे काये विरोधप्रविभागयोः इति विश्वः। मुष्टिप्रतिसंधानं ज्याकार्मुकयोर्मुष्टिबन्धनं । लक्ष्यप्रतिपादनं लक्ष्यप्रापणं । लक्ष्यवेध इति यावत् ।। २९-३० ।।
चापवेगविनिर्मुक्तबाणजालैः समन्ततः ।
अन्तरिक्षे हि संछन्ने न रूपाणि चकाशिरे ॥ ३१ ॥
रूप्यन्त इति रूपाणि वस्तूनि । बाणव्यतिरेकेण न किंचित्तदानीं दृश्यत इति भावः॥ ३१ ॥
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् ।
अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ॥ ३२ ॥
ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः ।
निरन्तरमिवाकाशं बभूव तमसाऽऽवृतम् ॥ ३३ ॥
लक्ष्मण इति ।। लोकव्यवहारानुसारेणात्र क्रियाकारकसंबन्धः । लक्ष्मणो रावणिं रावणिश्चापि लक्ष्मणं प्राप्य ताभ्यामन्योन्यविग्रहे अन्योन्याभिभवे । उग्रा अव्यवस्था भवति । अन्योन्यप्राप्तावयमेनं निगृह्णाति अयं वा एनमिति निश्चयो नाभवदित्यर्थः । यद्वा रावणिं लक्ष्मणो रावणिश्चापि लक्ष्मणं प्राप्य अयुध्येतामिति शेषः । ताभ्यां तथा युद्धं कुर्वद्भ्यां । अन्योन्यविग्रहे परस्परप्रहारे क्रियमाणे । उग्रा अव्यवस्था भवति । क्षणे क्षणे जयपराजयनियमो नाभूदित्यर्थः ॥ ३२–३३ ॥
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः ।
दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः ॥ ३४ ॥
तमसा संवृतं सर्वमासीद्भीमतरं महत् ।
अस्तं गते सहस्रांशी संवृतं तमसेव हि ॥ ३५ ॥
तैः पतद्भिरित्यादिश्लोकद्वयमेकान्वयं ।। शरशतैः निमित्तभूतैः । महत् अत्यन्तं ॥ ३४-३५ ।।
रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः ।
क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्स्वनम् ॥ ३६ ॥
चिक्षिपुः चक्रुः ॥ ३६ ॥
न तदानीं ववौ वायुर्न च जज्वाल पावकः ।
स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ।
संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः ॥ ३७ ।।
अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् ।
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥ ३८ ॥
अत्र युद्धस्थले । पूर्वं संप्राप्ताः गन्धर्वा: चारणैः सह संपेतुः । अन्यत्र गता इत्यर्थः । अतिघोरयुद्धदर्शनभयादिति भावः ॥ ३७-३८ ॥
ततोऽपरेण भल्लेन शितेन निशितेन च ।
संपूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ॥ ३९ ॥
महेन्द्राशनिकल्पेन स्रुतस्य विचरिष्यतः ।
स तेन बाणाशनिना तलशब्दानुनादिना ।
लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् ॥ ४० ॥
स यन्तरि महातेजा हते मन्दोदरीसुतः ।
स्वयं सारथ्यमकरोत्पुनश्च धनुरस्पृशत् ।
तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि ॥ ४१ ॥
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः ।
धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् ॥ ४२ ॥
ततोऽपरेणेत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ संपूर्णायतमुक्तेन संपूर्णाकृष्टमुक्तेन ॥ ३९-४२ ॥
छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः ।
अर्दयामास बाणौघैर्विचरन्तमभीतवत् ॥ ४३ ॥
छिद्रेषु रन्ध्रेषु । बाणेषु बाणप्रयोगेषु । शीघ्रविक्रम इत्यन्वयः ॥ ४३ ॥
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः ।
प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ।। ४४ ॥
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः ।
ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ॥ ४५ ॥
ततः प्रमाथी शरभो रभसो गन्धमादनः ।
अमृष्यमाणाचत्वारश्चक्रुर्वेगं हरीश्वराः ॥ ४६ ॥
समरोद्धर्षं युद्धगर्वं ।। ४४ – ४६ ॥
ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः ।
चतुर्षु समहावीर्या निपेतुर्भीमविक्रमाः ॥ ४७ ॥
समहावीर्याः महावीर्यसहिताः ॥ ४७ ॥
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः ।
मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत ।
ते हया मथिता भग्ना व्यसवो धरणीं गताः ॥ ४८ ॥
ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ।
पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ॥ ४९ ॥
स हताश्वादवप्लुत्य रथान्मथितसारथेः ।
शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥ ५० ॥
रक्तं शोणितं ॥ ४८-५० ।।
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः ।
सृजन्तमाजौ निशिताञ्शरोत्तमान्भृशं तदा बाणगणैर्न्यवारयत् ॥ ५१ ॥
पदातिनं पदाभ्यामापतन्तं गच्छन्तं । अत सातत्यगमने इत्यस्माण्णिनिः ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवतितमः सर्गः ॥ ९० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवतितमः सर्गः ॥ ९० ॥