श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशत्युत्तरशततमः सर्गः
महेश्वरेण रामप्रशंसनपूर्वकंतंप्रति विमानस्थदशरथप्रशंसनेन तन्नमनचोदना ॥ १ ॥ दशरथेन स्वप्रणामिनोरामस्याङ्कारोपणेन सप्रशंसनपरिष्वङ्गमाशीर्वचनम् ॥ २ ॥ तथा रामप्रार्थनया कैकेयीशापापवदनपूर्वकं सीतालक्ष्मणौप्रति सप्रशंसनं रामसेवानुशासनेन स्वर्गगमनम् ॥ ३ ॥
एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् ।
इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥ १ ॥
देवकार्यस्य कृतत्वात्रिदिवमाक्रमेति ब्रह्मणोक्तत्वाल्लोके धर्मसंस्थापन परं रामहृदयं जानन् रुद्रस्तदनुमन्यते – एतच्छ्रुत्वेत्यादि ॥ १ ॥
पुष्कराक्ष महाबाहो महावक्षः परन्तप ।
दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतांवर ॥ २ ॥
पुष्कराक्ष पुण्डरीकाक्ष । अनेन तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी, पुरुष: पुण्डरीकाक्ष इति श्रुतिस्मृतिभ्यामुदीरितस्य परब्रह्मासाधारणचिह्नस्य रामेरुद्रेण प्रति पादनाद्रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यं परब्रह्मेत्युक्तं । श्रीनिवासत्वेन महावक्षस्त्वं । दिष्ट्या भाग्येन । अस्माकमिति शेषः ॥ २ ॥
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।
अपावृत्तं त्वया संख्ये राम रावणजं भयम् ॥ ३ ॥
उक्तमेव विवृणोति – दिष्ट्येति ॥ सर्वस्य लोकस्य रावणजं भयमेव प्रवृद्धं तमः अपावृत्तं निरस्तं ॥ ३ ॥
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ।
कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥ ४ ॥
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ।
इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ॥ ५ ॥
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ।
ब्राह्मणेभ्यो धनं दत्वा त्रिदिवं गन्तुमर्हसि ॥ ६ ॥
आश्वास्येत्यादिश्लोकत्रयमेकान्वयं ॥ यशस्विनीमिति कैकेयीविशेषणं । तन्मूलत्वाद्रावणवधस्य तस्या यशस्वित्वं । लक्ष्मणमातरमित्यनेन सा लक्ष्मणस्नेहाद्विशेषतो वन्द्येत्युक्तं । अयोध्यायां सुहृज्जनं नन्दयित्वेत्यन्वयः । वंशं पुत्रपौत्रादिपरम्परां । इक्ष्वाकूणां कुले इक्ष्वाकुकुलनिमित्तं । स्थापयित्वा । प्राप्य चानुत्तमं यश इति तुरगमेधफलोक्तिः । आश्वास्येत्यादिना दशवर्षसहस्राणि दशवर्षशतानि च । वत्स्यामि मानुषे लोके इत्यवतारात्पूर्वं तत्कृतां प्रतिज्ञामनुसृत्यरुद्रेणोक्तं ॥ ४-६ ॥
एष राजा विमानस्थः पिता दशरथस्तव ।
काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥ ७ ॥
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः ।
लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥ ८ ॥
महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ।
विमान शिखरस्थस्य प्रणाममकरोत्पितुः ॥ ९ ॥
दीप्यमानं स्वया लक्ष्म्या विरजोम्बरधारिणम् ।
लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः ॥ १० ॥
एष इत्यादिश्लोकद्वयमेकान्वयं ॥ देवदेहपरिग्रहेणापरिज्ञायमानत्वात् पुरस्थितोप्येष इत्यङ्गुल्या निर्दिश्यते । मानुषेलोके गुरुरित्यनेन पिता पुत्रेण पितृमान् योनियोनौ इति श्रुतिरुपबृंहिता ॥ ७-१० ॥
हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः ।
प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ॥ ११ ॥
आरोप्याङ्कं मैहाबाहुर्वरासनगतः प्रभुः ।
बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे ॥ १२ ॥
हर्षेणेत्यादिश्लोकद्वयमेकान्वयं ॥ पुत्रं रामं ।। ११-१२ ।।
न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः ।
त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥ १३ ॥
अद्य त्वा निहतामित्रं दृष्ट्वा संपूर्णमानसम् ।
निस्तीर्णवनवासं च प्रीतिरासीत्परा मम ॥ १४ ॥
सुरर्षिभिः संमानः देवर्षिभिः संमानोपि ।। १३-१४ ॥
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ।
तव प्रवाजनार्थानि स्थितानि हृदये मम ॥ १५ ॥
हृदये स्थितानि । न विस्मरामीत्यर्थः । तेन दुःखितोभूवमिति सूचितं ॥ १५ ॥
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।
अद्य दुःखाद्विमुक्तोस्मि नीहारादिव भास्करः ॥ १६ ॥
सलक्ष्मणमित्यनेन द्वितीयपरिष्वङ्गे लक्ष्मणोपि विषयीकृत इत्युच्यते ॥ १६ ॥
तारितोहं त्वया पुत्र सुपुत्रेण महात्मना ।
अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥ १७ ॥
तारितोहं त्विति ॥ कहोलो नाम ऋषिरष्टावक्रेण तारित इतीयं कथा भारतोक्ता ।। १७ ।।
इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः ।
वधार्थं रावणस्येदं विहितं पुरुषोत्तम ॥ १८ ॥
रावणस्य वधार्थं सुरेश्वरैरिदमभिषेकविघ्नादिकं कर्म यथा विहितं तथा इदानीमेव जानामि । पुरुषोत्तमेत्यनेन भवान्विष्णुरेव रावणवधार्थं मनुष्यत्वंगत इत्युच्यते ॥ १८ ॥
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् ।
वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ॥ १९ ॥
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ।
जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ॥ २० ॥
सिद्धार्था कृतार्था । मम स्वर्गसुखादपि तस्याः सुखमधिकमिति भावः। ॥ १९-२० ।।
अनुरक्तेन बलिना शुचिना धैर्मचारिणा ।
इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ॥ २१ ॥
चतुर्दश समाः सौम्य वने निर्यापितास्त्वया ।
वसता सीतया सार्धं लक्ष्मणेन च धीमता ॥ २२ ॥
निवृत्तवनवासोसि प्रतिज्ञा सफला कृता ।
रावणं च रणे हत्वा देवास्ते परितोषिताः ॥ २३ ॥
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन ।
भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ॥ २४ ॥
अनुरक्तेनेति ॥ अवश्यं राम भरतं प्राप्नुहीति भावः ।। २१ -२४ ॥
कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ।
सपुत्रां त्वां त्यजामीति यदुक्ता केकयी त्वया ॥ २५ ॥
कैकेय्या भरतस्य च कैकेय्यां भरते चेत्यर्थः । संबन्धसामान्ये षष्ठी । यस्मादुक्ता तस्मात् प्रसादं कुर्विति संबन्धः ॥ २५ ॥
स शापः केकयीं घोरः सपुत्रां न स्पृशेत्प्रभो ॥ २६ ॥
स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् ।
लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥ २७ ॥
स शाप इत्यर्धमेकं वाक्यं ॥ शाप: संबन्धविच्छेदरूपः ॥ २६–२७ ।।
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।
कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥ २८ ॥
सीतया सह रामं शुश्रूषतेत्यन्वयः ॥ २८ ॥
धर्म प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ।
रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ॥ २९ ॥
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।
रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥ ३० ॥
स्वर्गं सुखं । लक्ष्मणस्यापि विष्ण्ववतारत्वं न जानाति दशरथः । महिमानं महत्त्वं ।। २९-३० ॥
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः ।
अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥ ३१ ॥
रामस्य सर्वोत्तमत्वं शिष्टाचारेण दर्शयति – एत इति । अर्चन्तीतिणिजभाव आर्ष: । एत इति हस्तनिर्देशन रुद्रोप्यन्तर्गतः ॥ ३१ ॥
एतत्तदुक्तममव्यक्तमक्षरं ब्रह्मे निर्मितम् ।
देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ॥ ३२ ॥
अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ।
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।। ३३ ॥
स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् ।
उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ॥ ३४ ॥
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।
रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ॥ ३५ ॥
[ सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम् ।
कृतं यत्तेऽन्यनारीणां यशो ह्यभिभविष्यति ] ॥ ३६ ॥
देवानां हृदयं सर्वदेवान्तर्यामी । वेदानामिति पाठे वेदतात्पर्यभूतं । उभयथाप्यनीन्द्रादिरूपेण सर्वकर्मसमाराध्यमित्यर्थः । गुह्यं साक्षादुपनिषद्वेयं । अव्यक्तं भक्तिशून्यैर्दुर्ज्ञेयं । अक्षरं षड्भावविकाररहितं । तदेतत् ब्रह्म रामः रामरूपेण निर्मितं । रामरूपेणावतीर्णं । इति उक्तं । ब्रह्मादिभिरिति शेषः ॥ ३२-३६ ॥
न त्वं सुभ्रु समाधेया पतिशुश्रूषणं प्रति ।
अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥ ३७ ॥
इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् ।
इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥३८॥
[ विमानमास्थाय महानुभावः श्रिया च संहृष्टतनुर्नृपोत्तमः ॥
आमन्त्र्य पुत्रौ सह सीतया च जगाम देवप्रवरस्य लोकम् ॥ ३९ ॥ ]
न समाधेया नोपदेटव्या ॥ ३७–३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशत्युत्तरशततमः सर्गः ॥ १२२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वाविंशत्युत्तरशततमः सर्गः ॥ १२२ ॥