श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः
सुग्रीवनियोगेन वानरैरात्रौलङ्कादहनम् ॥ १ ॥ ततोरावणाज्ञयाकुंभकर्णात्मजाभ्यां -कुंभनिकुंभाभ्यां यूपाक्षादिभिः सेनयाचसह वानरान्प्रतिरणायनिर्याणम् ॥ २ ॥ वानरराक्षस सैन्ययोर्महायुद्धम् ॥ ३ ॥
ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः ।
अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ॥ १ ॥
एवं हनुमदानीतौषधिपर्वतगन्धमात्रेण समागतप्राणेषु सर्वेषु विशल्येषु समुत्थितेषु सुग्रीवः स्वातिसन्धानजनितकोपातिरेकेण सद्यो निःशेषं लङ्कानिर्दहनं हनुमते नियमयति – तत इत्यादि । अर्थ्यं अर्थादनपेतं । प्रयोजननियतं वाक्यं विज्ञापयन् । रामायेति शेषः । ततो हनुमन्तमब्रवीदिति योजना । यद्वा अर्थ्यं विज्ञापयन् विशेषेण ज्ञापयन् ॥ १ ॥
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः ।
नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥ २ ॥
इदानींलङ्कादाहोपदेशे निमित्तमाह – यत इति । उपनिर्हारं उपनिष्क्रमणं । युद्धाय निर्गमनमिति यावत् । हतपुत्रादित्वेनानुत्साहाद्रावणो न निर्गमिष्यतीति भावः । अत्र आग्रहेण प्रेतनिर्यापनरूढ निर्हारपदप्रयोगः । दातुं कर्तुमिति यावत् । धातूनामनेकार्थत्वात् । उपनिर्हारशब्द: उपनिष्क्रम्य युद्धपरो वा ॥ २ ॥
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः ।
लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ।
[हरयो हरिसंकाशाः प्रदग्धुं रावणालयम् ॥ ३ ॥]
लघवः वेगवन्तः । उत्पतन्तु प्राकारमुत्प्लुत्य गच्छन्तु ॥ ३ ॥
ततोस्तंगत आदित्ये रौद्रे तस्मिन्निशामुखे ।
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ४ ॥
ततइति । ननु पूर्वमुल्काहस्तौ तदा रात्रावित्युक्तं । अत्र आदित्यास्तमयसमय इति गम्यते अतो विरुद्धमिति चेन्नविरोध: । आदित्येस्तं गत इति प्रकाशाभावोक्तिः । निशामुख इति रात्रेः प्रथमयाम उच्यते रौद्र इति विशेषणात् यामान्तत्वेन गाढान्धकारत्वमुच्यते । हनुमांश्च महाद्भुतवेगशालितया मुहूर्तमात्रेण प्रस्थायौषधिपर्वतमानीय तं पुनस्तत्र निक्षिप्यागतवानिति तस्य वेगातिशयश्च प्रतिपादितो भवति ॥ ४ ॥
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ।
आरक्षस्था विरूपाक्षाः सहसा विमदुद्रुवुः ॥ ५ ॥
आरक्षस्था: गुल्मस्था: नगररक्षिणो वा । आरक्षो दुर्गरक्षिणां स्थानं । तत्रस्था वा । त्रिष्वारक्षस्तु रक्षणे इति रत्नमाला । विरूपाक्षाः राक्षसाः ॥ ५ ॥
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च ।
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ।
तेषां गृहसहस्राणि ददाह हुतभुक्तदा ॥ ६ ॥
गोपुरं पुरद्वारं । अट्टन्ति हिंसन्ति योधा एषु स्थित्वेत्यट्टाः प्राकाराग्रस्थितगृहाणि । स्यादट्टः क्षौममस्त्रियां इत्यमरः । प्रतोल्य: वीथ्यः । चर्या: अवान्तरवीध्यः । ते वानराः । ससृजुः क्षिप्तवन्तः । तेषां वानराणां संबन्धी हुतभुगित्यन्वयः ॥ ६ ॥
प्रासादाः पर्वताकाराः पतन्ति धरणीतले ।
अगरुर्दह्यते तत्र वरं च हरिचन्दनम् ॥ ७ ॥
दहनकार्यं प्रपञ्चयति – प्रासादा इत्यादि । तत्र प्रासादेषु । दह्यते अदह्यत । व्यत्ययेन भूतार्थे लट् । वरं सुगन्धं ॥ ७ ॥
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम् ।
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ॥ ८ ॥
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् ।
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ ॥ ९ ॥
गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः ।
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ॥ १० ॥
खड्गा धनूंषि ज्या बाणास्तोमराङ्कुशशक्तयः ।
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ॥ ११ ॥
मौक्तिका इत्यादिचतुःश्लोक्येकान्वया ।। सर्वत्र अदह्यतेत्यस्य यथायथं विपरिणामेनान्वयः । मणयः उपात्तमौक्तिकादिव्यतिरिक्ताः । क्षौमकौशेययोरुपादानभेदात् भेदः । वाल्कं क्षौमादि । कौशेयं कृमिकोशोत्थं इत्युभयत्राप्यमरः । शोभनं शोभमानं । आविकं अविरोमनिर्मितं कम्बलं । और्णं मेषादिरोमनिर्मितं कम्बलं ऊर्णा मेषादिलोम्नि स्यात् इत्यमरः । भाण्डं उपकरणं । आभरणादि वा भाण्डं तु भूषायां नादे पात्राश्वभूषयोः । मार्जने कलशादौ च वणिङ्मूलधनेपि च इति रत्नमाला । नानाविकृतसंस्थानं नानाविधविकारवद्विचित्रसन्निवेशमिति भूषणादिसर्वविशेषणं । वाजिभाण्डपरिच्छदौ अश्वालंकारपल्ययनादिपरिबर्हौ । भाण्डशब्देनैवाश्वाभरणसिद्धावपि कर्णावतंसादिवत् साहित्यबोधनार्थं वाजिपदं । गजानां ग्रैवेयकानि कण्ठभूषणानि । कक्ष्याः इभबन्धिन्यः । ग्रैवेयकं कण्ठभूषा । कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने इत्युभयत्राप्यमरः । संस्कृताः उत्तेजिताः । योधानां तनुत्राणि वर्माणि । हस्त्यश्वानां वर्म अयःकांस्यादिनिर्मितं । रोमजं अविमेषादिरोमभिन्नरोमनिर्मितं कम्बलादि । वालजं चामरादि । चर्मसंस्तरणं खेटकं वा । व्याघ्रजं वैयाघ्रनखवालादि । अण्डजं कस्तूरिकादिद्रव्यं ॥ ८-११ ।।
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः ।
विविधानस्रसंयोगानग्निर्दहति तत्र वै ॥ १२ ॥
प्रासादाः पर्वताकारा इत्यत्र केवलप्रासादाः । अत्र मुक्तादिखचिताः । अस्त्रसंयोगान् संयुज्यन्त इति संयोगाः सङ्घाता: तान् । तत्र लङ्कायां ।। १२ ।।
नानाविधान्गृहच्छन्दान्ददाह हुतभुक्तदा ।
आवासान्राक्षसानां च सर्वेषां गृहगर्धिनाम् ॥ १३ ॥
गृहच्छन्दान् स्वस्तिकादिगृहविन्यासान् । गृहगर्धिनां गृहस्थानां ॥ १३ ॥
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् ।
शीधुपानचलाक्षाणां मदविह्वलगामिनाम् ॥ १४ ॥
कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् ।
गदाशूलासिहस्तानां खादतां पिवतामपि ॥ १५ ॥
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ।
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ॥ १६ ॥
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् ।
अदहत्पावकस्तत्र जज्वाल च पुनः पुनः ॥ १७ ॥
हठोपनतत्वेन खेदातिशयं व्यञ्जयितुं तेषां व्यासङ्गं दर्शयति – हेमेत्यादिना ॥ हेमचित्रतनुत्राणां हेममयाद्भुतवर्मणां । आलेख्याश्चर्ययोश्चित्रं इत्यमरः । वर्मग्रहणव्यासक्तानामित्यर्थः । स्रुग्दामानि पुष्पमाला: । दामशब्दो हारपरः । स्रग्दामशब्देनानेकसरनिर्मितपुष्पमालोच्यत इत्याचार्या: । अत्र सर्वत्रापि व्यासङ्ग एव तात्पर्यं । शीधुपानचलाक्षाणां मद्यपानलोलदृष्टीनां । अतएव मदविह्वलगामिनां मदेन मन्दगामिनां । कान्तालम्बितवस्त्राणां आलम्बितवस्त्रकान्तानां । रतिपराणामिति यावत् । शत्रुषु संजातमन्युनां संजातक्रोधानां । दीर्घाभाव आर्ष: । खादतां मांसादिकं भक्षयतां । पिबतां मद्यपानं कुर्वतां । शीधुपानेत्यत्र मद्यपानकार्यमुक्तं । क्षीरादिकं पिबतामिति वा । महार्हेष्विति विशेषणेन सुप्त्यतिशयहेतुरुक्तः । प्रियैः दारैरिति विशेष्यं । तेषां एवं व्यासक्तानां । शतसहस्राणीति संख्यासंख्येययोरभेदेन निर्देशः । अनेकशतसहस्रराक्षसानित्यर्थः । पुनः पुनरित्यनेन तद्रुधिरवसास्नेहेनाधिकज्वालोच्यते ॥ १४–१७ ॥
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ।
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ॥ १८ ॥
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ।
मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ॥ १९ ॥
क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ।
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः ॥ २० ॥
रावणस्य पुनर्धननाशं व्यञ्जयितुमुत्तमगृहदहनं दर्शयति — सावन्तीत्यादिना सारवन्ति श्रेष्ठधनवन्ति । सारो बले स्थिरांशेर्थे पुमान्याये वरे त्रिषु इति रत्नमाला । गम्भीराणि महातल्पवन्ति । गुणवन्ति सौन्दर्यवन्ति । हेमचन्द्रार्धचन्द्राणि हेमकृतानि चन्द्राकाराण्यर्धचन्द्राकाराणि चेत्यर्थः । चन्द्रशालाभि: शिरोगृहै: उन्नतानि । चन्द्रशाला शिरोगृहं इत्यमरः । साधिष्ठानानि शय्यासनादिसहितानि । स्पृशन्तीव दिवाकरं । सूर्यपथपर्यन्तोन्नतानीत्यर्थः । क्रौञ्चादयो लीलार्थं गृहेषु संवर्धिताः ।। १८-२० ।।
ज्वलनेन परीतानि तोरणानि चकाशिरे ।
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ॥ २१ ॥
घर्मोस्माद्गच्छतीति घर्मग: वर्षाकाल इत्यर्थ: । घर्मगे निदाघे गच्छतीति शेष इत्यप्याहुः । घर्मशब्देन घर्मान्तो लक्ष्यते । तं गच्छति प्राप्नोतीति घर्मग: वर्षादिरित्यपरे । वस्तुतो घर्मगे ग्रीष्म इत्येवार्थः । लङ्कायां दह्यमानायां सन्तापे च समन्ततः प्रसरति दह्यमानतोरणादीनि निदाघप्ररूढसविद्युन्मेघतुल्यानीत्यर्थः ॥ २१ ॥
ज्वलनेन परीतानि निपेतुर्भवनान्यथ ।
वज्रिवज्रहतानीव शिखराणि महागिरेः ॥ २२ ॥
ज्वलनेन परीतानि निपेतुरित्यस्य वज्रिवज्रहतानीवेत्युत्तरार्धं ॥ २२ ॥
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ।
त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ॥ २३ ॥
त्यक्ताभरणसर्वाङ्गाः सर्वाङ्गाभरणान्यपि त्यक्त्वेत्यर्थः ॥ २३ ॥
तानि निर्दयमानानि दूरतः प्रचकाशिरे ।
हिमवच्छिखराणीव दीप्तौषधिवनानि च ॥ २४ ॥
तानि पूर्वश्लोके प्रस्वापाधिकरणतयोपात्तानि विमानानि । दीप्तौषधिवनानि प्रकाशिततृणज्योतिर्वनानि ॥ २४ ॥
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ।
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ॥ २५ ॥
ज्वालाप्रज्वलितैः ज्वालाविशिष्टैरित्यर्थः ॥ २५ ॥
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ।
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ २६ ॥
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतोपसर्पति ।
भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥ २७ ॥
हस्त्यध्यक्षैः हस्तिपकैः । मुक्तैः निगलान्मोचितैः । मुक्तैश्च तुरगैरपीत्यत्राप्यश्वाध्यक्षै -रित्यध्याहार्यं । लोकान्ते प्रलये ॥ २६–२७ ॥
लङ्कायां दह्यमानायां शुशुभे स महार्णवः ।
छायासंसक्तसलिलो लोहितोद इवार्णवः ॥ २८ ॥
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी ।
लोकस्वास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ॥ २९ ॥
छायासंसक्तसलिल : प्रतिबिम्बसंक्रान्तजल: । लोहितोदकः । उदादेश आर्षः ॥ २८-२९ ॥
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ।
स्वनो ज्वलनतप्तस्य शुभुवे दशयोजनम् ॥ ३० ॥
प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः ।
सहसाऽभ्युत्पतन्ति स्म हरयोथ युयुत्सवः ॥ ३१ ॥
नारीति । नारीजनस्यातिसाहसिकत्वाद्दशयोजनस्वनश्रवणं ॥ ३०-३१ ।।
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः ।
दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ॥ ३२ ।।
उद्घृष्टं उद्घोषः । भावे क्तः ॥ ३२ ॥
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ।
असंभ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ॥ ३३ ॥
विशल्यौ निर्गलितशरीरनिमग्नशरफलकौ । तदोभे धनुषी वरे इति पाठः ॥ ३३ ॥
ततो विष्फारयानस्य रामस्य धनुरुत्तमम् ।
बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥ ३४ ॥
विष्फारयानस्य ध्वनयतः विष्फारो धनुष: स्वानः इत्यमरः । स्फुरतिस्फुलत्योर्निर्निविभ्यः इति षत्वं । मुगभाव आर्षः ॥ ३४ ॥
अशोभत तदा रामो धनुर्विष्फारयन्महत् ।
भगवानिव संक्रुद्धो भवो वेदमयं धनुः ॥ ३५ ॥
वेदमयं धनुः वेदोक्तलक्षणं धनु: । कृत्तिवासाः पिनाकी इति श्रुत्या प्रतिपादितमहिमेति वाऽर्थः ॥ ३५ ॥
उद्धुष्टं वानराणां च राक्षसानां च निस्स्वनम् ।
ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ॥ ३६ ॥
रामस्य ज्याशब्द: वानराणामुद्ध्रुष्टं राक्षसानां निस्स्वनं च तावुभावतीत्य शुश्रुवे ॥ ३६ ॥
वानरोद्धुष्टघोषश्च राक्षसानां च निस्वनः ।
ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ ३७ ॥
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् ।
कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ॥ ३८ ॥
वानरोद्ध्रुष्टघोषः वानरोत्पादितघोषः ॥ ३७ – ३८ ॥
ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च ।
सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ ३९ ॥
तुमुलः अधिकः ॥ ३९ ॥
तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम् ।
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ ४० ॥
सन्नह्यमानानां कक्ष्याबन्धनादियुद्धसन्नाहं कुर्वतां । रौद्री प्रलयरात्रिः ।। ४० ।।
आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना ।
आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ॥ ४१ ॥
यश्च वो वितथं कुर्यात्तत्रतत्र ह्युपस्थितः ।
स हन्तव्यो हि संप्लुत्य राजशासनदूषकः ॥ ४२ ॥
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ।
स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ॥ ४३ ॥
आदिष्टा इत्यादिश्लोकद्वयमेकान्वयं ।। अन्ते इतिकरणं बोध्यं । व इति निर्धारणे षष्ठी वितथं कुर्यात् । मच्छासन मितिशेष: । आसन्नद्वारं रावणान्तःपुरासन्नमध्यकक्ष्याद्वारं । तत्रतत्र युद्धभूमौ उपस्थितः ॥ ४१ – ४३ ॥
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश ।
रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥ ४४ ॥
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ।
प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ॥ ४५ ॥
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा ।
निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ॥ ४६ ॥
जृम्भितविक्षेपात् गात्रविनामविस्तारात् । व्यामिश्राः व्याकुलाः । अभवन्निति शेष: । दिश: दिक्स्थिताः । रुद्रस्य कालाग्निरुद्रस्य गात्रे योरूपवान् मन्युः स इव रावणोलक्ष्यत ॥ ४४–४६ ॥
शशास चैव तान्सर्वान्राक्षसान्सुमहाबलान् ।
नादयन्गच्छताऽत्रैव जयध्वं शीघ्रमेव च ॥ ४७ ॥
अत्रैव अस्मिन्गृह एवारभ्य । सिंहनादं नादयन् नादयन्तः कुर्वन्तः । गच्छत । नादयन्नित्यत्र व्यत्ययो बहुलं इति बहुवचनविषये एकवचनं ॥ ४७ ॥
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ।
लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ॥ ४८ ॥
ज्वलितेति । आयुधानां ज्वलितवं युद्धयात्रासु शिक्षाविशेषप्रदर्शनातू । लङ्काया इति पञ्चमी ॥ ४८ ॥
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः ।
चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥ ४९ ॥
स्वाभिः स्वासाधारणीभिः । रक्षसां भूषणस्थाभिः भाभिश्च । व्योम सेनामध्याकाशं ॥ ४९ ॥
तत्र ताराधिपस्याभा ताराणां च तथैव च ।
तयोराभरणस्था च बलयोर्द्यामभासयन् ॥ ५० ॥
तदानीं चन्द्रोदयात्पुनः प्रकाशातिशयमाह — तत्रेति ॥ तत्र तदानीं । ताराधिपस्याभा ताराणां चाभा तयोर्बलयोराभरणस्था भा च द्यां आकाशं । अभासयन् ॥ ५० ॥
चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा ।
हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥ ५१ ॥
दह्यमानलङ्कागृहप्रकाशैः पुनरपि स प्रकाशोवर्धतेत्याह- चन्द्रेति ॥ ५१ ॥
तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः ।
भाभिः संसक्तपातालश्चलोर्मिः शुशुभेऽधिकम् ।। ५२ ।।
संसक्तपाताल: पातालपर्यन्तं संसक्तः ॥ ५२ ॥
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ।
भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ॥ ५३ ॥
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् ।
तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ॥ ५४ ॥
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ।
हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ॥ ५५ ॥
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ।
गन्धमाल्यमधूत्सेकसंमोदितमहानिलम् ।।
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ॥ ५६ ॥
पताकेत्यादिसार्धचतुःश्लोक्येकान्वया ॥ चलत्पटा पताका । मत्स्यादिचिह्नितं ध्वजं । उत्तमासिपरश्वधं । परश्वधोसिरूपः कुठाररूपञ्चास्ति । तत्रासिरूपपरश्वधोसिपरश्वधः । तेन वक्ष्यमाणयोः खड्गपरश्वधयोर्नपौनरुक्त्यं । ज्वलितप्रासमित्यत्र प्रासशब्दः क्षेप्तव्ये ह्रस्वकुन्ते वर्तते । तेन तस्यापि न पौनरुक्त्यं । पत्तयः पदातयः । तेषां नानात्वं वेषायुधादिभेदात् । प्रासस्य ज्वलितत्वं युद्धागमनसमये शिक्षाविशेषप्रदर्शकक्रियासंबन्धात् । किङ्किणीशतनादितं रथगजादिकिङ्किणीशतनादितं । हेमजालाचितभुजं हेमाभरणजालाबद्धभुजं । व्यावेष्टितपरश्वधं मदेन चालितपरश्वधं । शस्त्रं उक्तव्यतिरिक्तायुधं । बाणसंसक्तकार्मुकमिति । दीप्तशूलगदाखड्गप्रासतोमरकार्मुकमित्यत्र यत्पूर्वोक्तं कार्मुकं तद्भङ्गे पुनरादातुं पृष्ठे बद्धमपरमिदं कार्मुकमिति ज्ञेयम् । गन्धेति । गन्धः चन्दनादिः गन्धमाल्याभ्यां मधूत्सेकेन वीरपाणरूपमधुसेवनेन च संमोदितमहानिलं वासितमहावातं ॥ ५३–५६ ॥
तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ।
संचचाल प्लवङ्गानां बलमुच्चैर्ननाद च ॥ ५७ ॥
जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत् ।
अभ्ययात्प्रत्यरिबलं पतङ्गा इव पावकम् ।। ५८ ।।
आयान्तमिति पुंल्लिङ्गमार्षं । संचचाल अभिमुखं जगाम ॥ ५७-५८ ॥
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ।
राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ॥ ५९ ॥
तत्रोन्मत्ता इवोत्पेतुर्हरयोथ युयुत्सवः ।
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ॥ ६० ॥
तथैवापततां तेषां कपीनामसिभिः शितैः ।
शिरांसि सहसा जह्रु राक्षसा भीमेदर्शनाः ॥ ६१ ॥
दशनैर्ह्रतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः ।
शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ।। ६२ ॥
तेषामिति ॥ भुजपरामर्शव्यामृष्टपरिघाशनि सन्ततभुजस्पर्शेन उत्तेजितपरिघवज्रं ॥ ५९-६२ ।।
तथैवाप्यपरे तेषां कपीनामभिलक्षिताः ।
प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् ॥ ६३ ॥
[ अभिपेतुर्महाकायाः प्रतियुक्ता महाबलाः ।
राक्षसा वानरान्रोषादसिबाणगदाधराः ॥ ६४ ॥
कपीनां अभिलक्षिताः प्रसिद्धाः । कपिप्रवरा इत्यर्थः ॥ ६३-६४ ॥
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ।
हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ।। ६५ ।।
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् ।
गर्हमाणं जगर्हेऽन्यो दशन्तमपरोऽदशत् ॥ ६६ ॥
कपीनां मध्ये हरिवीरान् वीरहरीन् । निजघ्नुः ॥ ६५-६६ ।।
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः ।
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ ६७ ॥
देहीति । अन्यो वीरः प्रहरणमत्र देहीति बभाषे । अन्यो ददातीति बभाषे । अपरः पुनः ददामीति बभाषे । आत्मानं आयासेन किं क्लेशयसि तिष्ठेत्यन्यो बभाषे । तत्रैवमन्योन्यं बभाषिरे ॥ ६७ ॥
विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम् ।
समुद्यतमहाप्रासं यष्टिशूलासिसंकुलम् ।
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ।। ६८ ।।
विप्रलम्बितवस्त्रमित्यादि सर्वे क्रियाविशेषणं ।। ६८ ॥
वानरान्दश सप्तेति राक्षसा जघ्नुराहवे ।
राक्षसान्दश सप्तेति वानराचाभ्यपातयन् ।। ६९ ।।
वानरान् दश सप्तेति । राक्षसाः दश सप्तेत्यनेन प्रकारेण वानरान् जघ्नु: । वानराश्च दश सप्तेत्यनेन प्रकारेण राक्षसानभ्यपातयन्निति संबन्धः ॥ ६९ ॥
विस्त्रस्तकेशवसनं विध्वस्तकवचध्वजम् ।
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ ७० ॥
आलम्ब्य वेगेन धावमानं प्रतिष्टभ्य । ततः परितोऽवारयन् ॥ ७० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥