श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः
विभीषणेन रावणंप्रति कुंभकर्णादीनां युधिरामाग्रेऽवस्थानस्यापिदुश्शकत्वोक्तिपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥
निशाचरेन्द्रस्य निशम्य वाक्यम् स कुम्भकर्णस्य च गर्जितानि ।
विभीषणो राक्षसराजमुख्य मुवाच वाक्यम् हितमर्थयुक्तम् ॥ १ ॥
एवं दुर्मन्त्रिभिः प्रभुचित्तानुसारेण कथिते तदसहमानो विभीषणः परमार्थं हितमुपदिशति-निशेति ॥ स कुम्भकर्णस्येत्यत्र स इति च्छेदः । गर्जितानि निरर्थकवचनानि । अर्थयुक्तं कर्तव्यार्थबोधयुक्तं ॥ १ ॥
वृतो हि बाह्वन्तरभोगराशि श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः सीतामहाहिस्तव केन राजन् ॥ २ ॥
अदेया न यथा सीतेति रावणवचनं प्रति वक्तुं सीतामहित्वेन रूपयति – वृत इति ॥ बाह्वन्तरं वक्षः तदेव भोगराशिः फणापरिणाहो यस्य स तथा । यद्वा बाह्वन्तरे वक्षसि भोगराशि: सौख्यसंपत् सैव बाह्वन्तरभोगराशिः तिर्यक्प्रसारितयोर्बाह्वोर्यदन्तरं तत्प्रमाणो भोगराशिः शरीरपरिणाहो यस्येत्यावृत्त्या रूपकनिर्वाहः । चिन्तैव विषं विरोधिप्राणहरत्वात् । तत् यस्य सः चिन्ताविष: । सुस्मितं स्वाभाविकमन्दस्मितं । तदेव शुभ्रत्वेन कामुकहृदयहारित्वेन च तीक्ष्णा दंष्ट्रा यस्य सः सुस्मिततीक्ष्णदंष्ट्रः । चिन्तावशेन वदनोपधानीकृतपाणे: पञ्चाङ्गुल्य एव पञ्चशिरोरूपातिकायो यस्य सः पञ्चाङ्गुलीपञ्चशिरोतिकाय: । सीतामहाहिः स्पर्शमात्रेण मारकाहिः । तव त्वया । केन हेतुना वृतः । सर्वथा त्यक्तव्य एवेति भावः । राजन्निति सान्त्वोक्तिः ॥ २ ॥
यावन्न लङ्का समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः ।
दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयताम् दाशरथाय मैथिली ॥ ३ ॥
यावन्न गृह्णन्ति शिराम्सि बाणा रामेरिता राक्षसपुङ्गवानाम् ।
वज्रोपमा वायुसमानवेगाः प्रदीयताम् दाशरथाय मैथिली ॥ ४ ॥
न केवलं तवैवानर्थहेतुः सीता किंतु तावकीनस्य सर्वस्येत्याहयावदिति ॥ यावत्पुरानिपातयोर्लट् । इति लट् । तावदिति शेषः ॥ ३-४ ॥
भित्वा न तावत्प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः ।
शिताः शरा राघवविप्रमुक्ताः प्रहस्त तेनैव विकत्थसे त्वम् ।। ॥ ५
तावच्छब्दो वाक्यालंकारे । प्राणान्ते भवाः प्राणान्तिकाः प्राणहारिण इत्यर्थः । साक्षाद्राजानं प्रत्युक्तेरयुक्तत्वात्प्रहस्तं प्रति प्राणहरत्वोक्तिः । विकत्थसे आत्मानं श्लाघसे । कस्थ श्लाघायां इति धातुः ॥ ५ ॥
न कुम्भकर्णेन्द्रजितौ च राजा तथा महापार्श्वमहोदरौ वा ।
निकुम्भकुम्भौ च तथातिकायः स्थातुं सक्ता युधि राघवस्य ॥६।।
तर्हि कुम्भकर्णादयो रामं वारयिष्यन्तीत्यत्राह – न कुम्भकर्णेति ॥ इदमपि प्रहस्तं प्रति वचनं ॥ ६ ॥
जीवम्स्तु रामस्य न मोक्ष्यसे त्वम् गुप्तः सवित्राऽप्यथवा मरुद्भिः ।
न वासवस्याङ्कगतो न मृत्योर्नभो न पातालमनुप्रविष्टः ॥ ७ ।।
राज्ञः असामर्थ्यं विशिष्य दर्शयति – जीवन्निति ॥ रामस्य रामात् । विभक्तिव्यत्ययः । जीवन्न विमोक्ष्यसे प्राणपर्यन्तं न त्वां रामो विमोक्ष्यतीति भावः । अङ्कगतोपि पुत्रभावेनाङ्कस्थितोपीत्यर्थ: । मृत्योरित्यत्रापि अङ्कगत इत्यनुषज्यते । नभः पातालं वाऽनुप्रविष्टः न मोक्ष्यस इति योजना ॥ ७ ॥
निशम्य वाक्यम् तु विभीषणस्य ततः प्रहस्तो वचनम् बभाषे ।
न नो भयं विद्म न दैवतेभ्यो न दानवेभ्योऽह्यथवा कुतश्चित् ॥ ८ ।।
अस्माकं कुतश्चित् भयं न विद्म । विसर्गलोपश्छान्दस: । एवं सामान्येनोक्त्वा विशिष्य दर्शयति – न दैवतेभ्य इत्यादिना । भयं न विद्म इति सर्वत्रान्वेति ॥ ८ ॥
न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोत्तमेभ्यः ।
कथम् नु रामाद्भविता भयम् नो नरेन्द्रपुत्रात्समरे कदाचित् ॥ ९ ।।
पतगोत्तमेभ्यः गरुडेभ्यः । नरेन्द्रपुत्रात् मानुषबालादित्यर्थः । कथं नो भवितेत्यपि ध्वन्यते ॥ ९ ॥
प्रहस्तवाक्यम् त्वहितम् निशम्य विभीषणो राजहितानुकाङिक्षी ।
ततो महात्मा वचनम् बभाषे धर्मार्थकामेषु निविष्टबुद्धिः ॥ १० ।।
महात्मा महाबुद्धिः । धर्मार्थकामेषु । स्वामिन इति शेषः ॥ १० ॥
प्रहस्त राजा च महोदरश्च त्वम् कुम्भकर्णश्च यथाऽर्थजातम् ।
ब्रवीथ रामम् प्रति तन्न शक्यम् यथा गतिः स्वर्गमधर्मबुद्धेः ॥ ११ ।।
महोदरोक्तत्वेन पूर्वमनुक्तमप्यनेनावगम्यते पूर्वमुक्तमिति । अर्थजातं यथा ब्रवीथ तथा रामं प्रति तत्कार्यजातं न शक्यं । कर्तुमिति शेषः । अधर्म बुद्धेः स्वर्गं प्रति गतिर्यथा न शक्या तथैवेत्यर्थः ॥ ११ ॥
वधस्तु रामस्य मया त्वया वा प्रहस्त सर्वैरपि राक्षसैर्वा ।
कथम् भवेदर्थविशारदस्य महार्णवम् तर्तु मिवाप्लवस्य ॥ १२ ।।
अशक्यत्वमेव विशदयति-वधस्त्विति ॥ अर्थविशारदस्य कार्यदक्षस्य । रामस्य वधः । अप्लवस्य नौरहितस्य । महार्णवं तर्तुं तरितुं । शक्तिरिति शेषः । शक्तिरिव कथं भवेत् न कथंचिदपि संभवतीत्यर्थः । एतेन वध्यौ दशरथात्मजावित्युक्तस्योत्तरमुक्तं ॥ १२ ॥
धर्मप्रधानस्य महारथस्य इक्स्वाकुवम्शप्रभवस्य राज्ञः ।
प्रहस्त देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः ॥ १३ ।।
उक्तमर्थं कैमुतिकन्यायेन द्रढयति – धमेति ॥ धर्मप्रधानस्य । अप्यहं जीवितं जह्यां इत्युक्तरीत्या धर्मविरोधे तृणीकृतसकलेतरपुरुषार्थस्य महारथस्य रणे आत्मानं सारथिं च रक्षन् शत्रुसंहारक्षमो महारथः तस्य । आत्मानं सारथिं चाश्वान्रक्षन्युध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः इत्युक्तेः ॥ इक्ष्वाकुवंशप्रभवस्य जन्मसिद्धनिरतिशयपराक्रमस्य । राज्ञः सकलप्रकृतिमण्डलरञ्जकस्य । तथाविधस्य विराधकबन्धवालिप्रभृतिवधविदित -वैभवस्य । शक्तस्य कार्यदक्षस्य । रामस्य कृत्येषु रणव्यापारेषु विषये । देवाश्च मूढा भवन्ति । अविदिततदीयव्यापारा भवन्तीत्यर्थः । किं पुनर्भवादृशा इति भावः ॥ १३ ॥
तीक्ष्णा न ता यत्तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः ।
भित्त्वा शरीरम् प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ।। १४ ॥
तीक्ष्णा: तीक्ष्णाग्राः । झटितिभेदनक्षमा इत्यर्थः । नताः नतपर्वाण: ऋजव इत्यर्थः । सपदि भित्त्वा निर्गन्तुं क्षमा इतिभावः । कङ्कपत्राः कङ्कानां पत्राण्येव पत्राणि येषां ते तथोक्ताः । कङ्कपक्षनिबद्धत्वेन महावेगा इत्यर्थ: । अतएव दुरासदाः ॥ १४ ॥
न रावणो नातिबलस्त्रीशीर्षो न कुम्भकर्णोस्य सुतो निकुभः ।
न चेन्द्रजिद्दाशरथिम् प्रसोढुम् त्वम् वा रणे शक्रसमम् समर्थाः ॥ १५ ॥
न रावण इति । रावणादयः सर्वेपि न समर्था इति योज्यं ॥ १५ ॥
देवान्तको वापि नरान्तको वा तथाऽतिकायोतिरथो महात्मा ।
अकम्पनश्चाद्रिसमानसारः स्थातुम् न शक्ता युधि राघवस्य ॥ १६ ॥
अतिरथः अतिशयितरथः । महात्मा महाशरीर: । अद्रिसमानसारः गिरितुल्यबल: । सारो बले स्थिरांशे च इत्यमरः । देवान्तकादयो रावणपुत्राश्च राघवस्य युधि स्थातुं न शक्ताः ॥ १६ ॥
अयम् च राजा न्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः ।
अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी ॥ १७ ॥
अमित्रप्रतिभैः कार्यतो रिपुतुल्यैः । नाम्ना मित्रैः भवद्भिः त्वत्प्रमुखैः । व्यसनाभिभूतः सप्तव्यसनैराक्रान्तः। प्रकृत्या तीक्ष्णः उग्रः । असमीक्ष्यकारी अविमृश्यकारी । अयं राजा राक्षसंनाशनार्थं अन्वास्यते अनुस्रियते । अस्य राजत्वासमीक्ष्यकारित्वव्यसनाभिभूतत्वान्यपुरस्कृत्य तीक्ष्णत्वमेव पुरस्कुर्वन्तो भवन्तोभिभवन्ति । सर्वराक्षस -विनाशं न जानन्तीति भावः । सप्तव्यसनस्वरूपमुक्तं कामन्दकेन – वाग्दण्डयोस्तु पारुष्यमर्थदूषणमेव च । पानं स्त्री मृगया द्यूतं व्यसनं सप्तधा प्रभोः इति ॥ १७ ॥
अनन्तभोगेन सहस्रमूर्ध्ना नागेन भीमेन महाबलेन ।
बलात्परिक्षिप्तमिमम् भवन्तो राजानमुत्क्षिप्य विमोचयन्तु ॥ १८ ॥
एवं प्रहस्तप्रमुखान्मन्त्रिमुख्यान्निर्भर्त्स्य संप्रति कर्तव्यमुपदिशति-अनन्तेति ।। अनन्तभोगेन अपरिच्छिन्नकायेन । सहस्रमूर्ध्ना अतएव भीमेन । न केवलं भीमत्वमात्रं महाबलेन नागेन । शेषेणेत्यर्थः। परिक्षिप्तं परिवेष्टितं । रामद्वेषो महासर्पवेष्टनतुल्य इति भावः ॥ १८ ॥
यावद्धि केशग्रहणात्सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः ।
निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैर्गृहीतः ॥ १९ ॥
ननु समयोतीतः किं कुर्म इत्यत्राह – यावदिति ॥ परिपूर्णकामैः । अवाप्तसर्वाभीष्टैरित्यर्थः । राजतो लब्धकामै: राजकार्येऽवश्यं यतितव्यमिति भावः । सर्वैः सुहृद्भिः समेत्य ऐकमत्यं प्राप्येति यावत् । राजा भीमबलैः भूतैः गृहीतः पुरुष इव निगृह्य बलात्कृत्य । यावत्केशग्रहणात् शत्रुभिः केशग्रहणपर्यन्तं । परिरक्षितव्यः । आकेशप्रहणान्मित्रमकृत्येभ्यो निवर्तयेदिति प्रसिद्धिं दर्शयति हिशब्दः । यद्वा आकेशग्रहणान्निगृह्य परिरक्षितव्यः । अकार्यप्रवृत्तोऽयं राजा केशेष्वाकृष्यापि निवारणीय इत्यर्थः ॥ १९ ॥
संहारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः ।
युक्तस्त्वयम् तारयितुम् समेत्य काकुत्स्थपातालमुखे पतन्सः ॥ २० ॥
संहारिणा विनाशकेन । राघवसागरेण लक्ष्मणसमुद्रेण । प्रच्छाद्यमानः । ततः काकुत्स्थपातालमुखे रामबडवाग्निमुखे । पातालं बडबाग्नौ च इति नानार्थरत्नमाला । पतन् सोयं राजा तरसा आरम्भकाल एव । तारयितुं भवद्भिर्हस्तप्रदानेनोत्तारयितुं युक्तः अर्हः । अत्र प्रच्छाद्यमानः पतन्निति प्रयोगौ वर्तमानसामीप्यात् । लक्ष्मण: प्रथमं ग्रहीष्यति ततो रामः अतो न जीवितुं शक्यं । अतः प्रथममेव राजा निवर्तनीय इतिभावः । सुवारिणेति पाठान्तरं । तत्र सागरपक्षे सुजलेनेत्यर्थः । राघवपक्षे वारः स्यन्दनः । शोभनो वार: सुवार: सोस्यास्तीति सुवारी तेन । सूर्यादिदिवसे वृन्दे कुन्दवृक्षे परिक्रमे । मद्यपात्रे स्यन्दने च वारो वरुणसेनयो: इति निघण्टुः ॥ २० ॥
इदम् पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यम् ससुहृज्जनस्य ।
सम्यग्घि वाक्यम् स्वमतं ब्रवीमि नरेन्द्रपुत्राय ददाम पत्नीम् ॥ २१ ॥
मा दिशतु रामाय राजा वैदेहीं वयमेव बलाद्धि ददामः यदि हितमाकाङ्क्षितमित्याह – इदमिति ॥ स्वमतं स्वस्य सिद्धान्तभूतं । इदंशब्दार्थमाह – नरेन्द्रेति ॥ २१ ॥
परस्य वीर्यम् स्वबलं च बुद्ध्वा स्थानं क्षयं चैव तथैव वृद्धिम् ।
तथा स्वपक्षे प्यनुमृश्य बुद्ध्या वदेत्क्षमं स्वामिहितं स मन्त्री ॥ २२ ॥
वयमपि सम्यगेव ब्रूमः शत्रुर्हन्तव्य इति तत्राह–परस्येति । मन्त्री परस्य शत्रोः । वीर्यं स्वबलं स्वराजबलं च बुद्ध्वा स्वराजपरराजयोर्बलं परीक्ष्येत्यर्थः । तथैव बलाबलपरीक्षावत् । परस्य स्थानं संपदा साम्यं क्षयं वृद्धिं च बुद्ध्वा । तथा परस्येव स्वपक्षेपि बुद्ध्या सूक्ष्मदृष्टया । स्थानक्षयवृद्धी: अनुमृश्य आलोच्य । क्षमं युक्तं । स्वाभिहितं च वदेत् । परस्य क्षये स्ववृद्धौ यानं परस्यवृद्धौ स्वस्य क्षये संधि परस्य स्वस्य च साम्ये आसनंच स्वामिने कथयेदित्यर्थः । अत्र प्रकृते परस्य वृद्धेः रावणस्य नगरदहनतनयनाशादिना क्षयस्य दर्शनाच्च सीताप्रदानेन सन्धिरेव साधुरिति मन्त्रिभिर्भवत्स्वामिने निवेदनीयमितिभावः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥ १४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्दशः सर्गः ॥ १४ ॥