श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः
कुंभकर्णे वानरसेनामध्येकेषांचिद्भक्षणेनकेषांचित्पाणितलाभिघातेन विक्षोभपूर्वकंसंच -रमाणे हनुमता शैलशृङ्गेणतत्ताडनम् ॥ १ ॥ तत्प्रहारक्षुभितेनकुंभकर्णेन हनुमतोवक्षसि शूलाभिघातेनविह्वलताप्रापणपूर्वकं नीलादिभिरायोधनम् ॥ २ ॥ तेषु कुंभकर्णपीडामसहमानेष्वङ्गदेन गिरिशिखरेणकुंभकर्णशिरस्ताडनम् ॥ ३ ॥ तेन मुष्टिघातेनाङ्गदस्यमोहप्रापणपूर्वकंसुग्रीवंप्रत्यभियानम् ॥ ४ ॥ सुग्रीवेण शैलशृङ्गताडितेन कुंभकर्णेन तद्वधायशूलेसमुत्सृष्टे हनुमता तच्छूलस्यनिजजानुस मारोपणेनभञ्जनम् ॥ ५ ॥ कुंभकर्णेन स्वपातितशैलशृङ्गप्रहारेणपतितमूर्च्छितस्यसुग्रीवस्यग्रहणेन लङ्काप्रवेशः ॥ ६ ॥ लङ्काजनैः कुंभकर्णोपरिहर्षेणपुष्पगन्धोदादिवर्षणे तत्सेकेनप्रबुद्धाप्यायितेनसुग्रीवेण खरनखरकराग्रैर्दन्तैश्च कुंभकर्णकर्णनासच्छेदनपूर्वक वियतिसमुत्पतनेन रामपार्श्वागमनम् ॥ ७ ॥ ततःक्रोधात्परावृत्यरणाङ्गणमागतेनकुंभकर्णेन मध्येस्वेनसहयोधितवतोलक्ष्मणस्य श्लाघनेन रामंप्रत्यभियानम् ॥ ८ ॥ रामकुंभकर्णयोर्वीरवादपूर्वकंमहायुद्धम् ॥ ९ ॥ रामेण बाणचतुष्टयेनकुंभकर्णस्यबाहुपादच्छेदपूर्वकं शरान्तरेणशिरश्छेदनम् ॥ १० ॥ कुंभकर्णवधा -नन्तरं देवर्ष्यादिभिस्सहवानरैः सहर्षं श्रीरामपूजनम् ॥ ११ ॥
ते निवृत्ता महाकायाः श्रुत्वाऽङ्गदवचस्तदा ।
नैष्ठिकीं बुद्धिमासाद्य सर्वे संग्रामकाङ्क्षिणः ॥ १ ॥
समुदीरितवीर्याश्च समारोपितविक्रमाः ।
पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ २ ॥
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः ।
चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ ३ ॥
अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च ।
वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ॥ ४ ॥
ते निवृत्ता इत्यादि, वानरास्त्यक्तजीविता इत्यन्तमेकं वाक्यं ॥ नैष्ठिकीं निष्ठा नाश: तत्संबन्धिनीं । मरणव्यवसायिनीमित्यर्थः । समुदीरितवीर्याः कथितात्मपराक्रमाः । समारोपितविक्रमाः समवलम्बितपराक्रमाः । मरणनिश्चयहेतुमाह-यक्तजीविता इति । जीवनाशारहिता इत्यर्थः ॥ १-४ ॥
स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान् ।
अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् ॥ ५ ॥
व्याक्षिपत् अपातयत् ॥ ५ ॥
शतानि सप्त चाष्टौ च सहस्राणि च वानराः ।
प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ॥ ६ ॥
प्रकीर्णाः शिथिलावयवाः । पोथिताः हिंसिताः । कुम्भकर्णस्यैकेन व्यापारेण शतादिसंघरूपेण पतिता इत्यर्थः ॥ ६ ॥
षोडशाष्टौ च दश च विंशत्रिंशत्तथैव च ।
परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति ।
भक्षयन्भृशसंक्रुद्धो गरुडः पन्नगानिव ॥ ७ ॥
परिक्षिप्य परिगृह्य खादन् भक्षयन् । पन्नगान् भक्षयन्निवेति गरुडविशेषणं ।। ७ ।।
कृच्छ्रेण च समाश्वस्ताः संगम्य च ततस्ततः ।
वृक्षाद्रिहस्ता हरयस्तस्थुः संग्राममूर्धनि ॥ ८ ॥
हरयः बलवन्त इति शेषः । संगम्य संभूय ॥ ८ ॥
ततः पर्वतम्रुत्पाट्य द्विविदः प्लवगर्षभः ।
दुद्राव गिरिशृङ्गामं विलम्ब इव तोयदः ॥ ९ ॥
विशेषेण लम्बत इति विलम्बः । पचाद्यच् । गिरिशृङ्गाभं गिरिशृङ्गवदुन्नतं ॥ ९ ॥
तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः ।
तमप्राप्तो महाकायं तस्य सैन्येऽपतत्तदा ॥ १० ॥
तं कुम्भकर्णं । समुत्पत्य समीपमागत्य । कुम्भकर्णस्य कुम्भकर्णाय ।। १० ॥
ममर्दाश्वान्गजांश्चापि रथांश्चैव नगोत्तमः ।
तानि चान्यानि रक्षांसि पुनश्चान्यगिरेः शिरः ॥ ११ ॥
ममर्देत्यादि त्रिपादश्लोकः ॥ तानि प्रसिद्धानि । रक्षांसि ममर्देति पूर्वेणान्वयः । पुनश्चेति पादश्लोकः । अन्यत् गिरेःशृङ्गं चिक्षेपेति योज्यं ॥ ११ ॥
तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि ।
रक्षसां रुधिरक्लिन्नं बभ्रुवायोधनं महत् ॥ १२ ॥
तच्छेलशृङ्गाभिहतं अनन्तरप्रयुक्तशैलशृङ्गाभिहतसैन्यं । आयोधनं युद्धं ॥ १२ ॥
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः ।
शिरांसि नदतां जह्रुः सहसा भीमनिस्खनाः ॥ १३ ॥
कालान्तकः प्रलयकालरुद्रः ॥ १३ ॥
वानराश्च महात्मानः समुत्पाट्य महाद्रुमान् ।
रथानश्वान्गजानुष्ट्राराक्षसानभ्यसूदयन् ॥ १४ ॥
हनुमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् ।
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥ १५ ॥
तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह ।
बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ १६ ॥
अभ्यसूदयन् अघ्नन् ।। १४-१६ ॥
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य ।
तस्थौ ततोस्यापततः पुरस्तान्महीधराग्रं हनुमान्प्रगृह्य ॥ १७ ॥
दुद्राव द्रावयामास ॥ १७ ॥
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् ।
स चुक्षुभे तेन तदाऽभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ।। १८ ।।
मेदार्द्रेत्यत्र संघिरार्षः ॥ १८ ॥
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् ।
बाह्वन्तरे मारुतिमाजघान गुहोचलं क्रौञ्चमिवोग्रशक्त्या ॥ १९ ॥
आविध्य भ्रामयित्वा । गुहः स्कन्दः ॥ १९ ॥
स शूलनिर्भिन्नमहाभुजान्तरः प्रविह्वलः शोणितमुद्वमन्मुखात् ।
ननाद भीमं हनुमान्महाहवे युगान्तमेघस्तनितस्वनोपमम् ॥ २० ॥
प्रविह्वल: प्रमुह्यन् । युगान्तेति । युगान्तमेघस्य स्तनितरूपो यः स्वनः तत्तुल्यमिति क्रियाविशेषणं ॥ २० ॥
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य ॥
प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ २१ ॥
कुम्भकर्णात् भयार्ता इत्यन्वयः । संयति युद्धे ॥ २१ ॥
ततस्तु नीलो बलवान्पर्यवस्थापयन्चलम् ।
प्रेविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥ २२ ॥
पर्यवस्थापयन्बलमिति । पलायमानान् सन्निवर्तयन्नित्यर्थः ॥ २२ ॥
तमापतन्तं संप्रेक्ष्य मुष्टिनाऽभिजघान ह ।
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ॥ २३ ॥
सविफुलिङ्गं सज्वालं निपपात महीतले ॥ २४ ॥
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ।
पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥ २५ ॥
व्यशीर्यत शीर्णमभूत् ॥ २३–२५ ।।
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः ।
कुम्भकर्णं महाकायं सर्वतोऽभिप्रदुद्रुवुः ॥ २६ ॥
पादैः प्रहारोद्यतैः । सर्वत्रोपलक्षणे तृतीया ॥ २६ ॥
स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे ।
ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥ २७ ॥
स्पर्शानिव सुखस्पर्शनिव । सुखमर्दनमिव जानन्नित्यर्थः ॥ २७ ॥
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ।
निपपातर्षभो भीमः प्रेमुखाद्वान्तशोणितः ॥ २८ ॥
मुष्टिना शरभं हत्वा जानुना नीलमाहवे ।
आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ॥ २९ ॥
पादेनाभ्यहनत्क्रुद्धस्तरसा गन्धमादनम् ।
दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ॥ ३० ॥
निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ।
तेषु वानरमुख्येषु पतितेषु महात्मसु ॥
वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ ३१ ॥
प्रेति छेदः । मुखात् वान्तशोणितः प्रणिपपातेत्यन्वयः। व्यवहिताश्च इत्युपसर्गस्य व्यवहितप्रयोगः । वान्तशोणित: उद्गीर्णरक्तः ॥ २८-३१ ॥
तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः ।
समारुह्य समुत्पत्य देदंशुश्च महाबलाः ॥ ३२ ॥
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा ।
कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ॥ ३३ ॥
समारुह्य समुत्पत्य । समुत्पत्य समारुह्येति क्रमः ।। ३२-३३ ।।
स वानरसहस्रैस्तैराचितः पर्वतोपमः ।
रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ ३४ ॥
बाहुभ्यां वानरान्सर्वान्प्रगृह्य सुमहाबलः ।
भक्षयामास संक्रुद्धो गरुडः पनगानिव ॥ ३५ ॥
प्रक्षिप्ताः कुम्भकर्णेन वक्रे पातालसन्निभे ।
नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥ ३६ ॥
आचितः व्याप्तः । आत्मरुहैः वृक्षैः ॥ ३४–३६ ॥
भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसन्निभः ।
बभञ्ज वानरान्सर्वान्संक्रुद्धो राक्षसोत्तमः ॥ ३७ ॥
भक्षयन् बभञ्ज । भक्षणार्थं बभञ्जेत्यर्थः ॥ ३७ ॥
मांसशोणितसंक्लेदां भूमिं कुर्वन्स राक्षसः ।
चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ॥ ३८ ॥
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ।
शूलहस्तो बभौ संख्ये कुम्भकर्णो महाबलः ॥ ३९ ॥
मांसशोणितसंक्लेदां मांसशोणितसंसिक्तामित्यर्थः ॥ ३८-३९ ।।
यथा शुष्कान्यरण्यानि ग्रीष्मे दहति पावकः ।
तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ॥ ४० ॥
विनिर्दहत् विनिरदहत् ॥ ४० ॥
ततस्ते वध्यमानास्तु हतयूथा विनायकाः ।
वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ॥ ४१ ॥
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः ।
राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥ ४२ ॥
प्रभग्नान्वानरान्दृष्ट्वा वैज्रहस्तसुतात्मजः ।
अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ ४३ ॥
शैलशृङ्गं महगृह्य विनदंश्च मुहुर्मुहुः ।
त्रासयन्राक्षसान्सर्वान्कुम्भकर्णपदानुगान् ।। ४४ ।।
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि ॥ ४५ ॥
स तेनाभिहतोत्यर्थं गिरिशृङ्गेण मूर्धनि ।
कुम्भकर्णः प्रजज्वाल कोपेन महता तदा ॥ ४६ ॥
सोभ्यधावत वेगेन वालिपुत्रममर्पणः ।
कुम्भकर्णो महानादस्रासयन्सर्ववानरान् ।।
शूलं ससर्ज वै रोषादङ्गदे स महाबलः ॥ ४७॥
तमापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः ।
लाघवान्मोचयामास बलवान्वानरर्षभः ॥ ४८ ॥
उत्पत्य चैनं सहसा तलेनोरस्यताडयत् ।
स तेनाभिहतः कोपात्प्रमुमोहाचलोपमः ॥ ४९ ॥
स लब्धसंज्ञो बलवान्मुष्टिमावर्त्य राक्षसः ।
अपहासेन चिक्षेप विसंज्ञः स पपात ह ॥ ५० ॥
तस्मिन्प्लवगशार्दूले विसंज्ञे पतिते भुवि ।
तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ ५१ ॥
तमापतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम् ।
उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ ५२ ॥
पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः ।
अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ ५३ ॥
विनायकाः विगतनायकाः ॥ ४१-५३ ॥
तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् ।
तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ॥ ५४ ॥
कपिशोणितदिग्धाङ्गं भक्षयन्तं वङ्गमान् ।
कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ५५ ॥
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् ।
भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ ५६ ॥
त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि ।
सहस्वैकनिपातं मे पर्वतस्यास्य राक्षस ॥ ५७ ॥
तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् ।
श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥ ५८ ॥
समुन्मुखः अभिमुखः ॥ ५४–५८ ॥
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजः सुतः ।
श्रुतपौरूषसंपन्नः कस्माद्गर्जसि वानर ॥ ५९ ॥
प्रजापतेरिति । इदमत्रैतिह्यमनुसंधेयं । पुरा किल ब्रह्मणो जृम्भमाणस्य वदनादृक्षरजा नाम वानरो जातः । स कदाचित्पर्यटन् ब्रह्मलोकेप्सरोरूपकारिणि निमज्याप्सरोरूपमभजत् । तां दृष्ट्वा काममोहिताविन्द्रादित्यौ हस्तेन युगपद्गृह्णीतां । तत्रान्तरे तयोः क्षुभितं रेतोऽपतत् । तत्र द्वौकुमारावभवतां । वाले पतनाद्वाली ग्रीवायां पतनात्सुग्रीवः । तं दृष्ट्वा प्रहस्य ब्रह्मा अप्सरोरूपधारिणमृक्षरजसं यथापूर्वरूपप्राप्तये कुमारौ गृहीत्वा अन्यस्मिन्वानररूपकारिणि सरसि निमज्जेत्यभ्यधात् । सोपि तथा कृत्वा कुमाराभ्यां सह वानररूपमभजदृक्षरजाः । तत्पुत्रौ वालिसुग्रीवाविति । तदनेन प्रकारेण सुग्रीवः प्रजापतेः पौत्रः ऋक्षरजसः पुत्रश्च । काश्यपात्प्रजापतेर्विवस्वान् विवस्वतः सुग्रीव इत्यन्ये ॥ ५९ ॥
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच ।
तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसन्निभेन ।। ६० ।।
तच्छैलशृङ्गं सहसा विशीर्णं भुजान्तरे तस्य तदा विशाले ।
ततो विषेदुः सहसा लवङ्गा रक्षोगणाश्चापि मुदा विनेदुः ॥ ६१ ॥
स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्रम् ।
व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्युक्षपतेर्वधाय ।। ६२ ॥
तत्कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनधामजुष्टम् ।
क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य ॥ ६३ ॥
व्याविध्य तोलयित्वा ॥ ६० – ६३ ॥
कृतं भारसहस्रस्य शूलं कालायसं महत् ।
बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ॥ ६४ ॥
भारसहस्रस्य भारसहस्रेण कृतं जानुन्यारोप्य बभञ्जेत्यन्वयः ॥ ६४ ॥
शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी ।
हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥
[ बभ्रुवाथ परित्रस्तो राक्षसो विमुखोऽभवत् ॥ ६५ ॥]
सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः ।
मारुतिं पूंजायांचक्रुर्दृष्ट्वा शूलं तथागतम् ॥ ६६ ॥
सर्वतः सर्वस्मात्प्रदेशात् । दुद्रुवे आजगाम ॥ ६५-६६ ॥
स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा ।
उत्पाट्य लङ्कामलयात्स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥ ६७ ॥
स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः ।
तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः ॥ ६८ ॥
तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् ।
जहार सुग्रीवमभिप्रगृह्य यथाऽनिलो मेघेमतिप्रचण्डः ॥ ६९ ॥
सुग्रीवमुपेत्य तेन शृङ्गेण जघान । त्रिकूटशिखरस्थलङ्काद्वारे स्थित्वा युध्यतः कुम्भकर्णस्य प्रदेशान्तरस्थलङ्कामलयशृङ्गोत्पाटनं कथमुपपद्यत इति चेत् तदनुगुणप्रमाणशरीरत्वान्न दोषः । लङ्कामलयशब्देन त्रिकूटं वोपचर्यते ।। ६७-६९ ॥
स तं महामेघनिकाशरूपमुत्पाट्य गच्छन्युधि कुम्भकर्णः ।
रराज मेरुप्रतिमानरूपो मेरुर्यथाभ्युच्छ्रितघोरशृङ्गः ॥ ७० ॥
अभ्युच्छ्रितं उन्नतं । स्वाकारसादृश्याय प्रथमं मेरुपादानं । द्वितीयं तु सुग्रीवधारणकालिकसादृश्याय ॥ ७० ॥
ततस्तमुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः ।
शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ।। ७१ ।।
उत्पाट्य उद्धृत्य । त्रिशालयानां स्वर्गिणां ॥ ७१ ।।
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ।
अस्मिन्हृते सर्वमिदं हृतं स्यात्सराघवं सैन्यमितीन्द्रशत्रुः ॥ ७२ ।।
विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः ।
कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ७३
हनुमांश्चिन्तयामास मतिमान्मारुतात्मजः ।
एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ।। ७४ ।।
यद्वै न्याय्यं मया कर्तुं तैत्करिष्यामि सर्वथा ।
भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम् ॥ ७५ ॥
मया हते संयति कुम्भकर्णे महाबले मुष्टिविकीर्णदेहे ।
विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः ॥ ७६ ॥
बलवान्कुंभकर्णो युद्धे पतितं सुग्रीवं किमर्थं हृतवानित्यत्राह-ततस्तमादायेति ॥ ७२–७६ ॥
अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः ।
गृहीतोऽयं यदि भवेस्त्रिदशैः सासुरोरगैः ॥ ७७ ॥
सासुरोरगैः सुरैः गृहीतोप्ययं मोक्षं प्राप्तुं शक्नोति । किं पुनरनेन राक्षसापसदेनेति भावः ॥ ७७ ॥
मन्ये न तावदात्मानं बुध्यते वानराधिपः ।
शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ ७८ ॥
अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे ।
आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ॥ ७९ ॥
तर्हि मोचयित्वात्मानं किमिति न निवर्तत इत्यत्राह – मन्य इत्यादिना तावदित्यवधारणे । आत्मानमेव न बुध्यतइत्यर्थः । पथ्यं हितं ।। ७८–७९ ।।
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ।
अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥ ८० ॥
कृच्छ्रगतः स्वामी भृत्येनावश्यं मोचनीय एवेत्याशङ्क्याह-मया त्विति ।। ८० ॥
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य तु ।
भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ ८१ ॥
तावत् सुग्रीवागमनपर्यन्तं ।। ८१ ।।
इत्येवं चिन्तयित्वा तु हनुमान्मारुतात्मजः ।
भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ ८२ ॥
संस्तम्भयामास गमनान्निवर्तयामास ॥ ८२ ॥
स कुम्भकर्णोथ विवेश लङ्कां स्फुरन्तमादाय महाकपिं तम् ।
विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥ ८३ ॥
लाजगन्धोदवर्षैस्तु सिच्यमानः शनैः शनैः ।
राजमार्गस्य शीतत्वात्संज्ञामाप महाबलः ॥ ८४ ॥
ततः स संज्ञामुपलभ्य कृच्छ्राद्वलीयसस्तस्य भुजान्तरस्थः ।
अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ॥ ८५ ॥
पुष्पाग्र्यवर्षैः श्लाध्यपुष्पवृष्टिभिः॥ ८३—८५ ।।
एवं गृहीतेन कथं नु नाम शक्यं मया संप्रतिकर्तुमद्य ।
तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ।। ८६ ।।
संप्रतिकर्तुं सम्यक् प्रतिकर्तुं अन्यथा अद्येति पुनरुक्तिः स्यात् ॥ ८६ ॥
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम् ।
खरैश्च केर्णौ दशनैश्च नासां ददंश पार्श्वेषु च कुम्भकर्णम् ॥ ८७ ॥
खरैः तीक्ष्णैः । कराग्रैः कर्णौ समेत्य संहृत्य दशनैः नासांचदंश । पार्श्वेषु कपोलयोरंसयोरुदरान्तरयोश्च पादाभ्यां विददारेति शेषः ॥ ८७ ।।
स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन विमर्दितश्च ।
रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥ ८८ ॥
स भूतले भीमवलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः ।
जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम ॥ ८९ ॥
विमर्दितः संपीडितः ।। ८८-८९ ।।
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः ।
रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ॥ ९० ॥
प्रस्रवणैः निर्दरैः ॥ ९० ॥
शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः ।
युद्धायाभिमुखो भूयो मनश्चक्रे महाबलः ॥ ९१ ॥
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः ।
नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः ॥ ९२ ॥
गते तु तस्मिन्सुरराजशत्रुः क्रोधात्प्रदुद्राव रणाय भूयः ।
अनायुधोस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ॥ ९३ ॥
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।
[ तेनैव रूपेण बभञ्ज रुष्टः प्रहारमुष्ट्या च पदेन सद्यः ॥ ]
बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः ॥ ९४ ॥
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् ।
चखाद रक्षांसि हरीन्पिशाचानृक्षांश्च मोहायुधि कुम्भकर्णः ॥ ९५ ॥
अभिमुखः सन् युद्धाय मनश्चक्र इति संबन्धः ॥ ९१-९५ ॥
यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान् ॥ ९६ ॥
एकं द्वे त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः ।
समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे ॥ ९७ ॥
शोणितमांसगृध्रुः शोणितमांसलोलुपः ।। ९६-९७ ।।
संप्रस्रवंस्तदा मेदः शोणितं च महाबलः ।
वध्यमानो नगेन्द्रायैर्भक्षयामास वानरान् ॥ ९८ ॥
संप्रस्रवन् तालुभ्यामुद्वमन् । शोणितं मेदश्च भक्षितवानरसंबन्धि ॥ ९८ ॥
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ॥ ९९ ॥
त इत्यर्थं ॥ गतिं शरणं ॥ ९९ ॥
कुम्भकर्णो भृशं क्रुद्धः कपीन्खादन्प्रधावति ॥ १०० ॥
शतानि सप्त चाष्टौ च विंशत्रिंशत्तथैव च ।
संपरिष्वज्य बाहुभ्यां खादन्विपरिधावति ॥ १०१ ॥
[ मेदोवसाशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः ।
ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तस्थ इव प्रवृद्धः ] ॥ १०२ ॥
तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः ।
चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः ।। १०३ ।।
स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् ।
निचखानाददे बाणान्विससर्ज च लक्ष्मणः ॥ १०४ ॥
[ पीयमानस्तदत्रं तु विशेषं तत्स राक्षसः ।
ततश्रुकोप बलवान्सुमित्रानन्दवर्धनः ॥ १०५ ॥
अथास्य कवचं शुभ्रं जांबूनदमयं शुभम् ।
प्रच्छादयामास शरैः संध्याभ्र मिव मारुतः ।। १०६ ।।
नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः ।
आपीड्यमानः शुशुभे मेघैसूर्य इवांशुमान् ॥ १०७ ॥
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् ।
सावज्ञमेव प्रोवाच वाक्यं मेघौघनिस्वनः ।। १०८ ।।
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे ।
युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥ १०९ ॥
प्रगृहीतायुधस्येह मृत्योरिव महामृधे ।
तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः ।। ११० ।।
ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः ।
नैव शक्रोपि समरे स्थितपूर्वः कदाचन ।। १११ ॥
अद्य त्वयाऽहं सौमित्रे बालेनापि पराक्रमैः ।
तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम् ।। ११२॥
यत्तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया ।
राममेवैकमिच्छामि हन्तुं यस्मिन्हते हतम् ॥ ११३ ॥
रामे मयाऽत्र निहते येऽन्ये स्थास्यन्ति संयुगे ।
तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥११४॥
इत्युक्तवाक्यं तद्रक्षः प्रोवाच स्तुतिसंहितम् ।
मृधे घोरतरं वाक्यं सौमित्रिः ग्रहसन्निव ॥ ११५ ॥
यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम् ।
तत्सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः ॥ ११६ ॥
एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः ।
इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः] ॥ ११७ ॥
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः ।
राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ ११८ ॥
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ।
कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् ॥ ११९ ॥
कुम्भकर्ण इत्यर्धं ॥ प्रधावति प्राधावत् । उत्तरश्लोकेप्येवमेव ॥ १०० – ११९ ॥
तस्य रामेण विद्धस्य सहसाऽभिप्रधावतः ।
अङ्गारमित्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ १२० ॥
रामास्त्रविद्धो घोरं वै नदन्राक्षसपुङ्गवः ।
अभ्यधावत संक्रुद्धो हरीन्विद्रावयन्रणे ॥ १२१ ॥
अर्चिषः ज्वालाः ॥ १२० – १२१ ॥
तस्योरसि निमनाश्च शरा बर्हिणवाससः ।
[ रेजुर्नीलाद्रिकटके नृत्यन्त इव बहिणः ] ॥ १२२ ॥
बर्हिणवाससः बर्हिणं बर्हिपत्रं वासो वासस्थानं येषां ते तथोक्ताः ।। १२२ ॥
हस्ताच्चापि परिभ्रष्टा पपतोर्व्यां महागदा ।
आयुधानि च सर्वाणि विप्राकीर्यन्त भूतले ॥ १२३ ॥
आयुधानि खड्गादीनि ॥ १२३ ॥
स निरायुधमात्मानं यदा मेने महाबलः ।
मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ॥ १२४ ॥
स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ।
रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ॥ १२५ ॥
कदनं वानराणामिति शेषः ॥ १२४-१२५ ॥
स तीव्रेण च कोपेन रुधिरेण च मूर्च्छितः ।
वानरान्राक्षसानृक्षान्खादन्विपरिधावति ।। १२६ ॥
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः ।
चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥ १२७ ॥
अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः ।
शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ।। १२८ ।।
मूर्च्छितः व्याप्तः ।। १२६–१२८ ॥
तन्मेरुशिखराकारं द्योतमानमिव श्रिया ।
द्वे शते वानरेन्द्राणां पतमानमपातयत् ॥ १२९ ॥
द्वे शते उद्दिश्य पतमानं गच्छन्तं । अपातयत् । शरैरिति शेषः ॥ १२९ ॥
तस्मिन्काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत् ।
कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् १३०
नैवायं वानरान्राजन्नापि जानाति राक्षसान् ।
मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति ॥ १३१ ॥
योगान् परिमृशन् उपायान् विचारयन् ॥ १३०-१३१ ॥
साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः ।
यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः ॥ १३२ ॥
यथा यथायोग्यं ॥ १३२ ॥
अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः ।
प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवङ्गमान् ॥ १३३ ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः ॥ १३४ ॥
कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवङ्गमैः ।
व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ॥ १३५ ॥
भारः वानरारोहणरूपः ॥ १३३–१३५ ।।
तान्दृष्ट्वा निर्धुतान्रामो दुष्टोऽयमिति राक्षसः ।
समुत्पपात वेगेन धनुरुत्तममाददे ॥ १३६ ॥
निर्धुतानिति ह्रस्व आर्षः ॥ १३६ ॥
क्रोधताम्रेक्षणो वीरो निर्दहन्निव चक्षुषा ।
राघवो राक्षसं रोषादभिदुद्राव वेगितः ।
यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान् ॥ १३७ ।।
क्रोधताम्रेत्यादिसार्धश्लोकमेकं वाक्यं ।। १३७ ।।
स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् ।
हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणवाणः ।। १३८ ।।
स वानरगणैस्तैस्तु वृतः परमर्दुर्जयः ।
लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः ॥ १३९ ॥
निबद्धोत्तमतूणबाणः निबद्धोत्तमबाणतूण इत्यर्थः ॥ १३८-१३९ ॥
स ददर्श महात्मानं किरीटिनमरिंदमम् ।
शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ॥ १४० ॥
सर्वान्समभिधावन्तं यथा रुष्टं दिशागजम् ।
मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् ॥ १४१ ॥
विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम् ।
स्रवन्तं रुधिरं वक्राद्वर्षमेघमिवोत्थितम् ॥ १४२ ॥
स दर्शेत्यादिचतुःश्लोक्येकान्वया ॥ १४० – १४२ ॥
जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम् ।
मृगन्तं वानरानीकं कालान्तकयमोपमम् ॥ १४३ ॥
दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् ।
विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ १४४ ॥
स तस्य चापनिर्घोषात्कुपितो राक्षसर्षभः ।
अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ १४५ ।।
ततस्तु बातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम् ।
तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ।। १४६ ।।
कालान्तकयमोपमं । रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वेतिवदेकस्यैवावस्थाभेदात्काला -दिनामभेदः । यद्वा काले युगान्तकाले अन्तको नाशको यमः उपमा यस्य स तथोक्तः ।। १४३-१४६ ॥
आगच्छ रक्षोधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः ।
अवेहि मां शक्रसपत्न रामं मया मुहूर्ताद्भविता विचेताः ॥ १४७ ॥
रामोऽयमिति विज्ञाय जहास विकृतस्वनम् ।
अभ्यधावत संक्रुद्धो हरीन्विद्रावयन्त्रणे ।
पातयन्निव सर्वेषां हृदयानि वनौकसाम् ।। १४८ ।।
मा मां । अविषादं आगच्छेत्यन्वयः । यद्वा विषादं मा गच्छ । मरणेन शरीरभरणक्केशं त्यजेत्यर्थः । आङ् उपसर्गमात्रं ॥ १४७-१४८ ॥
ग्रहस्य विकृतं भीमं स मेघस्तनितोपमम् ।
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ॥ १४९ ॥
नाहं विराधो विज्ञेयो न कबन्धः खरो न च ।
न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ १५० ।।
विकृतमित्यादिविशेषणत्रयं क्रियाविशेषणं ॥ १४९-१५० ।।
पश्य मे मुद्गरं घोरं सर्वकालायसं महत् ।
अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ १५१ ॥
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ।
स्वल्पाऽपि हि न मे पीडा कर्णनासाविनाशनात् ॥ १५२ ।।
पश्य मे मुद्गरमिति । यद्यपि निरायुधत्वं पूर्वमुक्तं तथाप्यद्य मुद्गरं गृहीतवानिति ज्ञेयं । सर्वकालायसं बहुलायसमयमित्यर्थः ॥ १५१–१५२ ॥
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु ।
ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ १५३ ॥
लघु क्षिप्रं । दृष्टपौरुषविक्रमं दृष्टबलपराक्रमम् ॥ १५३ ॥
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान्विससर्ज बाणान् ।
तैराहतो वज्रसमग्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ॥ १५४ ॥
चुक्षुभ इति । क्षोभोत्र मानसः ॥ १५४ ॥
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च ।
ते कुम्भकर्णस्य तदा शैरीरे वज्रोपमा न व्यथयां प्रचक्रुः ॥ १५५ ॥
यैः सायकैरिति । सालभेदकस्य वालिविनाशकस्य च बाणस्यैकत्वेपि बहुवचनं तद्वर्ग्याणामनेकत्वादुपपद्यते ॥ १५५ ।।
स वारिधारा इव सायकांस्तान्पिबञ्शरीरेण महेन्द्रशत्रुः ।
जधान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥ १५६ ।।
शरीरेण पिबन् । शरीरनिमग्नबाण इत्यर्थः । जधान मोघीचकार ।। १५६ ।।
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् ।
विव्याध तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥ १५७ ॥
वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय ।
समुद्गरं तेन जधान बाहुं स कृतबाहुस्तुमुलं ननाद ॥ १५८ ।।
स तस्य बाहुगिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः ।
पपात तस्मिन्हरिराजसैन्ये जधान तां वानरवाहिनीं च ॥ १५९ ॥
विव्याध अचालयत् ॥ १५७–१५९ ॥
ते वानरा भग्रहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः ।
प्रवेषिताङ्गं ददृशुः सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् । १६० ।।
स कुम्भकर्णोस्रनिकृत्तबाहुर्महानिकृत्ताग्र इवाचलेन्द्रः ।
उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ।। १६१ ।।
सन्निपातं द्वन्द्वयुद्धं ॥ १६०-१६१ ॥
से तस्य बाहुं सहसालवृक्षं समुद्यतं पन्नगभोगकल्पम् ।
ऐन्द्रास्त्रयुक्तेन जधान रामो बाणेन जाम्बूनदचित्रितेन ॥ १६२ ॥
ऐन्द्रास्त्रयुक्तेन ऐन्द्रास्त्रमन्त्राभिमन्त्रितेन ॥ १६२ ॥
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसन्निकाशः ।
विवेष्टमानोऽभिजघान वृक्षाशैलान्शिला वानरराक्षसांश्च ॥ १६३ ॥
विवेष्टमानः विवर्तमानः ।। १६३ ॥
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् ।
द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ।। १६४ ।।
प्रगृह्य युगपत्संधाय ॥ १६४ ॥
तौ तस्य पादौ प्रदिशो दिशश्च गिरीन्गुहाश्चैव महार्णवं च ।
लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिषेततुश्च ॥ १६५ ॥
विनाशयन्तौ दिगादीन् प्रतिध्वनयन्तौ ॥ १६५ ॥
निकृत्तबाहुर्बिनिकृत्तपादो विदार्य वक्त्रं बडबामुखाभम् ।
दुद्राव रामं सहसाऽभिगर्जन्राहुर्यथा चन्द्रमिवान्तरिक्षे ।। १६६ ।।
अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः ।
स पूर्णवक्रो न शशाक वक्तुं चुकूज कृच्छ्रेग मुमोह चापि ॥ १६७ ॥
दुद्राव राममिति । ऊरुशेषाभ्यामिदं । अन्यथेदं गमनं वक्ष्यमाणं पतनं च न संभवतः । राहुर्यथेति । चन्द्रमिव स्थितं रामं राहुर्यथा तथा कुम्भकर्ण इत्यर्थः ।। १६६ – १६७ ॥
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् ।
अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ।। १६८ ।।
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् ।
महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥ १६९ ॥
अरिष्टं रिपूणामशुभप्रदं । अरिष्टे तु शुभाशुभे इत्यमरः ।। १६८-१६९ ॥
स सायको राघवबाहुचोदितो दिशः स्सभासा दश संप्रकाशयन् ।
सधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः ॥ १७० ॥
स तन्महापर्वतकूटसन्निभं विवृत्तदंष्ट्रं चलचारुक्कुण्डलम् ।
चकर्त रक्षोधिपतेः शिरस्तथा यथैव वृत्रस्य पुरा पुरंदरः ।। १७१ ।।
वैश्वानरः अग्निः ।। १७०-१७१ ॥
कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत् ।
आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥ १७२ ॥
कुंभकर्णेति । कर्तनवेगादुद्गतं गगने स्थितं । रात्रौ आदित्ये अदितिदेवताके पुनर्वसुनक्षत्रे तारकाद्वयात्मके । अभ्युदिते तन्मध्यगतश्चन्द्रमा इव बभावित्यर्थः ॥ १७२ ।।
तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसन्निकाशम् ।
बभज्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥ १७३ ॥
चर्याः प्राकारोपान्तकृप्तभटसंचारार्हप्रदेशाः ॥ १७३ ॥
न्यपतत्कुम्भकर्णोथ स्वकायेन निपातयन् ।
लवङ्गमानां कोट्यञ्च परितः संप्रधावताम् ॥ १७४ ॥
कोट्यः कोटीः ॥ १७४ ॥
तच्चातिकायं हिमवत्प्रकाशं रक्षस्ततस्तोयनिधौ पपात ।
ग्राहान्वरान्मीनवरान्भुजङ्गान्ममर्द भूमिं च तदा विवेश ॥ १७५ ॥
तस्मिन्हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे ।
चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ १७६ ॥
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः ।
सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ॥ १७७ ॥
ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः ।
विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः ॥ १७८ ॥
रक्षः कबन्धरूपं । भूमिं तदा विवेश । भूमिमस्पृशदित्यर्थः ॥ १७५–१७८ ॥
स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद्विमुक्तः ।
तथा व्यभासीद्भुवि वानरौघे निहत्य रामो युधि कुम्भकर्णम् ।। १७९ ॥
वानरौघे वानरौघमध्ये ॥ १७९ ॥
प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः ।
अपूजयन्राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ १८० ॥
प्रबुद्धपद्मप्रतिमैरिति । प्रतिमाशब्दोत्र रूपवचनः नतु सदृशवचनः इवशब्दप्रयोगात् । इष्टभागिनं जयरूपेष्टभाजं ॥ १८० ॥
स कुम्भकर्णं सुरसङ्घमर्दनं महत्सु युद्धेषु पराजितश्रमम् ।
ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥ १८१ ॥
पराजितश्रमं व्यक्तश्रमं । अत्र सर्गे अधिकाः केचन श्लोकाः क्वापि क्वापि दृश्यन्ते ते न व्याख्याताः । अस्मिन्सर्गे सार्धषट्षष्ट्युत्तरशतश्लोकाः ॥ १८१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ॥