श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्चत्वारिंशः सर्गः
ससुप्रीवेणविभीषणेन इन्द्रजिन्नागपाशनिबद्धमुग्धरामलक्ष्मणसमीपंप्रत्यागमनम् ॥ १ ॥ विभीषणेन राघवावस्थानावलोकनेनशोचतस्सुग्रीवस्य समाश्वासनपूर्वकं कार्यान्तराय गमनम् ॥ २ ॥ राक्षसप्रहर्षणपूर्वकं लङ्कांप्रविष्टेनेन्द्रजिता रावणंप्रतिसप्रणामं स्वेनरामलक्ष्मणमारण -कथनम् ॥ ३ ॥
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।
ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ १ ॥
अथ पूर्वसर्गोक्तमनुवदति – तत इत्यादि ॥ द्या आकाशं । सन्ततौ व्याप्तौ ॥ १ ॥
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे ।
आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ २ ॥
वृष्ट्वा उपरते देव इव स्थिते राक्षसे । कृतकर्मणि कृतशरवर्षरूपकर्मणि सति । तं देशं रामस्थानं ॥ २ ॥
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः ।
तूर्णे हनुमता सार्धमन्वशोचन्त राघवौ ॥ ३ ॥
नीलेति नीलादयः सुग्रीवात्पूर्वमेवागताः ॥ ३ ॥
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ।
शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ॥ ४ ॥
निश्वसन्तौ यथा सर्पो निश्रेष्टौ मन्दविक्रमौ ।
रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ॥ ५ ॥
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ ।
यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ ६ ॥
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ ।
बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ॥ ७ ॥
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः ।
न चैनं मायया च्छन्नं ददृशू रावणिं रणे ॥ ८ ॥
अचेष्टावित्यादिचतुःश्लोक्येकान्वया ॥ अचेष्टौअतएव स्तब्धौ निश्चलौ । मध्ये मध्ये मन्दनिश्वासौ मध्ये मध्ये निश्चेष्टौ । कदाचित्सर्पाविव निश्वसन्तौ कदाचिन्मन्दचेष्टितौ च । अत्र पुनरुक्तयो दुःखातिरेकात् । यद्वा अचेष्टाविति श्लोकः पूर्वश्लोकेनान्वितः ॥ ४–८ ॥
तं तु मायाप्रतिच्छन्नं माययैव विभीषणः ।
वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ॥ ९ ॥
माययैवेति । अन्तर्हितस्तुदर्शनहेतुभूतया विद्ययेत्यर्थः ॥ ९ ॥
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।
ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ॥ १० ॥
तेजसा यशसा चैव विक्रमेण च संयुतम् ॥ ११ ॥
अप्रतिद्वन्द्वं निःसमं । वरदानादन्तर्हितमित्यन्वयः । तेजसेत्यर्धं पूर्वेणान्वेति ।। १० – ११ ।।
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।
उवाच परमप्रीतो हर्षयन्सर्वनैर्ऋतान् ॥ १२ ॥
आत्मनः कर्म नागास्त्रबन्धरूपं । शयानौ तौ च वीक्ष्येत्यन्वयः ॥ १२ ॥
दूषणस्य च हन्तारौ खरस्य च महाबलौ ।
सादितौ मामकैर्वाणैर्भ्रातरौ रामलक्ष्मणौ ॥ १३ ॥
सादितौ पश्यतेति शेषः ॥ १३ ॥
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।
सर्वैरपि समागम्य सर्पिसङ्घैः सुरासुरैः ॥ १४ ॥
समागम्य सङ्घीभूय ॥ १४ ॥
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।
अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ॥ १५ ॥
यत्कृते यन्निमित्तं गात्रैः शयनमस्पृष्ट्वा चिन्तयानस्यैव मम पितुः त्रियामा याति । यत्पौरुषभयान्मम पिता शर्वर्यामेकस्मिन्नपि यामे न निद्रातीत्यर्थः ॥ १५ ॥
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।
सोयं मूलहरोऽनर्थः सर्वेषां निहतो मया ॥ १६ ॥
लङ्का लङ्कास्थजनः । आकुला नदीपक्षे आविलेत्यर्थः । लङ्कापक्षे व्यग्रेत्यर्थः । सर्वेषामस्माकं मूलहरः अनर्थः अनर्थकरो रामः ॥ १६ ॥
रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम् ।
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥ १७ ॥
विक्रमाः सेतुबन्धनादयः ॥ १७ ॥
एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वतः ।
यूथपानपि तान्सर्वांस्ताडयामास रावणिः ॥ १८ ॥
नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ।
त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ।। १९ ।।
परिपार्श्वतः समीपतः ॥ १८-१९ ।।
जाम्बवन्तं महेष्वासो विद्धा बाणेन वक्षसि ।
हनूमतो वेगवतो विससर्ज शरान्दश ॥ २० ॥
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ ।
द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥ २१ ॥
हनूमतः हनूमदर्थमित्यर्थः । संबन्धसामान्ये षष्ठी ॥ २०-२१ ॥
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ।
विव्याध बहुभिर्बाणैस्त्वरमाणोथ रावणिः ॥ २२ ॥
तान्वानरवरान्भित्त्वा शरैरग्निशिखोपमैः ।
ननाद बलवांस्तत्र महासत्त्वः स रावणिः ॥ २३ ॥
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान् ।
प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ २४ ॥
गोलाङ्गूलेश्वरं गवाक्षं ॥ २२ – २४ ॥
शरबन्धेन घोरेण मया बद्धौ चमूमुखे ।
सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ २५ ॥
निशामयत पश्यत ॥ २५ ॥
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।
परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ॥ २६ ॥
विनेदुश्च महानादान्सर्वतो जलदोपमाः ।
हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ २७ ॥
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ ।
वसुधायां निरुच्छ्रासौ हतावित्यन्वमन्यत ॥ २८ ॥
हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः ।
प्रविवेश पुरीं लङ्कां हर्षयन्सर्वराक्षसान् ॥ २९ ॥
कूटयोधिनः कपटयोधिनः ॥ २६ – २९ ।
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते ।
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ ३० ॥
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।
सवाष्पवदनं दीनं शोकव्याकुललोचनम् ॥ ३१ ॥
शरीरे इति प्रत्येकापेक्षया द्विवचनं । अङ्गानि करादीनि । उपाङ्गानि अङ्गुल्यादीनि । अत्रापि शरैश्चितानीति योज्यं दृष्ट्वा स्थित इति सुग्रीवो विशेषणीयः ॥ ३०-३१ ॥
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् ।
एवंप्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ३२
एवंप्रायाणि एवंविधानि । प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि इति विश्वः । नैष्ठिक: नियतः ॥ ३२ ॥
सशेषभाग्यताऽस्माकं यदि वीर भविष्यति ।
मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ॥ ३३ ॥
सशेषभाग्यतेति । अस्माकं भाग्यशेषं यद्यस्तीत्यर्थः ॥ ३३ ॥
पर्यवस्थापयात्मानमनाथं मां च वानर ।
सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ॥ ३४ ॥
पर्यवस्थापयामानं मनो निश्चलं कुरु । स्वात्मपर्यवस्थापनेन मां च पर्यवस्थापय । धैर्यं कारयेत्यर्थः । पर्यवस्थापने हेतुमाह – सत्येति । मृत्युकृतं अपमृत्युकृतं ॥ ३४ ॥
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना ।
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥ ३५ ॥
जलक्लिन्नेन जलसिक्तेन ॥ ३५ ॥
ततः सलिलमादाय विद्यया परिजप्य च ।
सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ॥ ३६ ॥
एवममाङ्गल्यनिवृत्त्यर्थं श्रान्तिनिवृत्त्यर्थं वा नेत्रे प्रमृज्य राक्षसमाया परिज्ञानेनाप्यस्य धैर्यसंपादनाभिप्रायेण विद्याभिमन्त्रितजलेनापि ममार्जेत्याह – तत इति ॥ विद्यया राक्षसमायादर्शनहेतुमन्त्रेण । परिजप्य अभिमन्त्र्य ॥ ३६ ॥
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ।
अब्रवीत्कालसंप्रांप्तमसंभ्रममिदं वचः ॥ ३७ ॥
कालसंप्राप्तं तत्कालोचितं । असंभ्रमं अव्याकुलमिति क्रियाविशेषणं ।। ३७ ।।
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् ।
अतिस्नेहोप्यकालेऽस्मिन्मरणायोपकल्पते ॥ ३८ ॥
वैक्लव्यं अधैर्यं । किं करोमि अतिस्नेह एवं बाधत इत्यत्राह-अतिस्त्रेहोपीति ॥ ३८ ॥
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ।
हितं रामपुरोगाणां सैन्यानामनुचिन्त्यैताम् ॥ ३९ ॥
एवं व्यक्तव्यमुक्त्वा कर्तव्यमुपदिशति – तस्मादिति ॥ वैक्लब्यमिति स्नेहस्याप्युपलक्षणं । रामपुरोगाणां रामप्रभृतीनां । रामशरण्यानामित्यर्थः ॥ ३९ ॥
अथवा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः ।
लब्धसंज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ॥ ४० ॥
संज्ञाविपर्ययः मूर्च्छा । यावदनुवर्तते तावद्रक्ष्यतामित्यर्थः ॥ ४० ॥
नैतत्किंचन रामस्य न च रामो मुमूर्षति । ।
ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ॥ ४१ ॥
एवंभूतयोः कथं संज्ञाप्राप्तिस्तत्राह—नैतदिति । एतत् शस्त्रबन्धनं । रामस्य न किंचन । इदमसत्प्रायं बाधकं न भवतीत्यर्थः । अतो न मुमूर्षति । मरिष्यतीति शङ्का न कर्तव्येव्यर्थ: । आशङ्कायामुपसंख्यानं इति म्रियते सन् । एतच्च जीवनलिङ्गशरीरसौभाग्येन निश्चीयत इत्याह – नहीति । गतायुषां मृतानां । या लक्ष्मीः मुखकान्तिः । दुर्लभा । सा च एनं न हास्यते । न जहातीत्यर्थः । जीवनानुकूला लक्ष्मीर्दृश्यत इत्यर्थः ॥ ४१ ॥
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् ।
यावत्कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ॥ ४२ ॥
यावत् यावत्पर्यन्तं । सर्वाणि कार्याणि कर्तव्यानि पुनः संस्थापयामि । तावत्पर्यन्तमाश्वासयेत्यन्वयः । केचित्तु यावत्कार्याणि यावन्ति कर्तव्यानि । तानि सर्वाणीत्याहुः ॥ ४२ ॥
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः ।
कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ॥ ४३ ॥
मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम् ।
त्यजन्तु हरयस्रासं भुक्तपूर्वामिव स्रजम् ॥ ४४ ॥
पर्यवस्थापनं किमर्थमित्यत्राह – एते हीति ।। आगतसाध्वसाः प्राप्तभयविकाराः । ते च विकाराः पुलकादयः । प्रकथिताः पलायनार्थं प्रवृत्तकथा इत्यर्थः । संप्रहर्षितुमित्यनन्तरं अर्हसीत्यध्याहार्यं । प्रधावन्तं इन्द्रजिद्भ्रामेणेति भावः । इदमनीकविशेषणं । गच्छामीति वाध्याहार्यं । संप्रहर्षितुं भयान्निवर्तयितुमिति यावत् । तदेवाह – त्यजन्त्विति ॥ ४३ – ४४ ॥
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।
विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ॥ ४५ ॥
समाश्वासयत् नाहमिन्द्रजित्किंतु विभीषण इति समाश्वासयदित्यर्थः ॥ ४५ ॥
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः ।
विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ ४६ ॥
कथासंघट्टनाय पूर्वोक्तमनुवति – इन्द्रजित्त्विति ॥ ४६ ॥
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः ।
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ ४७ ॥
रामलक्ष्मणावित्यनन्तरमितिकरणं ज्ञेयं ॥ ४७ ॥
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे ।
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ।
उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ॥ ४८ ॥
उत्पपात आसनादिति शेषः ॥ ४८ ॥
पृच्छते च यथावृत्तं पित्रे सर्वे न्यवेदयत् ।
यथा तौ शरबन्धेन निश्रेष्टौ निष्प्रभौ कृतौ ॥ ४९ ॥
यथावृत्तं वृत्तमनतिक्रम्य । इदमेव विवृणोति यथा ताविति ॥ ४९ ॥
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य ।
जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाऽभिननन्द पुत्रम् ।। ५० ।।
हर्षवेग: हर्षातिशय : तेनानुगतो व्याप्तः अन्तरात्मा मनो यस्य स तथोक्तः । दाशरथे: निमित्तात् । ज्वरं चिन्तासंतापं । अनया राज्या प्रतिपद्गतेत्यूचुः ॥ ५० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्चत्वारिंशः सर्गः ॥ ४६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥