श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकषष्टितमः सर्गः
लङ्कायांराजमार्गेगच्छन्तंकुंभकर्णमवलोकयतारामेण विभीषणंप्रति तत्स्वरूपप्रश्नः ॥ १ ॥ विभीषणेन रामंप्रति कुंभकर्णस्वरूपनिरूपणम् ॥ २ ॥ रामेणनीलंप्रति रणायसेनासज्जी -करणनियोजनम् ॥ ३ ॥
ततो रामो महातेजा धनुरादाय वीर्यवान् ।
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ ॥
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।
क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।।
सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ॥ २ ॥
अथ रामेण कुम्भकर्णस्वरूपप्रश्न : विभीषणेन तदुत्तरं च क्रियत एकषष्टितमे— तत इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ तं दृष्ट्वा धनुरादाय पुनर्विशेषेण ददर्शेति योजना । महाकायं उन्नतकायं । पर्वताकारदर्शनं । दृश्यत इति दर्शनं शरीरं । पर्वतवत्स्थूलशरीरमित्यर्थः । काञ्चनाङ्गदभूषणं काञ्चनमयाङ्गदभूषणं । अतएव सतोयाम्बुदः वर्षकमेघ: तत्सदृशं ॥ १-२ ।।
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३ ॥
दृष्ट्वेत्यर्धं ।। कुम्भकर्णमिति शेषः ॥ ३ ॥
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।
सविस्मयमिदं रामो विभीषणमुवाच ह ॥ ४ ॥
सविस्मयमिति क्रियाविशेषणं । वर्धमानमिति कामरूपत्वादिति भावः ॥ ४ ॥
कोसौ पर्वतसंकाशः किरीटी हरिलोचनः ।
लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ।। ५ ।।
पृथिव्याः केतुभूतोसौ महानेकोत्र दृश्यते ।
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६ ॥
आचक्ष्व मे महान्कोसौ रक्षो वा यदि वाऽसुरः ।
न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ ७ ॥
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।
विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८ ॥
हरिलोचनः कपिलेक्षणः । हरिर्ना कपिले त्रिषु इत्यमरः ।। ५-८ ।।
येन वैवस्वतो युद्धे वासवश्च पराजितः ।
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।
अस्य प्रमाणात्सदृशो राक्षसोन्यो न विद्यते ॥ ९ ॥
सैष इत्यत्र सोचि लोपे चेत्पादपूरणं इति सुलोपः । प्रमाणं स्थौल्यौन्नत्ये ॥ ९ ॥
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गा पिशिताशनाश्च ।
गन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव संप्रभग्नाः ।। १० ।।
संप्रभग्नाः अभज्यन्त ॥ १० ॥
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।
हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११ ॥
विरूपाक्षं विकटाक्षं । मोहिताः भ्रान्ताः ॥ ११ ॥
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ।। १२ ।।
प्रकृत्या तेजस्वी स्वप्रभावेन बलवान् । न तु वरप्रदानेनेत्यर्थः । अन्येषां रावणादीनां भवतीति शेषः ॥ १२ ॥
एतेन जातमात्रेण क्षुधार्तेन महात्मना ।
भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥ १३ ॥
तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः ।
यान्तिस्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४ ॥
कुंभकर्णं कुपितो महेन्द्रो जधान वज्रेण शितेन वज्री ।
स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ १५ ॥
प्रकृत्या तेजस्वित्वमुपपादयति — एते नेत्यादिना ॥ १३-१५ ॥
तस्य नानद्यमानस्य कुंभकर्णस्य धीमतः ।
श्रुत्वाऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ।। १६ ।।
नानद्यमानस्य अतिशयेन नदतः । वित्रस्ता भूमिः भूयो वितत्रसे उत्तरोत्तरं भीताऽभूत् ॥ १६ ॥
तत्र कोपान्महेन्द्रस्य कुंभकर्णो महाबलः ।
विकृष्यैरावताद्दन्तं जधानोरसि वासवम् ।। १७ ।।
तत्र तदानीं । विकृष्य उत्पाट्य ॥ १७ ॥
कुंभकर्णप्रहारार्तो बिजज्वाल स वासवः ।
ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥ १८ ॥
विजज्वाल चुकोपेति यावत् ॥ १८ ॥
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयंभुवः ।
कुंभकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ।। १९ ।।
ते शक्रायः । प्रजापतेः प्रजापतये ॥ १९ ॥
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।
आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ २० ॥
दौरात्म्यं प्रपञ्चयति -प्रजानामित्यादि ॥ २० ॥
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।
अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ २१ ॥
एवं इदानींक्रियमाणप्रकारेण । यदि भक्षयिष्यतीत्यन्वयः ॥ २१ ॥
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।
रक्षांस्यावाहयामास कुंभकर्णं ददर्श ह ॥ २२ ॥
प्राधान्याद्वासवग्रहणं । कुम्भकर्णं तेष्विति शेषः ।। २२ ।।
कुंभकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।
दृष्ट्वा विश्वास्य चैवेदं स्वयंभूरिदमब्रवीत् ॥ २३ ॥
इदं रक्षः इदं वक्ष्यमाणमिति इदंशब्दद्वयनिर्वाहः । विश्वास्य प्रलोभ्य । सान्त्वपूर्वकं समीपमानीयेत्यर्थः ॥ २३ ॥
ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।
तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ २४ ॥
पौलस्त्येन विश्रवसा तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे इत्ययंशाप: स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् । एवमस्त्विति तच्चोक्त्वा प्रहृष्टास्ते दिवौकसः इति तपश्चर्यानन्तरप्रार्थनालब्धबहुवार्षिक निद्रासमनन्तरकालभावीत्यवगन्तव्यं । अन्यथा मृतकल्पः शयिष्यस इति शप्तस्य तपश्चर्याद्यसंभवात् ॥ २४ ॥
ब्रह्मशापाभिभूतोथ निपपाताग्रतः प्रभोः ।
ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ॥ २५ ॥
प्रभोः रावणस्य ॥ २५ ॥
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।
न नप्तारं स्वकं न्याय्यं शप्तमेवं प्रजापते ॥ २६ ॥
काश्चनः काञ्चनवत् स्पृहणीयः । चम्पकवृक्षो वा । विवृद्धः वर्धितः। फलकाले पुष्पकाले निकृत्यते छिद्यते । नप्तारं पौत्रं ॥ २६ ॥
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।
कालस्तु क्रियतामस्य शयने जागरे तथा ॥ २७ ॥
रावणस्य वचः श्रुत्वा स्वयंभूरिदमब्रवीत् ॥ २८ ॥
कालः कालनियमः ॥ २७–२८ ।।
शयिता ह्येष षण्मासानेकाहं जागरिष्यति ।
एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः ।
व्यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः ॥ २९ ॥
षण्मासानित्येतदर्वाङ्निषेधपरं । अन्यथा नव षट् सप्त चाष्टौ च मासानिति पूर्वोक्तविरोधात् ॥ २९ ॥
सोसौ व्यसनमापन्नः कुंभकर्णमबोधयत् ।
त्वत्पराक्रमभीतश्च राजा संप्रति रावणः ॥ ३० ॥
सोसौ रावणः ॥ ३० ॥
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।
वानरान्भृशसंक्रुद्धो भक्षयन्परिधावति ॥ ३१ ॥
कुंभकर्णं समीक्ष्यैव हरयोद्य प्रविद्रुताः ।
कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ३२ ॥
शिबिरात् स्वनिलयात् । भक्षयन् परिधावति भक्षणहेतोः परि धाविष्यति । लक्षणहेत्वोः क्रियायाः इति शतृप्रवर्तमानसामीप्यादिना भविष्यदर्थे लट् ।। ३१ – ३२ ।।
उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् ।
इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ ३३ ॥
यन्त्रं विभीषिका । समुच्छ्रितं उन्नतं ॥ ३३ ॥
बिभीषणवचः श्रुत्वा हेतुमत्सुमुखेरितम् ।
उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ३४ ॥
सुमुखेरितं सुमुखं यथा भवति तथा ईरितं उक्तं ॥ ३४ ॥
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।
द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान् ॥३५॥
शैलशृङ्गाणि वृक्षांश्च शिलाश्वाप्युपसंहर ।
तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ ३६ ॥
राघवेण समादिष्टो नीलो हरिचमूपतिः ।
शशास वानरानीकं यथावत्कपिकुञ्जरः ॥ ३७ ॥
ततो गवाक्षः शरभो हनुमानङ्गदस्तथा ।
शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ३८ ॥
गच्छेत्यादिश्लोकद्वयं ॥ आदाय स्वीकृत्य । आवृत्येति यावत् । उपसंहर राशीकुरु । युद्धसाधनशिलादिकामिदानीमेव संपादयेत्यर्थः । तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणय इति पाठः । सायुधाः खड्गाद्यायुधवन्तः ॥ ३५-३८ ॥
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।
पादपैरर्दयन्वीरा वानराः परवाहिनीम् ॥ ३९ ॥
परवाहिनीं नगररक्षार्थं बहिश्चरन्तीं । यद्वा कुम्भकर्णं दृष्ट्वा पलायमानान्वानरान्प्रत्यनुद्रुतां परवाहिनीमित्यर्थः ॥ ३९ ॥
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम् ।
गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ ४० ॥
शैलोद्यतदीप्तहस्तं शैलोद्यता: उद्यतशैलाः । महन्महाम्भोधरजालं । महत् गुरु महाम्भोघरजालं मेघजालमित्यर्थः ॥ ४० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥