श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विसप्ततितमः सर्गः
अतिकायनिधनश्रवणविषण्णेनरावणेन धूम्राक्षप्रभृतिबन्धुजनस्मरणेनतच्छोचनपूर्वकं राक्षसान्प्रतिविशेषतो नगरादिरक्षणनियोजनपूर्वकं भवनप्रवेशः ॥ १ ॥
अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा ।
उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ॥ १ ॥
धूम्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः ।
अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥ २ ॥
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः ।
जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ ३ ॥
निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा ।
राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ।
अन्ये च बहवः शूरा महात्मानो निपातिताः ॥ ४ ॥
अथ रावणचिन्ता – अतिकायमित्यादि ॥ १-४ ॥
प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ।
यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः ॥ ५ ॥
यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ।
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः ॥ ६ ॥
तन्न जाने प्रभावैर्वा मायया मोहनेन वा ।
शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ॥ ७ ॥
ये योधा निर्गताः शूरा राक्षसा मम शासनात् ।
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः ॥ ८ ॥
तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् ।
शासयेत्सबलं वीरं ससुग्रीवविभीषणम् ॥ ९ ॥
प्रख्यातेत्यादिश्लोकत्रयमेकं वाक्यं ॥ वीरौ यौ भ्रातरौ खरदूषणादिवधेन प्रसिद्धौ तावपि बद्धौ । तदेव बन्धनं वर्णयति – यदिति ॥ यद्बन्धनं सुरादिभिः मोक्तुं मोचयितुं । अशक्यं तद्बन्धनं घोरं । भ्रातरौ तौ शरबन्धाद्विमुक्ताविति यत् तत्प्रभावादिषु केन वा जातं न जान इत्यन्वयः । प्रभावः सामर्थ्यं । माया व्यामोहकारिणी विद्या । मोहनं औषधादिकं ॥ ५९ ॥
अहो नु बलवान्रामो महदस्रबलं च वै ।
यस्य विक्रममासाद्य राक्षसा निधनं गताः ॥ १० ॥
तं मन्ये राघवं वीरं नारायणमनामयम् ।
तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ॥ ११ ॥
अहो न्वित्यादिश्लोकद्वयमेकान्वयं ॥ पिहितद्वारतोरणा द्वारं अन्तर्द्वारं तोरणंबहिर्द्वारं ॥ १०-११ ।।
अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम् ॥ १२ ॥
एवं रामप्रभावं सप्रपञ्चमुक्त्वा सैन्यं प्रति पुरीरक्षणं नियमयति — अप्रमत्तैरित्यादिना ॥ गुप्तैः स्वयं कृतरक्षणैः । गुल्मैरिति वा पाठः ॥ १२ ॥
अशोकवनिकायां च यत्र सीताऽभिरक्ष्यते ।
निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ॥ १३ ॥
यत्र सीता अभिरक्ष्यते तत्र अशोकवनिकायां । निष्क्राम: निर्गम: प्रवेशो वा । नः अस्माभिः । ज्ञातव्यः । मदनुज्ञां विना न कोपि जनो निर्गमयितव्यो नापि प्रवेष्टव्य इत्यर्थः ।। १३ ।।
यत्र यत्र भवेद्गुल्मस्तत्र तत्र पुनः पुनः ।
सर्वतश्चापि तिष्ठध्वं स्वैः स्वैः परिवृता बलैः ॥ १४ ॥
गुल्म: सेनासन्निवेश: ॥ १४ ।।
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः ।
प्रदोषे वाऽर्धरात्रे वा प्रत्यूषे वाऽपि सर्वतः ॥ १५ ॥
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन ।
द्विषतां बलमुद्युक्तमापतत्किंस्थितं सदा ॥ १६ ॥
ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत् ।
वचनं सर्वमातिष्ठन्यथावत्तु महाबलाः ॥ १७ ॥
स तान्सर्वान्समादिश्य रावणो राक्षसाधिपः ।
मन्युशल्यं वहन्दीनः प्रविवेश स्वमालयम् ॥ १८ ॥
ततः स संदीपितकोपवह्निर्निशाचराणामधिपो महाबलः ।
तदेव पुत्रव्यसनं विचिन्तयन्मुहुर्मुहुश्चैव तदा व्यनिश्वसत् ॥ १९ ॥
द्रष्टव्यमित्यादिश्लोकद्वयमेकान्वयं ।। पदं व्यवसितं । दर्शनप्रकारमाह — द्विषतामिति । द्विषतां बलं स्थितं किं । उद्युक्तं उद्यतं किं । आपतन्तं । लिङ्गादिव्यत्यय आर्ष: । आपतत् किमिति सदा द्रष्टव्यमित्यर्थः । आपतत्किमिति पाठः सुशोभन: ।। १५ – १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ ७२ ॥