श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्सप्ततितमः सर्गः
अङ्गदेन कंपनप्रजङ्घयोर्वधः ॥ १ ॥ मैन्दद्विविदाभ्यां यूपाक्षशोणिताक्षयोर्वधः ॥ २ ॥ सुग्रीवेणकुंभवधः ॥ ३ ॥
प्रवृत्ते संकुले तस्मिन्घोरे वीरजनक्षये ।
अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ १ ॥
अथ कुम्भवधः षट्सप्ततितमे – प्रवृत्त इत्यादि ॥ संकुले निरन्तरे ॥ १ ॥
आहूय सोङ्गदं कोपात्ताडयामास वेगितः ।
गदया कम्पनः पूर्वं स चचाल भृशाहृतः ॥ २ ॥
आहूय स्पर्धयित्वा । ह्नेन् स्पर्धायां शब्दे च इति धातोर्ल्यप् । वेगितः संजातवेगः । तारकादित्वादितच् । सः अङ्गदः ॥ २ ॥
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः ।
अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ ३ ॥
चिक्षेप कम्पनोरसीति शेषः ॥ ३ ॥
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे ।
रथेनाभ्यपतत्क्षिप्रं तत्राङ्गदमभीतवत् ॥ ४ ॥
कम्पनं इतमि- त्यन्वयः । तत्र कम्पनयुद्धस्थाने । अभीतवत् । अभीतमिति क्रियाविशेषणं ॥ ४ ॥
सोङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः ।
शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ॥ ५ ॥
कालाग्निसमविग्रहैः कालाग्नितुल्याकारैरित्यर्थः ॥ ५ ॥
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः ।
कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ॥ ६ ॥
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् ।
धनुरग्र्यं रथं बाणान्ममर्द तरसा बली ॥ ७ ॥
क्षुरेत्यादि । क्षुरः नापितशस्त्राकारमुखः क्षुरप्रः अर्धचन्द्राकृतिः । नाराचः शल्यकः । वत्सदन्तैः वत्सदन्ताकारमुखैः । शिलीमुखैः कङ्कपत्राकारमुखैः । उभयपार्श्वकृतकर्ण: कर्णी । अर्धनाराचः शल्यः । विपाठः करवीरपत्राग्रसदृशः ॥ ६–७ ॥
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे ।
उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ॥ ८ ॥
असिश्चर्म चेत्यसिचर्म । एकवद्भावः । उत्पपात । रथादिति शेषः ॥ ८ ॥
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली ।
करेण तस्य तं खङ्गं समाच्छिद्य ननाद च ॥ ९ ॥
परामृश्य प्रगृह्य ॥ ९ ॥
तस्यांसफलके खड्गं निजघान ततोऽङ्गदः ।
यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ॥ १० ॥
चिच्छेद । छिन्नस्तु न मृतः ॥ १० ॥
तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः ।
वालिपुत्रोऽभिदुद्राव रणशीर्षेऽपरानरीन् ।। ११ ॥
अपरान् प्रजङ्घादीन् ॥ ११ ॥
आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः ।
शोणिताक्षः समाविध्य तमेवानु पपात ह ॥ १२ ॥
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली ।
रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥ १३ ॥
[ प्रजङ्घस्तु महावीरो यूपाक्षसहितो बली ।
गदयाऽभिययौ क्रुद्धो वालिपुत्रं महाबलम्] ॥ १४ ॥
तमेव अङ्गदमेव ॥ १२–१४ ॥
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः ।
विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ।। १५ ।।
तयोरिति । यूपाक्षस्य दूरस्थत्वादनुक्तिः ।। १५ ।।
अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च ।
तस्य तस्यतुरभ्याशे परस्परदिदृक्षया ॥ १६ ॥
परिरक्षन्तौ । मातुलत्वादिति भावः । परस्परदिदृक्षया । स्वानुरूपप्रतिभटराक्षसजिज्ञास -येत्यर्थः ॥ १६ ॥
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः ।
राक्षसा वानरान्रोषादसिचर्मगदाघराः ॥ १७ ॥
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः ।
संसक्तानां महयुद्धमभवद्रोमहर्षणम् ॥ १८ ॥
ते तु वृक्षान्समादाय संप्रचिक्षिपुराहवे ।
खड्गेन प्रतिचिच्छेद तान्प्रजङ्घो महाबलः ॥ १९ ॥
प्रतियत्ताः प्रतियत्नवन्तः । गुणाधानं प्रतियत्नः । आरोपितवीर्या इत्यर्थः ।। १७-१९ ॥
रथानश्वान्द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे ।
शरौघैः प्रतिचिच्छेद तान्यूपाक्षो निशाचरः ॥ २० ॥
रथानश्वान् । प्रतीति शेषः ॥ २० ॥
सृष्टान्द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् ।
बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥ २१ ॥
उत्पाट्य सृष्टानित्यन्वयः ॥ २१ ॥
उद्यम्य विपुलं खड्गं परमर्मनिकृन्तनम् ।
प्रजङ्घो बालिपुत्राय अभिदुद्राव वेगितः ॥ २२ ॥
वालिपुत्राय वालिपुत्रं हन्तुं । क्रियार्थोपपदस्य च कर्मणि स्थानिन: इति चतुर्थी ॥ २२ ॥
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः ।
आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ॥ २३ ॥
वानरेन्द्रः अङ्गदः ॥ २३ ॥
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना ।
वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥ २४ ॥
सनिस्त्रिंशं सखड्गं ॥ २४ ॥
तं दृष्ट्वा पतितं भूमौ खैगमुत्पलसन्निभम् ।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ २५ ॥
ललाटे स महावीर्यमङ्गदं वानरर्षभम् ।
आजघान महातेजाः स मुहूर्तं चचाल ह ॥ २६ ॥
स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् ।
प्रजङ्घस्य शिरः कायात्खङ्गेनापातयत्क्षितौ ॥ २७ ॥
स यूपाक्षोश्रुपूर्णाक्षः पितृव्ये निहते रणे ।
अवरुह्य रथात्क्षिप्रं क्षीणेषुः खङ्गमाददे ॥ २८ ॥
तमापतन्तं संप्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् ।
आजधानोरसि क्रुद्धो जग्राह च बलाद्बली ॥ २९ ॥
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः ।
आजघान गदाग्रेण वक्षसि द्विविदं ततः ॥ ३० ॥
स गदाभिहतस्तेन चचाल च महाबलः ।
उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ॥
[ तया च गदया क्षिप्रं तयोरुरसि ताडयत् ] ॥ ३१ ॥
एतस्मिन्नन्तरे वीरो मैन्दो वानरयूथपः ।
यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ॥ ३२ ॥
उत्पलसन्निभं । नीलोत्पलसमानकान्तिमित्यर्थः । महाबलः प्रजङ्घः ।। २५ – ३२ ॥
[ एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत् ॥ ]
तौ शोणिताक्षयूपाक्षौ लवङ्गाभ्यां तरस्विनौ ॥
चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥ ३३ ॥
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे ।
निष्पिपेष च वेगेन क्षितावाविध्य वीर्यवान् ॥ ३४ ॥
यूपाक्षमपि संक्रुद्धो मैन्दो वानरयूथपः ।
पीडयामास बाहुभ्यां स पपात हतः क्षितौ ॥ ३५ ॥
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा ।
जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ॥ ३६ ॥
प्लवङ्गाभ्यां मैन्दद्विविदाभ्यां । आकर्षोत्पाटनं आकर्षणताडने । अन्योन्यमिति शेषः ॥ ३३ – ३६ ।।
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ॥ ३७ ॥
आपतन्तीमित्यर्धं ॥ सान्त्वयत् असान्त्वयत् ॥ ३७ ॥
अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवङ्गमैः ।
निपातितमहावीरां दृष्ट्वा रक्षश्चमूं ततः ।
कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥ ३८ ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ।
मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥ ३९ ॥
अथेत्यादिसार्धश्लोक एकान्वयः ॥ लब्धलक्षै: अप्रतिद्वन्द्विभिः ॥ ३८-३९ ।।
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् ।
विद्युदैरावतार्चिष्मद्वितीयेन्द्रधनुर्यथा ॥ ४० ॥
विद्युदैरावताभ्यां अर्चिष्मत् । ज्यास्थानीया विद्युत् । बाणस्थानीयमैरावतं । ऐरावतं नाम दीर्घेन्द्रधनुः । इन्द्रायुधंशक्रधनुस्तद्दीर्घमृजुरोहितं । ऐरावतं च इति वैजयन्ती एवंभूतं द्वितीय मिन्द्रधनुरिव स्थितं । ऐरावतादिसंयोग उत्पातकाले भवति । अभूतोपमावा ॥ ४० ॥
आकर्णाकृष्टमुक्तेन जघान द्विविदं तदा ।
तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥ ४१ ॥
हाटकं स्वर्णं । पत्रिणा बाणेन । पत्रवाससा वासः स्थानीयकङ्कपत्रेण ॥ ४१ ॥
सहसाऽभिहतस्तेन विप्रमुक्तपदः स्फुरन् ।
निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ॥ ४२ ॥
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे ।
अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ॥ ४३ ॥
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः ।
बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥४४॥
सन्धाय चान्यं सुमुखं शरमाशीविपोपमम् ।
आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥ ४५ ॥
स तु तेन प्रहारेण मैन्दो वानरयूथपः ।
मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ॥ ४६ ॥
अङ्गदो मातुलौ दृष्ट्वा पतितौ तु महाबलौ ।
अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥ ४७ ।।
विप्रमुक्तपद: शिथिलपदविन्यासः । स्फुरन् चलन् । विह्वल: । विवशः सन् ॥ ४२-४७ ॥
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः ।
त्रिभिधान्यैः शितैर्बाणर्मातङ्गमिव तोमरैः ॥ ४८ ॥
तोमरैः अङ्कुशैः ॥ ४८ ॥
सोङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ।
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ॥ ४९ ॥
अकुण्ठधारैः अभग्नाग्रैः । निशितैः उत्कृष्टैः । तीक्ष्णैः अयोमयैः । तीक्ष्णं गरे मृधे लोहे इति रत्नमाला ॥ ४९ ॥
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ।
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ।। ५० ।।
न कम्पते नाकम्पत ।। ५० ।।
स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः ।
कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् ।। ५१ ।।
आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम् ।
भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् ।।
तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ॥ ५२ ॥
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते ।
सालमासन्नमेकेन परिजग्राह पाणिना ॥ ५३ ॥
तान् वृक्षान् प्रचिच्छेद शिलाः बिभेदेयन्वयः ॥ ५१–५३ ॥
संपीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च ।
किंचिदभ्यवनम्यैनमुन्ममाथ यथा गजः ॥ ५४ ॥
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसन्निभम् ।
समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ॥
स बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः ॥ ५५ ॥
अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ॥ ५६ ॥
अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे ।
दुरासदं हरिश्रेष्ठं रामायान्ये न्यवेदयन् ॥ ५७ ॥
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे ।
व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ॥ ५८ ॥
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् ।
अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥ ५९ ॥
संपीड्येति । एकहस्तस्य नेत्रपिधानव्यापृतत्वादेकहस्तेनोत्पाटनासम्भवादुरसि संपीडयेत्युक्तं । अभिनिवेश्य । अभिगृह्येत्यर्थः ॥ ५४–५९ ॥
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः ।
रिरक्षिपन्तोऽभ्यपतनङ्गदं वानरर्षभाः ॥ ६० ॥
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।
कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥ ६१ ॥
रिरक्षिषन्तः रक्षितुमिच्छन्तः ।। ६०-६१ ॥
समीक्ष्यापततस्तांस्तु वानरेन्द्रान्महाबलान् ।
आववार शरौघेण नगेनेव जलाशयम् ॥ ६२ ॥
जलाशयं जलप्रवाहं । नगेनेव वृक्षेणेव । वृक्षौघपरोयं शब्दः ।। ६२ ।।
तस्य बाणपथं प्राप्य न शेकुरतिवर्तितुम् ।
वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥ ६३ ॥
अतिवर्तितुं अतिक्रम्याभिमुख्येन गन्तुं ।। ६३ ।।
तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् ।
अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ ६४ ॥
अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे ।
शैलसानुचरं नागं वेगवानिव केसरी ॥ ६५ ॥
उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् ।
अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाबलः ॥ ६६ ॥
तां छादयन्तीमाकाशं वृक्षवृष्टि दुरासदाम् ।
कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः ॥ ६७ ॥
तांस्त्वित्यादिश्लोकद्वयमेकान्वयं ॥ अङ्गदं पृष्ठतः कृत्वा । अन्यथा हन्यादिति भावः । शैलसानुचरं शैलसानुचरत्वेनातिबलं । गिरिचर इव नाग: प्राणसारं बिभर्ति इति कालिदासोक्तेः ॥ ६४–६७ ॥
अभिलक्षेण तीत्रेण कुम्भेन निशितैः शरैः ।
आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ॥ ६८ ॥
द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ।
वानराधिपतिः श्रीमान्महासत्वो न विव्यथे ।। ६९ ॥
निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ।
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुष्प्रभम् ।। ७० ।।
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ।
अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विषम् ।। ७१ ।।
अमिलक्षेण अभिगतलक्ष्येण । आचिताः सर्वतो नीरन्ध्रतया व्याप्ताः । शतघ्नयः शतघ्न्यः । शङ्कुचिता आयुधविशेषाः ।। ६८-७१ ॥
निकुम्भाग्रज वीर्यं ते बाणवेगवदद्भुतम् ।
सन्नतिश्च प्रभावश्च तव वा रावणस्य वा ।। ७२ ।।
निकुम्भाग्रजेति । वीर्यस्य बाणवेगवत्त्वं तद्धेतुत्वात् । सन्नतिः राक्षसेषु विनयः राक्षसप्रावण्यं वा । कम्पनप्रजङ्घन्यूपाक्षशोणिताक्षमारकाणामङ्गदमैन्दद्विविदानां निराकरणाद्राक्षसप्रावण्योक्तिः । तव वा रावणस्य वा । रावणतुल्या तव सन्नतिरित्यर्थः ॥ ७२ ॥
प्रसादबलिवृत्रघ्नकुबेरवरुणोपम ।
एकस्त्वमनुजातोसि पितरं बलवृत्ततः ॥ ७३ ॥
पितरमनुजातोसि पित्रा सदृशोसीत्यर्थः । बलवृत्ततः बलव्यापारेण ॥ ७३ ॥
त्वामेवैकं महाबाहुं चापहस्तमरिंदमम् ।
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ।। ७४ ॥
नातिवर्तन्ते न धर्षयन्तीत्यर्थः ॥ ७४ ।।
विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः ॥ ७५ ॥
विक्रमस्वेत्यर्धं ॥ कर्माणि युद्धकर्माणि प्रति । विक्रमस्व पराक्रमं कुरु । युद्धकर्मसिद्ध्यर्थं पराक्रमं कुर्वित्यर्थः ॥ ७५ ॥
वरदानात्पितृव्यस्ते सहते देवदानवान् ।
कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥ ७६ ॥
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च ।
त्वमद्य रक्षसां लोके श्रेष्ठोसि बलवीर्यतः ॥ ७७ ॥
पितृव्यः रावणः । वरदानात् देवदानवान् सहते । कुम्भकर्णस्तु वीर्येण शारीरबलेन । सुरासुरान् सहते । रोद्धुं शक्नोतीत्यर्थः । त्वं तु ताभ्यामुभाभ्यां तान् सहस इति भावः ।। ७६-७७ ।।
महाविमर्दं समरे मया सह तवाद्भुतम् ।
अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥ ७८ ॥
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् ।
पातिता हरिवीराश्च त्वया वै भीमविक्रमाः ॥ ७९ ॥
महाविमर्दं महाप्रहारं ।। ७८-७९ ।।
उपालम्भभयाच्चापि नासि वीर मया हतः ।
कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ।। ८० ।।
उपालम्भभयात् बहुभिः सह युद्धेन श्रान्तो हत इत्यपवादभयात् ॥ ८० ।।
तेन सुग्रीववाक्येन सावमानेन मानितः ।
अग्नराज्याहुतस्येव तेजस्तस्याभ्यवर्धत ।
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा ॥ ८१ ॥
सावमानेन मानितः । बहुमानेन व्याजेनावमानित इत्यर्थः । तस्य तथावमानितस्य कुम्भस्य ॥ ८१ ॥
गजाविवाहितमदौ निश्वसन्तौ मुहुर्मुहुः ।
अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम् ।
सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ८२
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही ।
व्याघूर्णिततरङ्गश्च चुक्षुमे वरुणालयः ॥ ८३ ॥
गजावित्यादिसार्धश्लोक एकान्वयः ॥ आहितमदौ आहितमदचेष्टौ । अन्योन्यगात्र -ग्रथितौ अन्योन्यसंश्लिष्टिगात्रौ । परिश्रमात् युद्धजनितश्रमात् । मुखतः सधूमां ज्वालां विसृजन्तौ । बभूवतुरिति शेषः ॥ ८२-८३ ।।
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि ।
पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥ ८४ ।।
दर्शयन्रुदधेस्तलं । कुम्भो यथा उदधितलं पश्येत्तथा वेगेन पातयामासेत्यर्थः ॥ ८४ ॥
ततः कुम्भनिपातेन जलराशिः समुत्थितः ।
विन्ध्यमन्दरसंकाशो विससर्प समन्ततः ॥ ८५ ॥
ततः कुम्भः समुत्पत्य सुग्रीवमभिपत्य च ।
आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ।। ८६ ।।
विससर्प अभ्यवर्धत ॥ ८५-८६ ॥
तस्य चर्म च पुस्फोट बहु सुस्राव शोणितम् ।
स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥ ८७ ॥
पुस्फोट विभिन्नं । सः मुष्टिः । सुग्रीवस्यास्थिमण्डले । प्रतिजघ्ने प्रतिहतः । मोघो बभूवेत्यर्थः । स च मुष्टिर्महावेग इति पाठः ॥ ८७ ॥
तदा वेगेन तत्रासीत्तेजः प्रज्वलितं मुहुः ।
वज्रनिष्पेषसञ्जाता ज्वाला मेरौ यथा गिरौ ॥
[ मुष्टिना तेन संजज्ञे ज्वाला विदिवोत्थिता ॥ ८८ ॥
वेगेन कुम्भवेगेन । तत्र सुग्रीववक्षसि । तेजः संघट्टजं । प्रज्वलितमासीत् । वज्रनिष्पेषसञ्जाता इन्द्रेण पक्षच्छेदकाले वज्रसंघट्टजन्येत्यर्थः ॥ ८८ ॥
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः ।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ ८९ ॥
संवर्तयामास चकारेत्यर्थः ॥ ८९ ॥
अर्चिः सहस्रविकचं रविमण्डलसप्रभम् ।
स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ ९० ॥
स तु तेन प्रहारेण विह्वलो भृशताडितः ।
निपपात तदा कुम्भो गतार्चिरिव पावकः ॥ ९९ ॥
सृष्टिनाऽभिहतस्तेन निपपाताशु राक्षसः ।
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ ९२ ॥
अर्चिःसहस्रविकचं अर्चिःसहस्रावृतमित्यर्थः । अतएव रविमण्डलसप्रभं ।। ९०-९२ ।।
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना ।
बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ॥ ९३ ॥
तस्मिन्हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे ।
मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ॥ ९४ ॥
गवां पतेः सूर्यस्य ।। ९३-९४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्सप्ततितमः सर्गः ॥ ७५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥ ७६ ॥