श्रीरङ्गराजस्तवे उत्तरशतकम्

श्रीपराशरभट्टार्यरनुगृहीते

॥ श्रीरङ्गराजस्तवे उत्तरशतकम् ।।

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतश्श्रीमान्श्रेयसे मेऽस्तु भूयसे ॥
हर्तुं तमस्सदसती च विवेक्तुमीशो मानं प्रदीपमिव कारुणिको ददाति । तेनावलोक्य कृतिनः परिभुञ्जते तं तत्रैव केऽपि चपलाश्शलभीभवन्ति ॥ १ ॥
या वेदबाह्याः स्मृतयोऽर्हदादेर्वेदेषु याः काश्च कृदृष्टयस्ताः । आगस्कृतां रङ्गनिधे ! त्वदध्वन्यन्धङ्करण्यः स्मृतवान् मनुस्तत् ॥ २ ॥
प्रत्यक्षप्रमथनपश्यतोहरत्वान्निर्दोषश्रुतिविमतेश्च बाह्यवर्त्म । दुस्तर्कप्रभवतया च वक्तृदोषस्पृष्ट्या च प्रजहति रङ्गविन्द ! वृद्धाः ॥ ३ ॥
अवयवितयेदङ्कुर्वाणैर्बहिष्करणैर्वपुर्निरवयवकोऽहङ्कारार्हः पुमान् करणातिगः । स्फुरति हि जनाः प्रत्यासत्तेरिमौ न विविञ्चते तदधिकुरुतां शास्त्रं रङ्गेश ! ते परलोकिनि ॥ ४ ॥
प्रत्यक्षा श्रुतिरर्थधीश्च न तथा दोषास्तदर्थः पुनः धर्माधर्मपरावरेश्वरमुखः प्रत्यक्षबाध्यो न च । तच्चार्वाकमतेऽपि रङ्गरमण ! प्रत्यक्षवत् सा प्रमा योगोन्मीलितधीस्तदर्थमथवा प्रत्यक्षमीक्षेत सः ॥ ५ ॥
न सदसदुभयं वा नोभयस्माद्बहिर्वा जगदिति न किलैकां कोटिमाटीकते तत् । इति निरुपधि सर्वंसर्विकातो निषेधन् वरद ! सुगतपाशश्चोरलावं विलाव्यः ॥ ६ ॥
प्रतीतिश्चेदिष्टा न निखिलनिषेषो यदि न को निषेद्धाऽतो नेष्टो निरुपधिनिषेधस्सदुपधौ । निषेधेऽन्यत्सिध्येत् वरद ! घटभङ्गे शकलवत् प्रमाशून्ये पक्षे श्रुतिरपि मतेऽस्मिन्विजयताम् ॥ ७ ॥
योगाचारो जगदपलपत्यत्र सौत्रान्तिकस्तद्धीवैचित्र्यादनुमितिपदं वक्ति वैभाषिकस्तु । प्रत्यक्षं तत्क्षणिकयति ते रङ्गनाथ ! त्रयोऽपि ज्ञानात्मत्वक्षणभिदुरते चक्षते तान् क्षिपामः ॥ ८ ॥
जगद्भङ्गुरं भङ्गुरा बुद्धिरात्मेत्यसद्वेत्त्रभावे तथा वेद्यवित्त्यो । क्षणध्वंसतश्च स्मृतिप्रत्यभिज्ञादरिद्रं जगत्स्यादिदं रङ्गचन्द्र ! ॥ ९ ॥
अहमिदमभिवेद्मीत्यात्मवित्त्योर्विभेदे स्फुरति यदि तदैक्यं बाह्यमप्येकमस्तु । प्रमितिरपि मृषा स्यान्मेयमिथ्यात्ववादे यदि तदपि सहेरन् दीर्घमस्मन्मनायु ॥ १० ॥
एतद्रामास्त्रं दलयतु कलिर्वह्ममीमांसकाश्च ज्ञप्तिर्ब्रह्मैतज्ज्वलदपि निजाविद्यया बम्भ्रमीति । तस्य भ्रान्तिं तां श्लथयति जिताद्वैतविद्यस्तु जीवो यद्यद् दृश्यं तद्वितथमिति ये ज्ञापयांचक्रुरज्ञाः ॥ ११ ॥
अङ्गीकृत्य तु सप्तभङ्गिकुसृतिं स्यादस्तिनास्त्वात्मिकां विश्वं त्वद्विभवं जगज्जिनमते नैकान्त माचक्षते । भिन्नाभिन्नमिदं तथा जगदुषे वन्ध्या ममाम्बेतिवन्नूत्नवब्रह्मविदे रहः परमिदं रङ्गेन्द्र ! ते चक्षताम् ॥ १२ ॥
कणचरचरणाक्षौ भिक्षमाणौ कुतर्कैः श्रुतिशिरसि सुभिक्षं त्वज्जगत्कारणत्वम् । अणुषु विपरिगाभ्य व्योमपूर्वं च कार्यं तव भवदनपेक्षं रङ्गभर्तर्ब्रुवाते ॥ १३ ॥
वेदे कर्त्राद्यभावाद्बलवति हि नयैस्त्वन्मुखे नीयमाने तन्मूलत्वेन मानं तदितरदखिलं जायते रङ्गधामन् ! । तस्मात्सांख्य सयोगं सपशुपतिमतं कुत्रचित्पञ्चरात्रं सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात् ॥ १४ ॥
सञ्चष्टे नेश्वरं त्वां पुरुषपरिषदि न्यस्य यद्वाऽऽन्यपर्यात् सांख्यो योगी च काक्वा प्रतिफलनमिवैश्वर्यमूचे कयाचित् । भिक्षौ शैवस्सुराजम्भवमभिमनुते रङ्गराजातिरागात् त्वां त्वामेवाभ्यधास्त्वं ननु परविभवव्यूहनाढ्यम्भविष्णुम् ॥ १५ ॥
इति मोहनव(र्ष्मणा)र्त्मना त्वयाऽपि ग्रथितं बाह्यमतं तृणाय मन्ये । अथ वैदिकवर्मवर्मितानां मनिताहे कुदृशां किमीश ! वर्त्म ॥ १६ ॥
संस्कारं प्रतिसञ्चरेषु निदधत्सर्गेषु तत्स्मारितं रूपं नाम च तत्तदर्हनिवहे व्याकृत्य रङ्गास्पद ! । सुप्तोद्बुद्धविरिञ्चपूर्वजनतामध्याप्य तत्तद्धितं शासन्नस्मृतकर्तृकान्वहसि यद्वेदाः प्रमाणं ततः ॥ १७ ॥
शीक्षायां वर्णशिक्षा पदसमधिगमो व्याक्रियानिर्वचोभ्यां छन्दश्छन्दश्चितौ स्याद्गमयति समयं ज्यौतिषं रङ्गनाथ ! । कल्पेऽनुष्ठानमुक्तं ह्युचितगमितयोर्न्यायमीमांसयोस्स्यात् अर्थव्यक्तिः पुराणस्मृतिषु तदनुगास्त्वां विचिन्वन्ति वेदाः ॥ १८ ॥
आदौ वेदाः प्रमाणं स्मृतिरुपकुरुते सेतिहासैः पुराणैः न्यायैस्सार्धं त्वदर्चाविधिमुपरि परिक्षीयते पूर्वभागः । ऊर्ध्वो भागत्स्वदीहागुणविभवपरिज्ञापनैस्त्वत्पदाप्तौ वेद्यो वेदैश्च सर्वैरहमिति भगवन् ! स्वेन च व्याचकर्थ ॥ १९ ॥
क्रिया तच्छक्तिर्वा किमपि तदपूर्वं पितृसुरप्रसादो वा कर्तुः फलद इति रङ्गेश ! कुदृशः । त्वदर्चेष्टापूर्ते फलमपि भवत्प्रीतिजमिति त्रयीवृद्धास्तत्तद्विधिरपि भवत्प्रेरणमिति ॥ २० ॥
आज्ञा ते सनिमित्तनित्यविधयः स्वर्गादिकाम्यद्विधिः सोऽनुज्ञा शठचित्तशास्त्रवशतोपायोऽभिचारश्रुतिः । सर्वेयस्य समस्तशासितुरहो ! श्रीरङ्गसर्व स्व ! ते रक्षाकूतनिवेदिनी श्रुतिरसौ त्वन्नित्यशास्तिस्ततः ॥ २१ ॥
अत्रास्ते निधिरितिवत्पुमर्थभूते सिद्धार्था अपि गुणरूपवृत्तवादाः । रङ्गेश ! त्वयि सकलास्समन्वयन्ते नोपासाफलविधिभिर्विशेष एषाम् ॥ २२ ॥
देहो देहिनि कारणे विकृतयो जातिर्गुणाः कर्म च द्रव्ये निष्ठितरूपबुद्धिवचनास्तात्स्थ्यात् तथेदं जगत् । विश्वं त्वय्यभिमन्यसे जगदिषे तेनाद्वितीयस्ततः मायोपाधिविकारसङ्करकथा का नाम रङ्गेश्वर ! ॥ २३ ॥
स्थित्युत्पत्तिप्रवृत्तिग्रसननियमनव्यापनैरात्मनस्ते शेषोऽशेषः प्रपञ्चो वपुरिति भवतस्तस्य चाभेदवादाः । सर्वं खल्वैतदात्म्यं सकलमिदमहं तत्त्वमस्येवमाद्याः व्याख्थाता रङ्गधामप्रवण ! विजयिभिर्वैदिकैस्सार्वभौमैः ॥ २४ ॥
सराजकमराजकं पुनरनेकराजं तथा यथाभिमतराजकं जगदिदं जजल्पुर्जडाः । जगाचवशचित्रतातरतमत्वतर्काङ्गिका श्रुतिश्चिदचिती त्वया वरद ! नित्यराजन्वती ॥ २५ ॥
ब्रह्माद्यास्सृज्यवर्गे भ्रुकुटिभटतयोद्धटिता नावतारप्रस्तावे तेन न त्वं न च तव सदृशा विश्वमेकातपत्रम् । लक्ष्मीनेत्रा त्वयेति श्रुतिमुनिवचनैस्त्वत्परैरर्पयामः श्रीरङ्गाम्भोधिचन्द्रोदय ! जलमुचितं वादिकौतस्कुतेभ्यः ॥ २६ ॥
दोषोपधावधिसमातिशयानसंख्यानिर्लेपमङ्गलगुणौघदुघाष्षडेताः । ज्ञानैश्वरीशकनवीर्यबलार्चिषस्त्वां रङ्गेश ! भास इव रत्नमनर्घयन्ति ॥ २७ ॥
युगपदनिशमक्षैः स्वैः स्वतो वाऽऽक्षकार्ये नियममनियमं वा प्राप्य रङ्गाधिराज ! । करतलवदशेषं पश्यसि स्वप्रकाशं तदवरणममोघं ज्ञानमाम्नासिषुस्ते ॥ २८ ॥
नयनश्रवणो दृशा शृणोषि अथ ते रङ्गपते ! महेशितुः । करणैरपि कामकारिणः घटते सर्वपथीनमीक्षणम् ॥ २९ ॥
सार्वज्ञ्येनाज्ञमूलं जगदभिदधतो वारितास्साक्षिमात्रात् सांख्येक्तात्कारणं त्वां परयति भगवन्नैश्वरी रङ्गशायिन् ! । अप्रेर्योऽन्यैः स्वतन्त्रोऽप्रतिहति सदसत्कर्मचैत्र्या विचित्रं यत्रेच्छालेशतस्त्वं युगपदगणयन् विश्वमाविश्चकर्थ ॥ ३० ॥
कार्येऽनन्ते स्वतनुमुखतस्त्वामुपादानमाहुः सा ते शक्तिस्सुकरमितरच्चेति वेलां विलङ्घ्य । इच्छा यावद्विहरति सदा रङ्गराजानपेक्षा सैवैशानादतिशयकरी सोर्णनाभौ विभाव्या ॥ ३१ ॥
स्वमहिमस्थितिरीश ! भृशक्रियोऽप्यकलितश्रम एव बिभर्षि यत् । वपुरिव स्वमशेषमिदं बलं तव पराश्रितकारणवारणम् ॥ ३२ ॥
मृगनाभिगन्ध इव यत्सकलार्थान् निजसन्निधेरविकृतो विकृणोषि । प्रियरङ्ग ! वीर्यमिति तत्तु वदन्ते सविकारकारणमितो विनिवार्यम् ॥ ३३ ॥
सहकार्यपेक्षमपि हातुमिह तदनपेक्षकर्तृता । रङ्गधन ! जयति तेज इति प्रणतार्तिजित् प्रतिभटाभिभावुकम् ॥ ३४ ॥
मर्त्योत्थायं विरिञ्चावधिकमुपरि चोत्प्रेक्ष्य मीमांसमाना रङ्गेन्द्रानन्दवल्ली तव गुणनिवहं यौवनानन्दपूर्वम् । न स्वार्थं स्प्रष्टुमीष्टे स्खलति पथि परं मूकलायं निलिल्ये हन्तैवं त्वद्रुणानामवधिगणनयोः का कथा चित्तवाचोः ॥ ३५ ॥
न्यधायिषत ये गुणा निधिनिधायमारण्यकेष्वमी म्रदिमचातुरीप्रणतचापलक्षान्तयः । दयाविजयसौन्दरीप्रभृतयोऽपि रत्नौघवत् जगद्व्यवहृतिक्षमा वरद ! रङ्गरत्नापणे ॥ ३६ ॥
यमाश्रित्यैवात्मंभरय इव ते सद्गुणगणाः प्रथन्ते सोऽनन्तस्ववशघनशान्तोदितदशः । त्वमेव त्वां वेत्थ स्तिमितवितरङ्गं वरद ! भोः ! स्वसंवेद्यस्वात्मद्वयसबहुलानन्दभरितम् ॥ ३७ ॥
आघ्रायेश्वरगन्धमीशसदृशंमन्यास्तवेन्द्रादयो मुह्यन्ति त्वमनाविलो निरवधेर्भूम्नः कणेहत्य यत् । चित्रीयेमहि नात्र रङ्गरसिक ! त्वं त्वन्महिम्नः परः वैपुल्यान्महितः स्वभाव इति वा किन्नाम सात्म्यं न ते ॥ ३८ ॥
षाङ्गुण्याद्वासुदेवः पर इति स भवान् मुक्तभोग्यो बलाढ्यात् बोधात् सङ्कर्षणस्त्वं हरति वितनुषे शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नस्सर्गधर्मौ नयसि च भगवञ्च्छक्तितेजोऽनिरुद्धः बिभ्राणः पासि तत्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ! ॥ ३९ ॥
जाग्रत्स्वप्नात्यलसतुरीयप्रायध्यातृक्रमवदुपास्यः । स्वामिंस्तत्तत्सहपरिबर्हः चातुर्व्यूहं वहसि चतुर्धा ॥ ४० ॥
अचिदविशेषितान् प्रलयसीमनि संसरतः करणकलेबरैर्घटयितुं दयमानमनाः । वरद ! निजेच्छयैव परवानकरोः प्रकृतिं महदभिमानभूतकरणावलिकेरकिणीम् ॥ ४१ ॥
निम्नोन्नतं च करुणं च जगद्विचित्रं कर्म व्यपेक्ष्य सृजतस्तव रङ्गशेषिन् । वैषम्यनिर्घृणतयोर्न खलु प्रसक्तिः तद्ब्रह्मसूत्रसचिवाः श्रुतयो गृणन्ति ॥ ४२ ॥
स्वाघीने सहकारिकारणगणे कर्तुश्शरीरेऽथवा भोक्तुः स्वानुविधापराधविधयोः राज्ञो यथा शासितुः । दातुर्वाऽर्थिजने कटाक्षणगिव श्रीरङ्गसर्वस्व ! ते स्रष्टुस्मृज्यदशाव्यपेक्षणमपि स्वातन्त्र्यमेवावहेत् ॥ ४३ ॥
प्रलयसमयसुप्तं स्वं शरीरैकदेशं वरद ! चिदचिदाख्यं स्वेच्छया विस्तृणानः । खचितमिव कलापं चित्रमातत्य धून्वन् अनुशिखिनि शिखीव क्रीडसि श्रीसमक्षम् ॥ ४४ ॥
भूयो भूयस्त्वयि हितपरेऽत्युत्पथानात्मनीनस्रोतोमग्नानपि पथि नयंस्त्वं दुराशावशेन । रुग्णे तोके स्व इव जननी तत्कषायं पिबन्ती तत्तद्वर्णाश्रमविधिवशः क्लिश्यसे रङ्गराज ! ॥ ४५ ॥
सार्व ! त्वत्कं सकलचरितं रङ्गधामन् ! दुराशापाशेभ्यस्स्यान्न यदि जगतां जातु मूर्खोत्तराणाम् । निस्तन्द्रालोस्तव नियमतो नर्तुलिङ्गप्रवाहा सर्गस्थेमप्रभृतिषु सदाजागरा जाघटीति ॥ ४६ ॥
सुहृदिव निगलाद्यैरुन्मदिष्णुं नृशंसं त्वमपि निरयपूर्वैर्दण्डयन् रङ्गनेतः ! । तदितरमपि बाधात्त्रायसे भोगमोक्षप्रदिरपि तव दण्डापूपिकातस्सुहृत्त्वम् ॥ ४७ ॥
धृतिनियमनरक्षावीक्षणैश्शास्त्रदानप्रभृतिभिरचिकित्स्यान् प्राणिनः प्रेक्ष्य भूयः । सुरमनुजतिरश्चां सर्वथा तुल्यधर्मा त्वमवतरसि देवोऽजोऽपि सन्नव्ययात्मा ॥ ४८ ॥
अनुजनुरनुरूपरूपचेष्टा न यदि समागममिन्दिराऽकरिष्यत् । असरसमथवाऽप्रियम्भविष्णु ध्रुवमकरिष्यत रङ्गराजनर्म ॥ ४९ ॥
गरीयस्त्वं परिजानन्ति धीराः परं भावं मनुजत्वादिभूष्णुम् । अजानन्तस्त्ववजानन्ति मूढाः जनिघ्नं ते भगवञ्जन्म कर्म ॥ ५० ॥
मध्येविरिञ्चगिरिशं प्रथमावतारः तत्साम्यतः स्थगयितुं तव चेत् स्वरूपम् । किं ते परत्वपिशुनैरिह रङ्गधामन् ! सत्त्वप्रवर्तनकृपापरिपालनाद्यैः ॥ ५१ ॥
मधुः कैटभश्चेति रोधं विधूय त्रयीदिव्यचक्षुर्विधातुर्विधाय । स्मरस्यङ्ग ! रङ्गिस्तुरङ्गावतारः समस्तं जगज्जीवयिष्यस्यकस्मात् ॥ ५२ ॥
रङ्गधे ! तिमिरघस्मरशीतस्वच्छहंसतनुरिन्दुरिवोद्यन् । वेदभाभिरनुजग्रहिथाऽऽर्तान् ज्ञानयज्ञसुधयैव समृद्ध्यम् ॥ ५३ ॥
वटदलमधिशय्य रङ्गधामन् ! शयित इवार्णवतर्णकः पदाब्जम् । अधिमुखमुदरे जगन्ति मातुं निदधिथ वैष्णवभोग्यलिप्सया वा ॥ ५४ ॥
उन्मूल्याहर मन्दराद्रिमहिना तं सम्बधानामुना दोर्भिश्चञ्चलमालिकैश्च दधिनिर्माथं मथानाम्बुधिम् । श्रीरङ्गेश्वर ! चन्द्रकौस्तुभसुधापूर्वं गृहाणेति ते कुर्वाणस्य फलेग्रहिर्हि कमलालाभेन सर्वः श्रमः ॥ ५५ ॥
देवीहस्ताम्बुजेभ्यश्चरणकिसलये संवहद्भ्योऽपहृत्य प्रत्यस्यानन्तभोगं झटिति चलपुटे चक्षुषी विस्तृणानः । आक्षिप्योरश्च लक्ष्म्याः स्तनकलशकनत्कुङ्कुमस्तोमपङ्काद्देवः श्रीरङ्गधामा गजपतिधुषिते व्याकुलः स्तात् पुरो नः ॥ ५६ ॥
अतन्त्रितचमूपतिप्रहितहस्तमस्वीकृतप्रणीतमणिपादुकं किमिति चाकुलान्तःपुरम् । अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै नमः ॥ ५७ ॥
यं पश्यन्विश्वधुर्यां धियमसकृदथो मन्थरां मन्यमानः हुंकारास्फालनांघ्रिप्रहतिभिरपि तं तार्क्ष्यमध्यक्षिपस्त्वम् । किञ्चोदञ्चन्नुदस्थास्तमथ गजपतेरबृंहिते जृम्भमाणे देव ! श्रीरङ्गबन्धो ! प्रणमति हि जने कान्दिशीकी दशा ते ॥ ५८ ॥
श्रीरङ्गेशय ! शरणं ममासि वात्याव्यालोलत्कमलतटाकताण्डवेन । स्रग्भूषाम्बरमयथायथं दधानः धिङ्मामित्यनुगजगर्जमाजगन्थ ॥ ५९ ॥
मीनतनुस्त्वं नावि निधाय स्थिरचरपरिकरमनुमनु भगवन् ! । वेदसनाभिस्त्वोक्तिविनौदैरकलितलयभयलवममुमवहः ॥ ६० ॥
श्रीनयनाभोद्भासुरदीर्घप्रविपुलसुरुचिरशुचिशिशिरवपुः । पक्षनिगीर्णोद्गीर्णमहाब्धि स्थलजलविहरणरतगतिरचरः ॥ ६१ ॥
चकर्थ श्रीरङ्गिन्निखिलजगदाधारकमठो भवन् धर्मान् कूर्मः पुनरमृतमन्थाचलधरः । जगन्य श्रेयस्त्वं मरकतशिलापीठललितं जलादुद्यल्लक्ष्मीपदकिसलयन्याससुलभम् ॥ ६२ ॥
हृदि सुररिपोर्दंष्ट्रोत्खाते क्षिपन् प्रलयार्णवं क्षितिकुचतटीमर्चन् दैत्यास्रकुङ्कुमचर्चया । स्फुटधुतसटाभ्राम्यद्ब्रह्मस्तवोन्मुखबृंहितः शरणमसि मे रङ्गिंस्त्वं मूलकोलतनुर्भवन् ॥ ६३ ॥
नृहरिदशयोः पश्यन्नौत्पत्तिकं घटनाद्भुतं नरमुत हरिं दृष्ट्वैकैकं समुद्विजते जनः । इति किल सिताक्षीरन्यायेन सङ्गमिताङ्गकं स्फुटसटमहादंष्ट्रं रङ्गेन्द्रसिंहमुपास्महे ॥ ६४ ॥
द्विषाणद्वेषोद्यन्नयनवनवह्निप्रशमनभ्रमल्लक्ष्मीवक्त्रप्रहितमधुगण्डूषसुषमैः । नखक्षुण्णारातिक्षतजपटलैराप्लुतसटाच्छटास्कन्धो रुन्धे दुरितमिह पुंस्पञ्चवदनः ॥ ६५ ॥
नखाग्रग्रस्तेऽपि द्विषति निजभक्तद्रुहि रुषः प्रकर्षाद्विष्णुत्वद्विगुणपरिणाहोत्कटतनुः । विरुद्धे वैयग्रीसुघटितसमानाधिकरणे नृसिंहत्वे बिभ्रद्वरद ! विभरामासिथ जगत् ॥ ६६ ॥
दैत्यौदार्येन्द्रयाञ्चाविहतिमपनयन् वामनोऽर्थी त्वमासीः विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये । नाभीपद्मश्च मानक्षममिव भुवनग्राममन्यं सिसृक्षुः तस्थौ रङ्गेन्द्र ! वृत्ते तव जयमुखरो डिण्डिमस्तत्र वेदः ॥ ६७ ॥
भवान् रामो भूत्वा परशुपरिकर्मा भृगुकुलादलावीद्भूपालान् पितृगणमतार्प्सीत्तदसृजा । भुवो भाराक्रान्तं लघु तलमुपाचीक्लृपदिति द्विषामुग्रंपश्योऽप्यनघ ! मम मा जीगणदधम् ॥ ६८ ॥
मनुजसमयं कृत्वा नाथावतेरिथ पद्मया क्वचन विपिने सा चेदन्तर्धिनर्म विनिर्ममे । किमथ जलधिं बध्वा रक्षो विधीशवरोद्धतं बलिमुखकुलोच्छिष्टं कुर्वन् रिपुं निरपत्रयः ॥ ६९ ॥

यदुद्यूते विजयापदानगणना कालिङ्गदन्ताङ्कुरैः यद्विश्लेषत्वोऽपि कालियभुवे कोलाहलायाभवत् । दूत्येनापि च यस्य गोपवनिताः कृष्णागसां व्यस्मरन् तं त्वां क्षेमकृषीबलं हलधरं रङ्गेश ! भक्तास्महे ॥ ७० ॥
आकण्ठवारिभरमन्थरमेघदेश्यं पीताम्बरं कमललोचनपञ्चहेति । ब्रह्म स्तनंधयमयाचत देवकी त्वां श्रीरङ्गकान्त ! सुतकाम्यति काऽपरैवम् ॥ ७१ ॥
शैलोऽग्निश्च जलांबभूव मुनयो मूढांबभूवुर्जडाः प्राज्ञामासुरगास्सगोपममृतामासुर्महाशीविषाः । गोव्याघ्रास्सहजांबभूवुरपरे त्वन्यांबभूबुः प्रभो ! त्वं तेष्वन्यतमांबभूविथ भवद्वेणुक्वणोन्माथने ॥ ७२ ॥
कल्कितनुर्धरणी लघयिष्यन् कलिकलुषान् विलुनासि पुरा त्वम् । रङ्गनिकेत ! लुनीही लुनीहित्यखिलमरुन्तुदमद्य लुनीहि ॥ ७३ ॥
आस्तां ते गुणराशिवद्गुणपरिवाहात्मनां जन्मनां संख्या भौमनिकेतनेष्वपि कुटीकुञ्जेषु रङ्गेश्वर ! । अर्च्यस्सर्वसहिष्णुरर्चकपराधीनाखिलात्मस्थितिः प्रीणीषे हृदयालुभिस्तव ततश्शीलाज्जडीभूयते ॥ ७४ ॥
श्रीमद्व्योम नसीम वाङ्मनसयोस्सर्वेऽवताराः क्वचित् काले विश्वजनीनमेतदितिधीः श्रीरङ्गधामन्यथ । आर्तस्वागतिकैःकृपाकलुषितैरालोकितैरार्द्रयन् विश्वत्राणविमर्शनस्खलितया निद्रासि जागर्यया ॥ ७५ ॥
सर्गाभ्यासविशालया निजधिया जानन्ननन्तेशयं भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तनः । कल्पानेव बहून् कमण्डलुगलद्गङ्गाप्लुतोऽपूजयद्ब्रह्मा त्वां मुखलोचनाञ्जलिपुटैः पद्मैरिवाऽऽवर्जिते ॥ ७६ ॥
मनुकुलमहीपालव्यानम्रमौलिपरम्परामणिमकरिकारोचिर्नीराजिताङ्घ्रिसरोरुहः । स्वयमथ विभो ! स्वेन श्रीरङ्गधामनि मैथिलीरमणवपुषा स्वार्हाण्याराधनान्यसि लम्भितः ॥ ७७ ॥
मन्वन्ववाये द्रुहिणे च धन्ये विभीषणेनैव पुरस्कृतेन । गुणैर्दरिद्राणमिमं जनं त्वं मध्येसरिन्नाथ ! सुखाकरोषि ॥ ७८ ॥
तेजः परं तत्सवितुर्वरेण्यं धाम्ना परेणाप्रणखात्सुवर्णम् । त्वां पुण्डरीकेक्षणमामनन्ति श्रीरङ्गनाथं तमुपासिषीय ॥ ७९ ॥
आत्माऽस्य गन्तुः परितस्थुषश्च मित्रस्य चक्षुर्वरुणस्य चाग्नेः । लक्ष्म्या सहौत्पत्तिकगाढबन्धं पश्येम रङ्गे शरदश्शतं त्वाम् ॥ ८० ॥
यस्यास्मि पत्युर्न तमन्तरेमि श्रीरङ्गतुङ्गायतने शयानम् । स्वभावदास्येन च योऽहमस्मि स सन् यजे ज्ञानमयैर्मखैस्तम् ॥ ८१ ॥
आयुः प्रजानाममृतं सुराणां रङ्गेश्वरं त्वां शरणं प्रपद्ये । मां ब्रह्मणेऽस्मै महसे तदर्थं प्रत्यञ्चमेनं युनजै परस्मै ॥ ८२ ॥
आर्तिं तितीर्षुरथ रङ्गपते ! धनायन् आत्मम्भरिर्विविदिषुर्निजदास्यकाम्यन् । ज्ञानीत्यमून् सममथास्सममत्युदारान् गीतासु देव ! भवदाश्रयणोपकारान् ॥ ८३ ॥
नित्यं काम्यं परमपि कतिचित्त्वय्यध्यात्मस्वमतिभिरममाः । न्यस्यासङ्गा विदधति विहितं श्रीरङ्गेन्दो ! विदधति न च ते ॥ ८४ ॥
प्रत्यञ्चं स्वं पञ्चविंशं पराचस्सञ्चक्षाणास्तत्त्वराशेर्विविच्य । युञ्जानाश्चर्तम्भरायां स्वबुद्धौ स्वं वा त्वां वा रङ्गनाथाऽऽप्नुवन्ति ॥ ८५ ॥
अथ मुदितकषायाः केचिदाजानदास्यत्वरितशिथिलचित्ताः कीर्तिचिन्तानमस्याः । विदधति ननु पारं भक्तिनिघ्ना लभन्ते त्वयि किल ततमे त्वं तेषु रङ्गेन्द्र ! किं तत् ॥ ८६ ॥
उपादत्ते सत्तास्थितिनियमनाद्यैश्चिदचितौ स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी । उपायोपेयत्वे तदिह तव तत्त्वं न तु गुणौ अतस्त्वां श्रीरङ्गेशय ! शरणमव्याजमभजम् ॥ ८७ ॥
पटुनैकवराटिकेव क्लृप्ता स्थलयोः काकणिकासुवर्णकोट्योः । भवमोक्षणयोस्त्वयैव जन्तुः क्रियते रङ्गनिधे ! त्वमेव पाहि ॥ ८८ ॥
ज्ञानक्रियाभजनसम्पदकिञ्चनोऽहमिर्च्छोधिकारशकनानुशयानभिज्ञः । रङ्गेश ! पूर्णवृजिनश्शरणं भवेति मौर्ख्याद्ब्रवीमि मनसा विषयाकुलेन ॥ ८९ ॥
त्वयि सति पुरुषार्थे मत्परे चाहमात्मक्षयकरकुहनार्थाच्छ्रद्दधद्रङ्गचन्द्र ! । जनमखिलमहंयुर्वञ्चयामि त्वदात्मप्रतिमभवदनन्यज्ञानिवद्देशिकस्सन् ॥ ९० ॥
अतिक्रामन्नाज्ञां तव विधिनिषेधेषु भवतेऽपि अभिद्रुह्यन्वाग्धीकृतिभिरपि भक्ताय सततम् । अजानन् जानन् वा भवदसहनीयागसि रतस्सहिष्णुत्वाद्रङ्गप्रवण ! तव माभूवमभरः ॥ ९१ ॥
प्रकुपितभुजगफणानामिव विषयाणामहं छायाम् । सति तव भुजसुरविटपिप्रच्छाये रङ्गजीवित ! भजामि ॥ ९२ ॥
त्वत्सर्वशक्तेरधिकाऽस्मदादेः कीटस्य शक्तिर्बत रङ्गबन्धो ! । यत्त्वत्कृपामप्यति कोशकारन्यायादसौ नश्यति जीवनाशम् ॥ ९३ ॥
श्रीरङ्गेश ! त्वद्गुणानामिवास्मद्दोषाणां कः पारदृश्वा यतोऽहम् । ओघे मोघोदन्यवत् त्वद्गुणानां तृष्णापूरं वर्षतां नास्मि पात्रम् ॥ ९४ ॥
त्यं चेन्मनुष्यादिषु जायमानस्तत्कर्मपाकं कृपयोपभुंक्षे । श्रीरङ्गशायिन् ! कुशलेतराभ्यां भूयोऽभिभूयेमहि कस्य हेतोः ॥ ९५ ॥
क्षमा सापरधेऽनुतापिन्युपेया कथं सापराधेऽपि दृप्ते मयि स्यात् । तथाऽप्यत्र रङ्गाधिनाथानुतापव्यपायं क्षमेतातिवेला क्षमा ते ॥ ९६ ॥
बलिभुजि शिशुपाले तादृगागस्करे वा गुणलवसहवासात्त्वत्क्षमा संकुचन्ती । मयि गुणपरमाणूदन्तचिन्तानभिज्ञे विहरतु वरदासौ सर्वदा सार्वभौमी ॥ ९७ ॥
दया परव्यसनहरा भवव्यथा सुखायते मम तदहं दयातिगः । तथाऽप्यसौ सुखयति दुःखमित्यतः दयस्व मां गुणमय ! रङ्गमन्दिर ! ॥ ९८ ॥
गर्भजन्मजरामृतिक्लेशकर्मषडूर्मिगः । श्वेव देववषट्कृतं त्वां श्रियोऽर्हमकामये ॥ ९९ ॥
अनुकृत्य पूर्वपुंसः रङ्गनिधे ! विनयडम्भतोऽमुष्मात् । शुन इव मम वरमृद्धेः उपभोगस्त्वद्वितीर्णायाः ॥ १०० ॥
सकृत्प्रपन्नाय तवाहमस्मीति आयाचते चाभयदीक्षमाणम् । त्वामप्यपास्याहमहम्भवामि रङ्गेश ! विस्रम्भविवेकरेकात् ॥ १०१ ॥
तव भरोऽहमकारिषि धार्मिकैश्शरणमित्यपि वाचमुदैरिरम् । इति ससाक्षिकयन्निदमद्य मां कुरु भरं तव रङ्गधुरन्धर ! ॥ १०२ ॥
दयाऽन्येषां दुःखाप्रसहनमनन्योऽसि सकलैः दयालुस्त्वं नातः प्रणमदपराधानविदुषः । क्षमा ते रङ्गेन्दो ! भवति न तरां नाथ ! न तमां तवौदार्यं यस्मात्तव विभवमर्थिस्वममथाः ॥ १०३ ॥
गुणतुङ्गतया तव रङ्गपते ! भृशनिम्नमिमं जनमुन्नमय । यदपेक्ष्यमपेक्षितुरस्य हि तत्परिपूरणमीशितुरीश्वरता ॥ १०४ ॥
त्वं मीनपानीयनयेन कर्मधीभक्तिवैराग्यजुषो विभर्षि । रङ्गेश ! मां पासि मितम्पचं यत्पानीयशालं मरुभूषु तत्स्यात् ॥ १०५ ॥
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतश्श्रीमान्श्रेयसेमेऽस्तु भूयसे ॥

 

॥ श्रीरङ्गराजस्तवे उत्तरशतकं समाप्तम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.