[highlight_content]

श्रीसुदर्शनाष्टोत्तरशतनामस्तोत्रम्

श्रीः

श्रीमते रामानुजाय नमः

श्रीसुदर्शनाष्टोत्तरशतनामस्तोत्रम्

सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।

सहस्रबाहुः दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥ १ ॥

अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः ।

सौदामिनीसहस्राभो मणिकुण्डलशोभितः ॥ २ ॥

पञ्चभूतमयोरूपः षट्कोणान्तरसम्स्थितः।

हरान्तःकरणोद्भूत-रोषभीषणविग्रहः  ॥ ३ ॥

हरिपाणिलसत्पद्म-विहारार-मनोहरः  ।

साकाररूपः सर्वज्ञः सर्वलोकार्चितप्रभः  ॥ ४ ॥

चतुर्दशसहस्रारः चतुर्वेदमयोऽनघः ।

भक्तचन्द्रमसज्यो ति: भवरोगविनाशनः ॥ ५ ॥

शेषात्मकमकारश्च रक्षोसृग्रूषिताङ्गकः।

सर्वदैत्यग्रीवनाल-विभेदनमहागजः ॥ ६ ॥

भीमदम्ष्ट्रोज्ज्वलाकारो भीमकर्मा त्रिलोचनः ।

नीलवर्मा नित्यसुखी निर्मलश्रीनिरञ्जन:  ॥ ७ ॥

रक्तमाल्याम्भरधरो रक्तचन्दनरूषितः  ।

रजोगुणाकृतिः शूरो रक्षःकुलयमात्मक: ॥ ८ ॥

नित्यक्षेमङ्करः प्राज्ञः पाषण्डजनखण्डनः ।

नारायणाज्ञानुवृत्ति: नैगमान्तप्रकाशक: ॥ ९ ॥

बलिनन्दनदोर्दण्ड-खण्डने विजयीकृतः।

मित्रभावी सर्वमयः तमो-विध्वम्सनोऽव्ययः ॥ १० ॥

रजस्सत्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत्।

अरिमर्दी गुणोपोतः अव्ययाक्षस्वरूपभाक्  ॥ ११ ॥

परमात्मा परञ्ज्योतिः पञ्चकृत्यपरायणः ।

ज्ञानशक्तिबलैश्वर्यवीर्यतेजप्रभामयः ॥ १२ ॥

सदसत्परमः पूर्णः वाङ्मयो वरदोऽच्युतः ।

जीवो गुरुः हम्सरूपी पञ्चाशत्पीठरूपकः ॥ १३ ॥

मातृकामण्डलाध्यक्षो मधुध्वम्सी मनोमयः ।

अनन्तोऽनन्तरूपश्च क्रूराज्ञानतमोरवि: ॥ १४ ॥

बुद्धिरूपश्चित्तसाक्षी सारो हम्साक्षरद्वयः  ।

मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रमयो विभुः ॥ १५ ॥

स्रष्टा क्रियास्पदः शुद्धः आधारश्चक्ररूपकः  |

निरायुधो ह्यसम्रम्भः सर्वायुधसमन्वितः ॥ १६ ॥

ओङ्काररूपी पूर्णात्मा आङ्कारः साध्यबन्धनः।

ह्रीङ्कारभूतको भद्रः क्रोन्साध्याकर्षणप्रभुः ॥ १७ ॥

ऐड्डारवाक्प्रदो वाग्मी श्रीङ्कारैश्वर्यवर्धनः ।

क्लीङ्कारमोहनाकार: हुम्फट् सन्क्षोभणाकृतिः ॥ १८ ॥

इन्द्रार्चितो मनोवेगः धरणीभारनाशनः  ।

वीराराध्यो विश्वरूपो वैष्णवो विष्णुरूपक: ॥ १९ ॥

सत्यभूत: सत्यपर: सत्यधर्मानुषङ्गकः।

नारायणकृपाव्यूहः तेजश्चक्रस्सुदर्शन: ॥ २० ॥

इति श्रीसुदर्शनाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.