श्रीः
अवतारानुसन्धानम्
श्रीमान् शिष्टपरित्राता कुदृष्टिगजकेसरी ।
सौम्य जामातृ योगी मे सन्निधत्तां सदा हृदि ।।
आश्वयुजमास्य-तुल-मूलविमलर्क्षे
रङ्गनिलयोत्सव महाङ्कुरमुहूर्ते ।
आदिफणिभाष्यकृदवातरदनन्तो
हन्त! कमनीयवरयोगिगुरुमूर्त्या ।। (१)
रथाङ्गशङ्खचिह्नितः कृतोपवीतशोभितो
विराजदूर्ध्वपुण्ड्रकः कषायवस्त्रमण्डितः ।
सरोरुहाक्ष-सत्तुळस्युरस्क एष भातु मे
दृढत्रिदण्डधृग्वरो वरोपयन्तृयोगिराट् ।। (२)
प्रचण्डवादि-मण्डलप्रकाण्डगर्वखण्डन-
प्रकृष्ट-सूक्ति-युक्तिभिः प्रशस्तमुक्तिसक्तिदम् ।
कुदृग्जिगीषु कुण्डलीश्वरावतारमाश्रये
विरोधियत्न-नाशकं वरोपयन्तृदेशिकम् ।। (३)
भवाब्धि-मग्न-चेतन-प्ररक्षण-प्रभाववत्
प्रकृष्ट-वाक्य-वैखरी प्रहृष्ट-सज्जनव्रजम् ।
यतीन्द्रपादपङ्कज-प्रमाणमानसं सदा
यतिं फणीन्द्ररूपिणं महान्तमाश्रयाम्यहम् ।। (४)
दृढमति मदहर्त्रे द्राविडोद्धारकर्ते
प्रणमदमृतदात्रे पद्मदृक्क्षेमधात्रे ।
भवभयनिहन्त्रे भ्रष्टबाह्यादितन्त्रे
भवतु कुशलमन्त्रे स्वस्ति सौम्यपयन्त्रे ।। (५)
गुरौ श्रीनगाचार्यशिष्ये मुनीन्द्रे
जना भक्तिहीना यतीन्द्राप्रियास्स्युः ।
यतीन्द्राप्रिया विष्णुकारुण्यदूराः
कुतो मुक्तिवार्ताऽपि तादृग्विधानाम् ।। (६)
वेदे सञ्जातभेदे मुनिजनवचने प्राप्तसत्यावमाने
संकीर्णे सत्त्ववर्णे सति तदनुगुणे दुष्प्रमाणे पुराणे ।
मायावादेऽनुवादे कलिकलुषवशात् कर्मवादे विरोधे
साधुत्राणाय योऽभूत् स जयति भगवान् भाष्यकारावतारः ।। (७)
पाथोभावं गतायां कलियुगशरदि श्रीधराये शकाब्दे
वर्षे साधारणेऽर्के समधिगततुले वासरे तीरसङ्ख्ये ।
वारे जैवे चतुर्थ्यां समजनि च तिथौ शुक्लपक्षे सुकर्मा
भ्राजन्मूलाख्यतारे यतिपतिरपरो रम्यजामातृनामा ।। (८)
आदावन्ते श्रुतीनां प्रणववदुदितं द्राविडाम्याय वाचां
यन्मन्त्रं छात्रभावं स्वयमिह भगवान् यस्य रङ्गेश ऐच्छत् ।
व्याख्या लोकार्यसूक्तेर्भवति कवचवद्यस्य सौम्पोपयन्ता
चित्ते मे सन्निधत्तां समुनिरविरतं भाष्यकारावतारः ।। (९)
योऽभून्नित्यशिखामणिः भुवनभृत् शेषस्सुमित्रात्मजः
केशिप्राणहराग्रजोऽर्जुनरथो निर्निद्रचिञ्चातरुः ।
दिव्यो भव्यगुरुर्महान् यतिपतिस्सोम्योपयन्ता मुनिः
सोऽयङ्कोऽपि परः पुमान् विजयतां निर्व्याजचिन्तामणिः ।। (१०)
अस्मद्देशिक मूलकन्दचरणे नाथादि सूर्यङ्गके
लक्ष्मीनायक-दिव्यविग्रह-शठद्वेष्यङ्घ्रियुग्मात्मके ।
तत्त्वेन प्रतिबोधिते यतिपतौ सौम्योपयन्त्रात्मना
स्वेनैनाखिललोकवन्द्यचरणे स्यान्मे नमस्याततिः ।। (११)
यदवतरणमूलं मुक्तिमूलं प्रजानां
शठरिपु-मुनिदृष्टाम्नाय-साम्राज्यमूलम् ।
कलिकलुष समूलोन्मूलने मूलमेतत्
स भवतु वरयोगी नस्समस्तार्थमूलम् ।। (१२)
कुदृष्टिद्विपसिंहाय कल्याणगुणशालिने ।
श्रीमते रम्यजामातृमुनीन्द्रगुरवे नमः ।। (१३)
जयतु यशसा तुङ्गं रङ्गं जगत्रयमङ्गळम्
जयतु सुचिरं तस्मिन् भूमा रमामणिभूषणम् ।
वरदगुरुणा सार्धं तस्मै शुभान्यभिवर्धयन्
वरवरमुनिश्श्रीमान् रामानुजो जयतु क्षितौ ।। (१४)
पठति शतकमेतत् प्रत्यहं यस्सुजन्मा
स हि भवति निदानं संपदामीप्सितानाम् ।
प्रशमयति विपाकं पातकानां गुरूणां
प्रथयति च निदानं पारमाप्तुं भवाब्देः ।। (१५)
त्वत्सूक्तैकरसां त्वदङ्घ्रि-युगलीन्यस्तात्मरक्षाभरान्
त्वत्सेवैकपरां त्वदीयकरुणास्रोतस्विनी सागरान् ।
आचार्यान् मम वीक्ष्य मय्यपि भृशं निस्सीमदोषास्पदे
श्रीमन् रम्यवरप्रसीदयतिनां राजन् नमस्ते नमः ।। (१६)
परिशिष्टम्
प्रपद्ये पदपद्मानि परमप्रेमसंपदाम् ।
सौम्यजामातृयोगीन्द्रचरणैकजुषां सताम् ।। (१)
संपत्स्वरूपानुगुणैव यस्मिन्
सर्वोत्तरो यत्र मनःप्रसादः ।
सद्भिस्समं देव तमेव देशं
प्राप्तं प्रपद्ये भवदङ्घ्रिमूलम् ।। (२)
यन्मूलमाश्वयुजमास्यवतारमूलं
कान्तोपयन्तृयमिनः करुणैकसिन्धोः ।
आसीदसत्सु गणितस्य ममापि सत्ता-
मूलं तदेव जगदभ्युदय्यैकमूलम् ।। (३)
निरवधि-निगमान्त-विद्यानिषद्यानवद्याशयान् ।
यतिपति-पदपद्म-बन्धानुबन्धानु-सन्धायिनः ।। (४)
वरवरमुनिवर्य संबन्धि संबन्धि संबन्धिनः ।
प्रतिदिनमनुभूय भूयो न भूयासमायासभूः ।। (५)
यत्स्मृतिस्सर्वसिद्धीनानन्तराय निवारिणी ।
तस्मै श्रीरम्यजामातृमुनये विदधे नमः ।। (६)
श्रीमद्रङ्गं जयतु परमं धाम तेजोनिधानम् ।
भूमा तस्मिन् भवतु कुशली कोऽपि भूमासहायः ।। (७)
दिव्यं तस्मै दिशतु विभवं देशिको देशिकानाम् ।
काले काले वरवरमुनिः कल्पयन् मङ्गळानि ।। (८)