श्री वरवरमुनिसुप्रभातम्
रविरुदयत्यथापि न विनश्यति मे तिमिरं
विकसति पङ्कजं हृदयपङ्कजमेव न मे ।
वरवरयोगिवर्य वरणीयदयैकनिधे
जय जय देव जागृहि जनेषु निधेहि धियम् ।। (१)
स्वपनमिदं तव स्वमहिमानुभवैकरसं
तदपि तथाविधं तदिति जातु न वेत्ति जनः ।
वरवरदेवदेव तदिदं विजहातु भवान्
अपरिमितं हितं त्रिजगतामनुचिन्तयितुम् ।। (२)
अवतरणं च देव जगतामविवेकभृतां
विविध-हितावबोधन-कृते हि कृतं भवता ।
तत इत एहि योगशयनान्मम नाथ जनान्
अमृतमयैरपाङ्गवलयै-रभिषेचयितुम् ।। (३)
शरदरविन्दवृन्द-सुषमा-परिपोषजुषा
तव नयनेन केचन परे चरणेन तथा ।
मधुरगभीरधीरचतुरैरुदितैरितरे
वरदधुरन्धरन्ति भवसिन्धुममुं तरितुम् ।। (४)
परमनभोनिवासफणि-पुङ्गव रङ्गपतेः
भवनमिदं हिताय जगतो भवताधिगतम् ।
तदपि तमेव देव सुगतिं प्रकटीकुरुषे
तदिह महत्तवैव कुरु वैभवमुद्भिदुरम् ।। (५)
त्वदभिमतप्रियस्त्वदनुवर्तनधन्यतमात्
अलमतिरिक्त इत्यखिललोकसुबोधमिदम् ।
अवनितलं त्वदीप्सितमिदं च हि तत्र वसन्
अयमखिलस्तदेव निरपायमुपैति पदम् ।। (६)
इति श्रीमद्वरवरमुनि–सुप्रभातम्