श्रीदेवराजगुरुभिः अनुगृहीता ||
उत्तरदिनचर्या ।।
अथ गोष्ठीं गरिष्ठानाम् अधिष्ठाय सुमेधसाम् । वाक्यालङ्कृतिवाक्यानां व्याख्यातारं नमामि तम् ॥ १ ॥
सायन्तनं ततः कृत्वा सम्यगाराधनं हरेः । स्वैरालापैः शुभैः श्रोतृन् नन्दयन्तं नमामि तम् ॥ २ ॥
ततः कनकपर्यङ्के तरुणद्युमणिद्युतौ । विशालविमलश्लक्ष्णतुङ्गतूलासनोज्ज्वले ॥ ३ ॥
समग्रसौरभोद्गारनिरन्तरदिगन्तरे । सोपधाने सुखासीनं सुकुमारे वरासने ॥ ४ ॥
उन्मीलत्पद्मगर्भद्युतितलमुपरि क्षीरसङ्गातगौरं
राकाचन्द्रप्रकाशप्रचुरनखमणिद्योतविद्योतमानम् ।
अङ्गुल्यग्रेषु किञ्चिन्नतमतिमूदुलं रम्यजामातृयोगी
दिव्यं तत्पादयुग्मं दिशतु शिरसि मे देशिकेन्द्रो दयालुः॥ ५ ॥
त्वं मे बन्धुस्त्वमसि जनकस्त्वं सखा देशिकस्त्वं
विद्या वृत्तं सुकृतमतुलं वित्तमप्युत्तमं त्वम् ।
आत्मा शेषी भवसि भगवन् आन्तरश्शासिता त्वं
यदा सर्वं वरवरमुने यद्यदात्मानुरूपम् ॥ ६ ॥
अग्रे पश्चादुपरि परितो भूतलं पार्श्वतो मे मौलौ वक्त्रे वपुषि सकले मानसाम्भोरुहे च । दर्शंदर्शं वरवरमुने दिव्यमङ्घ्रिद्वयं ते नित्यं मज्जन् अमृतजलधौ निस्तरेयं भवाब्धिम् ॥ ७ ॥
कर्माधीने वपुषि कुमतिः कल्पयन् आत्मभावं
दुःखे मग्नः किमिति सुचिरं दूयते जन्तुरेषः ।
सर्वं त्यक्त्वा वरवरमुने सम्प्रति त्वत्प्रसादाद्
दिव्यं प्राप्तुं तव पदयुगं देहि मे सुप्रभातम् ॥ ८ ॥
या या वृत्तिर्मनसि मम सा जायतां संस्मृतिस्ते
यो यो जल्पस्स भवतु विभो नामसङ्कीर्तनं ते ।
या या चेष्टा वपुषि भगवन् सा भवेद्वन्दनं ते
सर्व भूयाद्वरवरमुने सम्यगाराधनं ते ॥ ९ ॥
अपगतमदमानैरन्तिमोपायनिष्ठैः अधिगतपरमार्थैरर्थकामानपेक्षैः । निखिलजनसुहृद्भिः निर्जितक्रोधलोभैः वरवरमुनिभृत्यैः अस्तु मे नित्ययोगः ॥ १० ॥
इति स्तुतिनिबन्धेन सूचितस्वमनीषितान्। भृत्यान् प्रेमार्द्रया दृष्ट्या सिञ्चन्तं चिन्तयामि तम् ॥ ११ ॥
अथ भृत्याननुज्ञाप्य कृत्वा चेतश्शुभाश्रये । शयनीयं परिष्कृत्य शयानं संस्मरामि तम् ॥ १२ ॥
दिनचर्यामिमां दिव्यां रायजामातृयोगिनः । भक्त्या नित्यमनुध्यायन् प्राप्नोति परमं पदम् ॥ १३ ॥
॥ इति उत्तरदिनचर्या समाप्ता ॥