[highlight_content]

पूर्वदिनचर्या – व्याख्या

श्रीः

श्रीमते रामानुजाय नमः ।

श्रीरम्यजामातृमुनिवर्यचरणसमाश्रितैरष्टदिग्गजन्तर्भुतैश्चरमपर्व

निष्टाग्रेसरैः श्रीदेवराजाचार्यवर्यैः प्रसादितम् पूर्व दिनचर्या

 

श्रीमहीसारपुराधिष्ठितसकलशास्त्रविदग्रेसरवाधूलकुलतिलक| श्रीवीरराघवाचार्यप्रसादित सदाचारदीपिका व्याख्यानसहितम् |

श्रीः

श्रीमते रामानुजाय नमः ।

दिनचर्या सव्याख्या

सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् ।

देवराजगुरुम् वन्दे दिव्यज्ञानप्रदम् शुभम् ॥

पूर्वदिनचर्या

अङ्के कवेरकन्यायास्तुङ्गे भुवनमङ्गले ।

रङ्गे धाम्नि सुखासीनम् वन्दे वरवरम् मुनिम् ॥  (१)

व्याख्या

सेवेऽहम् भक्तिसाराख्यम् सौदर्शनमहम् महः ।

ययौ जङ्गमताम् येन वेगासेतुर्विभावितः ॥

दिनचर्या व्याकरोति देवराजार्यनिर्मिताम् ।

वरदार्यदयानिन्घो वाधूलो वीरराघवः ॥

तत्रभवान् वरवरमुनिदासापरनामधेयो देवराजगुरु:, *गुरोनाम सदा जपेत्* *तदधीनश्च वर्तेत साक्षान्नारायणो हि सः । कुर्वीत परमा भक्तिम् गुरौ तत्प्रियवत्सलः ॥ तदरिष्टावसादी च तन्नामगुणहर्षितः । यथाऽनुजीवी नृपतिम् यथा भक्तश्च दैवतम् ॥ तथैव देशिकम् शिष्यस्सेवेत विनयान्वितः । दास्याभिमानोऽनुव्रज्या श्रवणम् कीर्तनम् स्मृतिः* इत्यादिनिशिष्टाधिकारिविषयविशिष्टशास्त्रदर्शनेन निरवधिक-गुरुभक्तिभूम्ना च स्वाचार्यम् भगवन्तम् वरवरमुनिमधिकृत्य शतककाव्यचम्पूप्रमुखप्रबन्धान्निबध्नन्नप्य-पर्यवसितप्रीतिः, *गुरोर्वार्ताश्च कथयेत्* इति विध्युत्तम्भिताभिनिवेशस्तमेवाधिकृत्य दिनचर्याख्य-प्रबन्धम् प्रारम्भमाणश्चिकीर्षितस्य निर्विघ्नपरिसमाप्त्यर्थम् स्वाधिकारानुरूपम् गुरुनमस्क्रियारूपम् मङ्गलमाचरति -अङ्कइत्यादिना ॥

इयम् हि दिनचर्या, पङ्क्तिपावनम् भगवन्तम् वरवरमुनिमधिकृत्य  प्रवृत्ता, स्वयमपि पङ्क्तिपावनी सकलैरपि निष्कृष्टसत्त्वनिष्ठेर्वैदिकवरिष्ठैः पङ्क्तिशोऽनुयागानुष्ठानारम्भेष्वनुसन्धीयत इति सम्प्रदायः ।

अङ्क इत्यादि ॥ तुङ्गे निरतिशये, इदम् भुवनमङ्गलविशेषणम् । भुवनानाम् भूलोकादीनाम्, मङ्गले मङ्गलसाधने, अभ्यर्हितेष्टार्थसिद्धिर्मङ्गलम्। अत्र हेतुहेतुमतोरैक्याद्धेत्वलङ्कारविशेषः । मङ्गले स्वयम् प्राप्ये वा  मङ्गेरलच्, मगि समर्पण इत्यतो मङ्गलशब्दो निष्पन्नः। इदम् च पूर्वोत्तराभ्यामन्वेति । कवेरकन्यायाः – कावेर्याः, अङ्के – उत्सङ्गे, रङ्गेधाम्नि – *यस्माद्रतिम् गतो विष्णुः* इत्युक्तरीत्या भगवदत्यन्ताभि-मतस्थानविशेषे, सुखासीनम् – सुखेन वसन्तम्, वरवरम् मुनिम् – रूपौदार्यादिभिश्श्रीरङ्गराजेन सौसादृश्यात्तदाह्वयधरम् तत्त्वयाथात्म्य-मननशीलम्, वन्दे – नमामि स्तौमि च । वदि अभिवादनस्तुत्योरिति हि धातुपाठः । एवम् हि करणत्रयेणापि मङ्गलमनुष्ठितम् भवति । कवेरकन्यायाः अङ्के रङ्गे धाम्नि सुखासीनमित्यनेन वत्सलतरस्वमातामह्यत्सङ्गसुखनिषण्णशिशुसमाधिः स्फोर्यते । अत्र *दुग्धाब्धिर्जनको जनन्यहमियम् श्रीरेव पुत्रीवरः श्रीरङ्गेश्वरः* इत्यादिकम् द्रष्टव्यम् । सुखासीनमित्यत्र च एतदवतारानन्तरम् श्रीरङ्गविप्लवो नास्तीति प्रसिद्धिस्सूचिताम् । अङ्क इत्यकारेण उपक्रमा त्तस्य च भगवदभिघानत्वात्, *देवतावाचकाश्शब्दा ये च स्युर्भद्रवाचकाः । ते सर्वे नैव निन्द्यास्स्युर्लिपितो गणतोऽपि वा* – इत्येतदत्रानुसन्धेयम् ॥ १ ॥

 

मयि प्रविशति श्रीमन्मन्दिरम् रङ्गशायिनः ।

पत्युः पदाम्बुजम् द्रष्टुम् आयान्तमविदूरतः ॥ ( २ )

अथ स्वाचार्येण स्वविषयीकारप्रकारमनुसन्दधानः – *तद्वचश्श्रवणोत्सुकः । विग्रहालोकनपरः श्रवणम् कीर्तनम् स्मृतिः* इति भरद्वाजोक्तप्रकारेण स्वाचार्यवचश्श्रवणादीनाम् फलरूपताम्, भवदुःख-प्रतिभटताम् च वदन् *प्रत्यक्षे गुरवः स्तुत्याः* इत्याद्युक्तरीत्या प्रत्यक्षतो गुरुम् स्तुवन्नार्थात् कोर्षितग्रन्थार्थम् सङ्गृह्णाति – मयिप्रविशतीत्यादिना अनास्पदमित्यान्तेन । श्रीमन्निति सम्बुद्ध्यन्तम्, श्रीमद्धिति मन्दिरविशेषणम् वा । श्रीरिह स्वरूपानुरूपकैङ्कर्यसम्पत्, तदतिशयश्च मतुबर्थ: । अद्ये कर्तृत्वेनास्त्ये अधिकरणत्वेन च तद्वत्त्वम् द्रष्टव्यम् । रङ्गशायिनः मन्दिरम् मयि प्रविशति सति – पूर्वम् वैमुख्यहेतु-दुरितदूषिते मयि, अनुकल्पभूतमुरभिन्पादलिप्सामात्रेण प्रविशति सति । पत्युः – पतिम् विश्वस्येत्युक्तसर्वशेषिणः, पदाम्बुजम् द्रष्टुम् – रङ्गशायिनो मन्दिरमविदूरतस्समीपे आयान्तम् । अस्य च त्वामित्यनेनान्वयः। मयि प्रविशति आयान्तमित्यनेन  तदेतत्काक-तालीयमिति न्यायस्सूचितः; अविदूरत इत्यनेन च तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्विषैः* इत्युक्तप्रकारेण तत्सन्निधिप्रभावाद्वैमुख्यहेतु दुरितम् नष्टमिति स्फोर्यते । पत्युःपदाम्बुजमि – ल्यनेन तु *देव-तान्तरशब्दादिभक्तिकृष्णाख्यहेतुषु । साम्यकृत्परमैकान्ती हरौ स्वामीति बुद्धिमान्* इत्युक्तपारमैकान्त्यविशेषो यतीन्द्रप्रवणस्य ध्वन्यते । श्रीरङ्ग-राजचरणाम्बुजदिदृक्षया श्रीरङ्गमन्दिरम् प्रविशतो मम भवद्विषयी-कारलाभः, काष्ठविचायकस्य महानिधिलाभ इवेति भावः ॥ २ ॥

 

सुधानिधिमिव स्वैरस्वीकृतोदग्रविग्रहम् ।

प्रसन्नार्क प्रतीकाशप्रकाशपरिवेष्टितम् ॥ (३)

‘आपादान्मौलिपर्यन्तम् गुरूणामाकृतिम् स्मरेत्*, *विग्रहालोकनपर:* इत्यादिकमभिसन्धायाह – सुधानिधिमिति ॥ स्वरेण – स्वेच्छया, स्वीकृतः – अपूर्वतयोपात्तः, उदग्रो – अतिशयितरामणीयको विग्रहो येन स तथोक्तः, तादृशम् सुधानिधि क्षीरसागरमिव स्थितम् । अत्र स्वैर-स्वीकृतेत्यत्यन्ताभिम-तत्वम् विग्रहस्य व्यज्यते । कर्मायत्तत्वे हि शरीरस्यानभिमतत्वमपि तदापतति । उदग्रेति सुधानिधित्वावस्था-पेक्षयाऽपि रामणीयकातिशयोऽभिसम्हितः । यथावस्थितस्य सुधानिधे-रुपमानानर्हत्वव्यञ्जनाय चात्रोपमानशिक्षणम् कृतम् । तावताऽप्यभा-स्वरशुक्लत्वापत्त्याऽऽह प्रसन्नेत्यादि । प्रसन्नत्वमिह सौम्यशीतल-त्वादीनाम् समवायः, तेन चार्को विशेष्यते । यथावस्थितस्य ह्यर्कस्योष्म लत्वादुपमानानर्हत्वम् । प्रसन्नार्कप्रतीकाशेन – प्रसन्नसूर्यसदृशेन, प्रकाशेन – द्योतेन, परितस्समन्तात्, वेष्टितमावृतम् । *इक: काश* इति प्रतिशब्दस्य दीघ: । पूर्वत्रात्र चाभूतोपमालङ्कारः । अत्र प्रबन्धे प्रायेणानुप्रासश्शब्दालङ्कारः, अत्र तु सन्दर्भे कुलकम् नाम शब्दालङ्कारश्च । उपमादयश्चार्थालङ्कारास्तत्र तत्र द्रष्टव्याः । *कुलकस्तु स्याद्वल्मीके काकतिन्दुके । क्लीबे त्वेकान्वयश्लोकबृन्दे* इति हि रत्नमाला । अत्र प्रसन्नार्केत्यत्र, *तत्र गोविन्दमासीनम्  प्रसन्नादित्य-वर्चसम्* इत्युक्तभगवदन्वयप्रयुक्तम् सौम्यत्वमभिप्रेतम् । *हृदि निवसति यस्य सौम्यरूपः* इति ह्युक्तम् । पूर्वत्र माधुर्यगाम्भीर्यपावनत्वादीनि विवक्षितानि, अत्र तु स्वकान्त्या विश्वाप्यायकत्वम् विवक्षितम् । अत्र सुधानिधिदृष्टान्तेनास्य शेषावतारत्वम् स्फोरितम् । यथोक्तम् शतके, *नित्यम् पत्युः परिचरणतो वर्णतो निर्मलत्वात* इत्यादि ॥ ३ ॥

 

पार्श्वतः पाणिपद्माभ्याम् परिगृह्य भवत्प्रियौ ।

विन्यस्यन्तम् शनैरङ्घ्री मृदुलौ मेदिनीतले ॥ (४)

आयातमित्युक्तमायानम् विशिनष्टि-पार्श्वत इत्यादिना ॥ पार्श्वतः *पार्श्वयोः सप्तम्यास्तसिः । भवतः – सर्वविषयविरक्तस्य तव, प्रियौ – ज्ञानव्यवसायप्रेमसमाचारैर्निरतिशयप्रेमस्थानभूतौ वाधूलवरदनारायणतद-नुजश्रीनिवासगुरुवर्यौ । यथोक्तम् शतके – *प्रेमस्थानम् वरवरमुने सन्तु सन्तश्शतम् ते तुल्यः को वा वरदगुरुणा तेषु नारायणेन* इति । मुक्तके च – *वरवरमुनिवर्यघनकृपापात्रम्* इति । पाणिपद्माभ्याम् – पावनत्व-भोग्यत्वादिना पद्मतुल्याभ्याम् कराभ्याम्, परिगृह्य – बहिरन्तश्चैकरूप्येण गृहीत्वा । यद्वा, कव्यभिप्रायेण परिग्रहोक्तिः । परिग्रहोहि उत्कृष्ट-कर्तृकापकृष्टकर्मकस्वीकारः। मृदुलौ सुकुमारौ, अङ्घ्रि चरणौ, मेदिनीतले – भूतले, शनैर्मन्दम्, विन्यस्यन्तम् निदधानम् भवन्तमित्यन्वयः । अत्र  परिगृह्येत्यनेन भवत्प्रियशब्दनिर्दिष्टयोः हस्तदानम् व्यज्यते । उक्तम् च भरद्वाजपरिशिष्टे, *नीचैस्सम्श्लेषणम् हस्तदानम् मार्गप्रदर्शनम् । पश्चात् पार्श्वपुरोयानम् जयालोकादिभाषणम्* इति ॥

यद्यपि – पाणिपद्माभ्याम् परिगृह्येत्यनेन त्रिदण्डधारणस्यानवकाशः प्रतीयते । स तु न युज्यते, त्रिदण्डधारणस्य नित्यशो विहितत्वात् । तथा च श्रीमति पाञ्चरात्रे तत्त्वसागरसम्हितायाम्, विष्णुरूपम् त्रिदण्डाख्यम् सर्वदा धारयेद्यतिः* इति । क्रतुश्च, *विम्शतिम् धारये-न्मात्राम् दश वा पञ्च नित्यशः* इति । तथा विष्णुः, *उपवीतम् त्रिदण्डम् च पात्रम् जलपवित्रकम् । कौपीनम् कटिसूत्रम् च न त्याज्यम् यावदायुषम्’ इति । न चान्येन, त्रिदण्डधारणम् युज्यते, तस्यापि प्रतिषिद्धत्वात् । यदाह शौनकः, *ब्रह्मसूत्रम् त्रिदण्डम् च शिखा-वद्विभृयात्स्वयम् । वाहयेदितरेणाथ प्रायश्चित्ती भवेद्यतिः* इति । तथाऽपि सम्यज्ज्ञानवद्विषये केनचिन्निमित्तविशेषेण त्रिदण्डधारणस्य कादाचि-त्कविरहेऽप्यदोषात् । तथा च क्रतुः, *शीलम् वृत्तम् श्रुतम् ज्ञानम् वैराग्यम् धर्मलक्षणम् । ऐश्वर्यम् विद्यते यस्य मात्राभिस्तस्य किम् फलम्* इति । त्रिदण्डम् हि मात्रान्तर्भूतम्, भगवन्मन्दिरगमनस्य भगवत्प्रणामार्थत्वात्त्रिदण्डधारणस्य च भगवत्प्रणामेन सहानुष्ठा-तुमशक्यत्वात्त्रिदण्डधारणविरह उपपद्यते । उक्तम् हि शाण्डिल्येन –

निधाय दण्डवद्देहम् प्रसार्य चरणौ करौ ।

बद्धवा मुकुलवत्पाणी प्रणामो दण्डसञ्ज्ञितः ॥

पादौ शिरस्तथा हस्तौ निकुञ्च्य मुकुलाकृती ।

मनोबुद्ध्यभिमानेन प्रणामोऽष्टाङ्गसञ्ज्ञितः ॥ इति ॥

न हि त्रिदण्डधारणे पाण्योर्मुकुलीकरणमुपपद्यते, न चैकेन त्रिदण्ड-धारणमितरेण तु करेण प्रणाम इति युक्तम्, एकहस्तप्रणामस्य निषिः- द्धत्वात् । तदुक्तम् भगवता, *एकेन पाणिना यो वै प्रणमेद्देवमच्युतम् । तस्य दण्ड: करच्छेद इति धर्मविदो विदुः* इति । अतोऽत्र, पत्युः पदाम्बुजम् द्रष्टुमायान्तमिति प्रक्रमानुसारात् पाणिपद्माभ्याम् परिग्रहोक्तिरुपपन्ना, त्रिदण्डवियोगनिषेधस्तु प्रणाम-विशेषादिकालव्यतिरिककालविषय इति भावः । शनैरित्यत्र *दृष्टिपूतम् न्यसेत् पादम्*, *दृष्टिपूतपदन्यासी* इत्यादिकमभिसम्हितम् ।  मेदिनीशब्देन च मधुकैटभमेदोमेदुराया भूमेरीदृशदिव्यचरणनलिन-युगलव्यतिकरो महाभाग्यपरिणाम इति व्यज्यते । अथवा दिव्यचरण-युगलनलिन सस्नेहनलिन भूमिरनुभवतीति व्यज्यते । ज्ञिमिदा स्नेहन इति धातुपाठ: ॥ ४ ॥

 

आम्लानकोमलाकारम् आताम्रविमलाम्बरम् ।

आपीनविपुलोरस्कम् आजानुभुजभूषणम् ॥ ( ५ )

एवम् पादाब्जसौभाग्यमनुभूय दिव्याङ्गसौकुमार्यमाश्रमोचितपरिधान-सौष्ठववयवान्तरसौन्दर्यम् चानुसन्धत्ते – अम्लानोति ॥ अम्लान इव कोमलो मृदुल आकारो विग्रहो यस्य, स तथोक्तः तम्, *अम्लानस्तु महासहे* ति कोशः । *अम्लानः – (tamil pramana); तस्य शिरीषमालत्यादिभ्योऽपि सौकुमार्यातिशयप्रसिद्ध्या तत्सादृश्यम् वर्णितम् । अनेन न केवलमङर्घ्योर्मृदुलत्वम्, किम् तु सर्वावयवेष्वित्युक्तम् भवति । केचित्तु उपरि पादत्रयेऽपि  दीर्घोपक्रमत्वात्तदानुरूप्याय आद्यपादेऽपि दीर्घोपक्रमपाठ माद्रियन्ते । तत्र, अम्लान इव कोमलः अम्लानकोमलः, आसमन्तादम्लानकोमलः आम्लानकोमलः इति विग्रहो द्रष्टव्यः । अम्लानश्शिरीष इत्यप्यन्ये । आताम्रम् समन्ताद्रक्तम्, विमलम् शुद्धमम्बरम् यस्य स तथोक्तः, तम् । आताम्रत्वम् गैरिकधातुना रक्तत्वम् । तदाह दत्तात्रेयः –

*मोक्षाश्रमे स्मृतम् वस्त्रम् रक्तम् गैरिकधातुना । धार्यम् यज्ञोप-वीतम् तु सितम् – नवगुणान्वितम्* इति । विमलत्वम् च सुधानिधिमिवेत्युक्तवर्णविशेषलब्धपरभागवत्त्वम् । एतेन  सुधासमुद्रस्थित-विद्रुमपटलसादृश्यम् व्यज्यते । आपीनम् – तुङ्गम्, विपुलम् – विशालम्, उरो – वक्षो, यस्य स तथोक्तः, तम् । उरः प्रभृतिभ्यश्चेति बहुव्रीहौ कप् । आजानु – जान्वभिव्याप्तौ भुजौ भूषणम् यस्य स तथोक्तः,  तम् । अत्र योग्यताभिप्रायेण भुजयोराजानुत्वमनुसम्हितम् । नातः पार्श्वतः पाणिपद्माभ्याम् परिगृह्येत्यनेन व्याघातः । तयोः श्रमाशङ्कया वा परमदयालोर्मध्ये मध्ये किञ्चित्काल अजयोः प्रसारणादाजानुत्वम् विवक्षितम् । अत्र – *चक्षुः कुक्षिश्च वक्षश्च घ्राणस्कन्धललाटकाः । सर्वभूतेषु निर्दिष्टा उन्नताङ्गास्सुखप्रदाः ॥ दीघेभूबाहुमुष्कस्तु चिरञ्जीवी धनी नरः इत्यादिकम् द्रष्टव्यम् ॥ ५ ॥

 

मृणालतन्तुसन्तानसम्स्थानधवलत्विषा ।

शोभितम् यज्ञसूत्रेण नाभिबिम्बसनाभिना ॥ ( ६ )

अथ वक्षसि स्थितम् यज्ञसूत्रमनुसन्धत्ते – मृणालेति ॥ मृणालस्य बिसस्य, तन्तूनाम् सूत्राणाम्, सन्तानस्य – विततिविशेषस्य, सम्स्थान-स्येव – सन्निवेशस्येव, धवला त्विट् – कान्तिर्यस्य तत्तथोक्तम्, तेन । यद्वा – धवला त्विट् यस्य, तद्धवलत्विट् । मृणालतन्तुसन्तानसम्स्था-नमिव धवलत्विडिति विग्रहे – *उपमानानि सामान्यवचनै* रिति सूत्रेण समासः, अतो न व्यधिकरणबहुव्रीहिः । *सम्स्थानमाकृतौ मृत्यौ सन्निवेशे चतुष्पथे* इति रत्नमाला । नाभिबिम्बस्य मण्डलाकारनाभेः, सनाभिना – सहजेन । अत्रच *स्वरस्सत्त्वम् च नाभिश्च गम्भीरा सम्प्रशस्यते* इत्येतदनुसन्धेयम् । *सपिण्डास्तु सनाभयः । समानो-दर्यसोदर्यसगर्म्यसहजास्समाः* इत्यमरः । समाना नाभिर्यस्येति विग्रहे बहुव्रीहौ, *ज्योतिर्जनपदे* त्यादिना समानस्य सभावः । यज्ञसूत्रेण – यज्ञोपवीतेन, शोभितम् । धवलत्विषेत्यत्र च *धार्य यज्ञोपवीतम् स्यात्सितम् नवगुणान्वितम्* । इति दत्तात्रेयवचनमभिप्रेतम् ।  मेधा-तिथिरप्याह *यतीनाम् त्रीणि शुक्लानि भवन्त्येतानि नित्यशः । यज्ञोपवीतम् दन्ताश्च तथा जन्तुनिवारणम्* इति । जन्तनि वारणम् जलपवित्रम् । यज्ञसूत्रमिति यज्ञोपवीतपर्याय:, तदुक्तम् महर्षिभिः, *तन्महामुनिभिर्वेद ब्रह्मसूत्रमिति स्मृतम् । उपवीतम् ब्रह्मसूतम् सूत्रम् यज्ञोपवीतकम् ॥ यज्ञसूत्र ॥ देवलक्ष्य इत्याख्याषट्क्रमेण तु* इति । यज्ञसूत्रेणेत्येकत्व ॥ पश्वेकत्ववद्विवक्षितम् । तथा च व्यासभरद्वाजौ, *एकमेव यतेस्सूत्रम् साजिनम् ब्रह्मचारिणः । सोत्तरीयाणि गृहिणस्तथैव वनवासिनः* इति । तथा भृगुरपि  – *उपवीतम् वटोरेकम् द्वे तथेतरयोः स्मृते । एकमेव यतीनाम् स्यादिति शास्त्रस्य निश्चयः* इति । सनाभिनेत्यनेन सहजयोरिव सदेशत्वमभिप्रेतम् । यथोक्तम् महर्षिभिः, *नाभेरूर्ध्वमनायुष्यमधस्तात्तु तपःक्षयः । तस्मान्नाभिसमम् कुर्यादुप-वीतम् विजानानता* – इति ॥ ६ ॥

 

अम्भोजबीजमालाभिः अभिजातभुजान्तरम् ।

ऊर्ध्वपुण्ड्रैरुपश्लिष्टम् उचितस्थानलक्षणैः ॥ (७)

एवम् वक्षस्थलम्, तत्पार्श्वसम्बन्धिभुजयुगम्, भुजशिखरावलम्बि यज्ञसूत्रम्, सत्सदेशनाभिश्चानुसम्हितम् 1 अथ तदुपरि स्पर्शिनीमब्ज-बीजमालामूर्ध्वपुण्ड्राम्श्च भुजभुजान्तरादिसम्बन्धिनोऽनुसन्धत्ते – अम्भो-जेति ॥ अम्भोजबीजमालाभिः – पद्माक्षमालाभिः, अभिजातम् – सुन्दरम्, भुजान्तरम् – भुजौ च तन्मध्यभूतम् वक्षश्च यस्य स तथोक्तः, तम् । उचितानि – शास्त्रानुरूपाणि, स्थानानि – उदरादीनि, लक्षणानि सान्तरालत्वदशाङ्गुलत्वसपादत्वादीनि येषाम् तथोक्ताः, तैरूर्ध्वपुण्ङ्रैः । उपश्लिष्टम् – सम्युक्तम्, उपश्लेषोक्तिः पुष्पितवत् सुघटितत्वाभिप्रायिका । विशिष्टाधिकारिणाम् पद्माक्षमालादि स्मृतिसिद्धम् । तथा च भरद्वाजः, *पवित्राण्यब्जबीजानि शङ्खचक्राङ्कभूषणम् । धारयेद्वैष्णवम् नाम वैष्णवाश्रयमेव वा* इति । पराशरश्च, *उपवीतम् शिखाबन्धमूर्ध्वपुण्ड्रम् तथैव च । पद्माक्षमालाम् कौशेयम् सततम् धारयेद्दिजः* इति । मालाभिरिति बहुवचनम् शतपत्रसहस्रपत्रबीज-कृतवैचित्र्यार्थकृतमालाबहुत्वम् तुलसीकाष्ठखण्डकृतमालापवित्रमालाबहु-त्वम् चाभिप्रेति । उक्तम् च *ये कण्ठलग्नतुलसीनलिनाक्षमालाः* इत्यादि । ब्राह्मे च *श्रीकृष्णतुलसीकाष्ठमणिमालाम् तथैव च । श्रीमत्पवित्रम् देवेन धारितम् वै गले तथा । सह पद्माक्षमालाम् च* इति । ऊर्ध्वपुण्ङ्र विषये च वृद्धमनुः *ऊर्ध्वपुण्ड्रम् मृदा धार्यम् यतीनाम् तु विशेषतः । भस्मचन्दनगन्धादीन् वर्जयेद्यावदायुषम्* इति । पराशरश्च, *आदाय वैष्णवक्षेत्रान्मृत्तिकाम् विमलाम् सिताम् । मूलमन्त्रेणाभिमन्त्र्य उर्ध्वपुण्ड्राणि धारयेत् ॥ ललाटादिषु चाङ्गेषु केशवादीन् यथाक्रमम् । त्र्यङ्गुलम् द्व्यङ्गुलम् वाऽपि सान्तरालम् प्रकल्पयेत् । पार्श्वमङ्गुलिमात्रम् तु ऊर्ध्वपुण्ङ्रस्य लक्षणम् ॥ हरेः पादाकृति रम्यम् सुपार्श्वम् सुमनोरमम् । नासिकामूलमारभ्य ललाटान्तम् सुविन्यसेत् ॥ ऊर्ध्वपुण्ड्रप्रमाणानि स्थानानि द्विजसत्तमाः । व्यूहभेदानि नामानि वक्ष्यामि च पृथक्पृथक् ॥ चतुस्त्रिद्व्यङ्गुलम् वाऽपि विस्तारम् परिकल्पयेत् । ललाटे केशवायेति चतुरङ्गुलमायतम् ॥ चतुश्चक्रधरम् देवम् शुद्धजाम्बूनदुप्रभम् । कुक्षौ नारायणायेति धारयेत्तु दशाङ्गुलम्* इत्यादि । तथा श्रीपाञ्चरात्रे पराशरसम्हितायाम् स एवाह, *नासादौ द्व्यङ्गुलम् पादम् मध्यम् सार्धाङ्गुलम् भवेत् । पार्श्वमङ्गुलिमात्रम् तु सुस्पष्टम् धारयेद्दिजः* इति । पाद्मपुराणे *आरभ्य नासिकामूलम् ललाटान्तम् सुविन्यसेत् । समारभ्य भ्रुवोर्मध्यमन्तरालम् प्रकल्पयेत्* इति, *अन्तरालम् यङ्गुलम् स्यात् पार्श्वावङ्गुलमात्रकौ* इति च । ‘ह्रस्वम् दीर्घम् ततम् तनु । वक्रम् विरूपम् बद्धाग्रम् छिन्नमूलम् पदच्युतम् । अशुभ्रम्* इत्यारभ्य, *पुण्डमाहुरनर्थकम्* इति च पदच्युतम् – च्युतपदमित्यर्थः, बिन्दु-च्युतमित्यादिवत् । न तु पदरूपेण च्युतमिति, रूपेणेत्यध्याहार-प्रसङ्गात् । छिन्नमूलमशुभ्रमिति च पूर्वोत्तरवैरूप्यप्रसङ्गाच्च । भरद्वाजश्च *उदरे हृदि कण्ठे च दशाष्ट चतुरङ्गलान्* इत्यादि विस्तरेणाह । *त्रयोदश द्वादश वाऽप्यूर्ध्वपुण्ड्राणि धारयेत्* इति स एवाह । अत्र च सङ्ख्याविशेषानुक्तिरुभयसम्भवाभिप्रायेण । *यद्वा दशोर्वपुण्ड्राणाम् धारणम् तच्च पार्थिवम्* इत्यन्यपरोक्तावप्येतत्परामर्शदर्शनात् अत्रापि द्वादशसङ्ख्यैव वा विवक्षिता । अत्र श्रीचूर्णधारणमप्यभिप्रेतम् । यथाऽह पराशरः *उर्ध्वपुण्ड्रस्यान्तराले हरिद्राम् घारयेच्छ्रियम्* इति । भरद्वाजश्च *ततो दिव्यम् च हारिद्रम् सहेमतुलसीदलम् । मन्त्रेण धारयेच्चूर्णम्* इति । अम्भोजबीममालाशब्दे चाजहल्लक्षणा बोध्या ॥ ७ ॥

 

काश्मीरकेसरस्तोमकडारस्निग्धरोचिषा ।

कौशेयेन समिन्धानम् स्कन्धमूलावलम्बिना ॥ (८)

एवमूर्ध्वपुण्ड्रानुबन्धात् स्कन्धमूलम् तत्स्थमुत्तरीयम् चानुसन्धत्ते काश्मीरोति ॥ काश्मीरकेसराणाम् – कुङ्कुमकुसुमकिञ्जल्कानाम्, स्तोमस्येव सङ्घातस्येव, कडारम् – रक्तम्, स्निग्धम् रोचिः – कान्तिर्यस्य तत्तथोक्तम्, तेन । स्निग्धशब्देन चाकचक्यम् विवक्षितम् । स्कन्धमूलम् कण्ठमूलमवलम्बत इति स्कन्धमूलावलम्बि, *सुप्यज्ञातावि*ति णिनिः । कौशेयेन – कृमिकोशोत्थवस्त्रविशेषेण, समिन्धानम् – परभागेन दीप्य-मानम् । अत्र स्कन्धमूलावलम्बिनेत्युत्तरीयत्वेन धारणमभिसम्हितम् । पाराशरो हि चतुर्णामाश्रमाणाम् पृथक्पृथक् परिधानम् वक्ष्यन्, आदौ चातुराश्रम्यसाधारणम् कौशेयधारणम् पृथगाह *उपवीतम् शिखाबन्ध-मूर्ध्वपुण्ड्रम् तथैव च । पद्माक्षमालाम् कौशेयम् सततम् धारयेत् द्विजः* इति । *नोत्तरीयमि*ति निषेधस्त्ववैष्णवयतिविषयः । आयान्तमित्या-गमनसमयावस्थितदशानुसन्धाने च स्कन्धमूलावलम्बिनेत्युक्तिरुपपद्यते । यतश्शाण्डिल्येन प्रणामकाल एव कण्ठगतवस्त्रत्वम् प्रतिषिद्धम् । यथा *प्रदक्षिणे प्रणामे च पूजायाम् हवने तथा । न कण्ठगतवस्त्रस्याद्दर्शने गुरुदेवयोः* इति । कौशेयस्य कषायवर्णत्वमन्यत्राप्युक्तम्, *कषायमेव कार्पासम् वासः कन्थाम् च धारयेत् । वल्कलम् वाऽजिनम् वाऽपि कौशम् शाणमयम् तु वा* इति ॥ ८ ॥

 

मन्त्ररत्नानुसन्धानसन्ततस्फुरिताधरम् ।

तदर्थतत्त्वनिध्यानसन्नद्धपुलकोद्गमम् ॥ (९)

अथ स्कन्धमूलसन्निकर्षादधरसौभाग्यमनुभवति – मन्त्ररत्नेति ॥ मन्त्ररत्नपदम् द्वये योगरूढम् । तत्र सर्वमन्त्रश्रेष्ठत्वम् योगार्थः, श्रीमन्नारायणेत्याद्यानुपूर्वीविशेषो रूढ्यर्थः। योगरूढिश्च *सर्वेषामेव मन्त्राणाम् मन्त्ररत्नम् द्वयाह्वयम् । मन्त्ररत्नम् द्वयम् न्यासः प्रपत्ति-श्शरणागतिः ॥ नामानि मन्त्ररत्नस्य पर्यायेण निबोध मे* इत्यादि-तोऽवगता । अस्य सर्वमन्त्रश्रेष्ठत्वम् पराशराय नारदेनोक्तम् *मन्त्राणाम् परमो मन्त्रो गुह्यानाम् गुह्यमुत्तमम् । रहस्यानाम् रहस्यम् च सद्यस्सम्सारतारणम् ॥ सर्वसम्शयभेत्ता च सर्वकल्मषनाशनः । शरणा-गतिमन्त्रोऽयम् सर्वसम्पच्छुभावहः* इति । पराशरेणाप्युक्तम् – *न्यासा-ख्यम् परमम् मन्त्रम् सम्सारच्छेदनम् शुभम् । सर्वदम् सर्वपापघ्नम् महत्प्रियतरम् विभोः* इति । लक्ष्म्या चोक्तम् – *वेदामृतमहाम्भोधे- र्हरिणा द्वयमुद्धतम्* इति । एतादृशोत्कर्षविवक्षयैवात्र मन्त्ररत्नपदमुपात्तम् । तस्यानुसन्धानेन – उपाम्शूच्चारणेन, सन्ततम् सर्वदा, स्फुरितः – किञ्चिञ्चलितोऽधरो यस्य स तथोक्तस्तम् । अत्र सन्ततस्फुरित-त्वोक्तिरनुसन्धानस्य सदातनत्वम् व्यञ्जयति; तथा चोक्तम्, *अनेन मन्त्ररत्नेन मत्प्रियेण भजेत्सदा* इति । पराशरेण चोक्तम् *यावच्छ-रीरपातम् तु द्वयमावर्तयेन्मनुम्* इति । स्फुरितपदेन चोच्चारणस्यात्यन्तोपाम्शुत्वम् लब्धम् । तेन च *मन्त्रम् यत्नेन गोपयेत्* इति शास्त्रार्थोऽनुष्ठितो भवतीति ध्वनितम् । अनन्योपायानाम् मन्त्ररत्नादे: स्वरूपतोऽनुपादेयत्वादाह – तदर्थेत्यादि । अर्थानुसन्धान-रूपदृष्टविधया तदुपकारोऽनन्योपायानाम् न दुष्यतीति भावः। तस्य मन्त्ररत्नस्यार्थे – पुरुषकारोपायाद्यात्मकतत्त्वतत्प्रपत्त्यनुष्ठानात्मकहितरूपे-ऽभिधेये, यत्तत्त्वम् पुरुषकारतदुद्भावितगुणयोगतद्विशिष्टसिद्धोपायतदीय-विग्रहतदुपलक्षकचरणादिरूपसिद्धवस्तु, तस्य निध्यानेन सन्नद्धस्सज्जः, पुलकोद्गमो – रोमञ्चोदयो यस्य स तथोक्तः, तम् । *सन्नद्धौ सज्ज-वर्मितौ* इति कोश: । नीत्युपसर्गेण ध्याने प्राप्तिदशाभाविरसविशेष-निष्पादनसमर्थवैशद्यविशेषोपधायकभावनाप्रकर्षपर्यन्तत्वम् विवक्षितम् । तेन सन्नद्धपुलकोद्गमत्वोक्तिरुपपद्यते । अत्र च मन्त्ररत्नस्य प्रपत्त्यनु-ष्ठानम् प्रति करणमन्त्रत्वादनुष्ठानस्य च सकृत्त्वात्, सन्ततानु-सन्धाननिध्यानोक्त्यनुपपत्तिरिति शङ्कापनोदनाय तत्त्वपदमुपात्तम् । अनेन चानुष्ठानापेक्षया तयोरनुपपन्नत्वेऽपि, कालक्षेपभोगार्थतया तदुपपत्तिरित्युक्तम् भवति । यद्वा, तदर्थस्य – मन्त्ररत्नार्थस्य, यत्तत्त्वम् – पर्यवसितम् याथात्म्यम् तस्य निध्यानेनेत्यादिरर्थः । पर्यवसितम् याथात्म्यम् च – *विष्णुश्शेषी तदीयश्शुभगुणनिलयो विग्रहश्श्रीशठारिः श्रीमान् रामानुजार्य: पदकमलयुगमा भाति रम्यमा तदीयम्* इति भगवत्कृष्णपादानुगृहीतरीत्या रामानुजस्य चरणशब्दार्थत्वम्, तस्यैव यतीन्द्रप्रवणम् प्रत्यनुसन्धयेत्वादिति बोध्यम् । सन्नद्धपुलकोद्गमम् भवन्तम् पश्यन्नित्यत्र च *आह्लादशीतनेत्राम्बु: पुलकीकृतगात्रवान् । सदापरगुणाविष्टो द्रष्टव्यस्सर्वदेहिभिः* इति शास्त्रार्थोऽनुष्ठितो भवति । उक्तम् च भरद्वाजपरिशिष्टे* *भक्तिज्ञानसमाचारवैराग्याद्यनुमोदनम्* इति ॥ ९ ॥

स्मयमानमुखाम्भोजम् दयमानदृगञ्चलम् ।

मयि प्रसादप्रवणम् मधुरोदारभाषणम् ॥ (१०)

अथ – अधरसन्निहितम् स्मितम्, तत्कान्तिव्यतिकरितमपाङ्गम्, तदु-भयसम्वादि वचनामृतम्, तदुन्नेयम् स्वस्मिन्ननुग्रहम् चानुसन्धत्ते – स्मयमानेति ॥ स्मयमानम् – सदा मन्दहासयुक्तम्, मुखमेवाम् – भोजम् यस्य, स तथोक्तस्तम् । ष्मिङ्ईषपद्धसन इति धातुपाठः। मन्दहासा-न्वयात् मुखाम्भोजमिति परिणामालङ्कारः, उपमायाम् त्वम्भोज-मुखमिति स्यात् । पूर्वोक्तभावनाप्रकर्षात् प्राप्यस्य लब्धत्वबुद्ध्या स्वकार्तार्थ्यानुसन्धानेन सन्तोषात् सदा मन्दहासयुक्तत्वम्, वक्ष्य-माणमधुरोदारभाषणस्य स्मितपूर्वकत्वम् वाऽत्रोच्यते । जनानामीदृश-पुरुषार्थहान्यनुसन्धानेन परदुःखदुःखित्वलक्षणदयाऽपि सर्वदेत्याह – दयमानेति । दयमाने दयाव्यञ्जकत्वेन सदा दयायुक्ते, दृशोरश्चले अन्तौ यस्य स तथोक्तस्तम् दृगञ्चलमपाङ्गम्, भाषणहेतुतया वाऽत्रोच्यते । सन्तोषो दया चावश्यकधर्मौ । तदाह बृहस्पतिः – *क्षमा तीर्थम् तपस्तीर्थम् तीर्थमिन्द्रियनिग्रहः । सर्वभूतदयातीर्थम् ध्यानम् तीर्थमनुत्तमम् ॥ एतानि पञ्च तीर्थानि सत्यम् षष्ठम् तु सर्वदा* इति । अन्यत्र च *सन्तोषो गुरुशुश्रूषा ह्यप्रमाद: क्षमा दया* इत्युक्तम् । भरद्वाजपरिशिष्टे च – *सत्यशौचदयाधैर्यक्षमासन्तोषयुक्तता* इत्युक्तम् । तथा पराशरः – *साधारणम् तु सर्वेषाम् शङ्खचक्रादिधारणम् । अहिम्सा सत्यमक्रौर्यम् शौचमिन्द्रियनिग्रहः । दानम् दमः क्षमा विद्या सर्वेषाम् मुनिभिस्स्मृतम्* इति । स्वस्मिन्नसाधारणम् प्रसादमाह -मयीति । मयि – एतावन्तम् कालम् विमुखे मयि, प्रसादे – अनुग्रहे, प्रवणम् आसक्तम्, प्रसादः कालुष्यनिवृत्तिर्वा । मद्वैमुख्यमनुसन्धाय शोकाविलहृदयस्याद्य मदाभिमुख्यदर्शनेन तन्निवृत्तिर्जातेति भावः । प्रसादकार्यमाह – मधुरेति । मधुरम् – *सम्श्रवे मधुरम्* इतिवच्छ्र-वणदशायामेव प्रियम्, उदारमर्थतो गभीरम्, भाषणम् – वाक्यम् यस्य स तथोक्तस्तम् । अर्थतो गभीरत्वम् च पूर्वोक्तमन्त्ररत्नार्थविश्रान्तिः, अतस्सन्ततस्फुरिताधरत्वोक्त्या न विरोध: । वाङ्माधुर्यम् चावश्यक-ध र्मः, तदाह म `धातिथि: *सूनृतामीरये द्वाचम्* इति । शाण्डिल्योऽपि – *अर्थयुक्तम् च सत्यम् च श्राव्यम् प्रियकरम् मधु । शुद्धम् मितम् च युक्तम् च कालयोग्यम् वदेद्वचः* इति । *आगच्छ गच्छ तिष्ठेति स्वागतम् सुहृदः प्रति । सम्मानमपि न ब्रूयान्मुनिर्मोक्षपरायणः* इत्यादिकम् त्ववैष्णवविषयमिति भावः ॥ १० ॥

 

आत्मलाभात्परम् किञ्चिद् अन्यन्नास्तीति निश्चयात् ।

अङ्गीकर्तुमिव प्राप्तम् अकिञ्चनमिमम् जनम् ॥ (११)

एवमेभिदयमानदृगञ्चलत्वादिभिर्मन्ये मद्विषयीकारोद्देशेनैव मदाग-मनावसरम् प्रतिसन्धाय, रङ्गमन्दिरम् मयि प्रविशत्यायातो, न तु यदृच्छया समागत इत्याह – आत्मेति ॥ आत्मनः कौस्तुभस्थानीयस्य, लाभात् – प्राप्तेरन्यत्किञ्चित् – किमपि, परमुत्कृष्टम् नास्तीति निश्चयात् – व्यवसायाद्धेतोः, अकिञ्चनमङ्गीकारहेतुलवविरहिणमिमम् – परित्याग-हेतुदोषभूयिष्ठजनम् मामित्यर्थः । उक्ताकिञ्चन्यविशेषद्रढीकरणाय जनमिति सामा-न्यव्यपदेशः । अङ्गीकर्तुम् – स्वीकर्तुम्, प्राप्तमिवा-यातमिव, स्थितम् भवन्तमित्यर्थः । *प्रणष्टस्य यथा लाभ:* इत्युक्तरीत्या स्वलाभ: स्वामिनोऽभिमत इति तत्साहाय्यकमपि शेषिमुखोल्लासहेतुरित्यात्मलाभस्य प्रकृष्टपुरुषार्थत्वमिति भावः । यथोक्तम् शतके* *आत्म-नश्शोधयित्वा पद्माभर्तुः प्रतिदिनमिह प्रेषयन् प्राभृतानि* इति । इवशब्दस्सम्भावनायाम् ॥ ११ ॥

 

भवन्तमेव नीरन्ध्रम् पश्यन् वश्येन चेतसा ।

मुने वरवर स्वामिन् ! मुहुस्त्वामेव कीर्तयन् ॥ (१२)

*विग्रहालोकनपरः कीर्तनम् श्रवणम् स्मृतिः* इत्यादिकम् हृदि निधायाह भवन्तमिति ॥ स्वामिन् – स्वकीयम् वस्तु स्वयमे-वाभिमन्यमान, *स्वाम्यम् स्वीयाभिमानिता* इत्युक्तम् । एतेन स्वयमेव स्वसम्बन्धम् मय्यनुसन्धाय विमुखम् मामङ्गीकृतवानिति व्यज्यते । मुने – मद्विषयीकारमननशील, वरवर ! भवन्तम् पूर्वोक्तसौन्दर्यसौलभ्या-दिगुणपूर्णम्, एवकारेण द्रष्टव्यान्तरव्युदासः । नीरन्ध्रम् – निरन्तरम् पश्यन्, वश्येन – त्वत्कटाक्षविशेषवशात् मद्वशम्वदेन, चेतसा – मनसा, त्वामेव – कीर्तनीयम् त्वामेव, कीर्तयन् । अनयोश्च अध्याहृतेनाहमित्यनेनोत्तरश्लोकेऽन्वयः । *लक्षणहेत्वोः क्रियाया* इति हेत्वर्थकश्शत्रादेशः । अनेन दर्शनकीर्तनयोर्भवदुःखानास्पदत्वे हेतुत्व-मुक्तम् भवति । तच्चाचार्यनिष्ठाविशेषस्य सिद्धोपायाधिकारि-पङ्क्तिसम्पादनविधया सिद्धोपायाधीनविरोधिनिवृत्तिप्रयोजकत्वरूपम्, इन्द्रियाणाम् प्राप्तविषयदर्शनकीर्तनादिसुखव्यापृतत्वेन भवदुःखानाम-नवकाशपराहतत्वापादकत्वरूपम् वा ॥ १२ ॥

 

त्वदन्यविषयस्पर्शविमुखैरखिलेन्द्रियैः ।

भवेयम् भवदुःखानाम् असह्यानामनास्पदम् ॥ (१३)

अनुक्तानामिन्द्रियाणामपि स्वाचार्यप्रावण्याशम्सापूर्वकम्, स्वस्य भव- दुःखासम्बन्धम् – प्रार्थयते – त्वदन्येति ॥ त्वदन्येषाम् विषयाणाम् स्पर्शे – सम्बन्धे, विमुखैः द्वेषवद्भिः; त्वदन्यत्वमेव विषयाणाम् द्वेष्यत्वे निबन्धनम्, न त्वल्पास्थिरत्वादिकमिति भावः । अखिलेन्द्रियैः – उका-नुक्तैः करणैः, अहम् – अहमिति चाध्याहारो, भवेयमित्युक्तेः । असह्यानाम् *सर्व सहे* इत्यध्यवसितेनापि दुस्सहानाम्, भवदुःखानाम् – शरीर-सम्बन्ध निबन्धनानामुपक्लेशानाम्, अनास्पदमनधिकरणम्, भवेयम् – भवितुमाशम्स इत्यर्थः । अत्र च, पश्यन्निति चक्षुषः, वश्येन चेतसेति मनसः, कीर्तयन्निति वागिन्द्रियस्य, मधुरोदारभाषणमिति श्रोत्रस्य, स्वचरणाम्भोज स्पर्शसम्पन्नसौरभैस्तीर्तैरिति वक्ष्यमाणत्वात् घ्राण-रसनयोः, दीर्घम् प्रणमत इति पाणिपादस्य, पदद्वयम् दत्वेति त्वगिन्द्रि-यस्य च विनियोगविशेषोऽनुसन्धेयः, विषयान्तरवैमुख्योक्तेः । कुर्वद्रूपाणाम् करणानाम् प्राप्तविषयविनियोगोऽह्यर्थ-सिद्धः । तदिदमाह शाण्डिल्य – *प्रतिषिद्धष्वसक्तम् यत् सक्तम् शब्देषु साधुषु । भगवद्विषयेष्वेव शुद्धम् तच्छ्रोत्रमुच्यते ॥ अस्पृश्यमम्पृ-शन्ती या स्पृशन्ती स्पृश्यमेव च । तत्राप्यलोलुपा सा तु त्वक्छुद्धेति निगद्यते ॥ पाषण्डपतितायेषु न पतन्ती कदाचन । अरूक्षा सम्पतन्ती दृक्छुद्धा भागवतादिषु ॥ भोज्यानेव रसान् रस्ये नात्यन्तचपला रसे । काले मितम् च सा जिह्वा परिशुद्धति कीर्त्यते*, *मेध्यगन्धेषु योजिता । युक्तेष्वलोलुपा या सा नासा शुद्धेति कीर्त्यते*, *पुण्यस्तवादिपठने निरता प्रियवादिनी । सत्यैः परहितैः सार्थैमितैर्लक्षणसम्युतैः ॥ युक्ताक्षरैस्सुपूता वाक्*, *अभ्यञ्जनादिव्यापारे वृत्तः पित्रोर्गुरोस्तथा* इत्युपक्रम्य, *शुद्धः पाणितलो मतः* इत्यादिना ॥ तथा भरद्वाजपरिशिष्टेऽपि *ये सन्ति तत्र निर्यतास्ते सन्त इति कीर्तिताः । सर्वात्मना तु या वृत्तिस्तेषु भक्तिमयी परा । सा भक्तेः परमा काष्ठा वृत्तेश्च परमात्मनि । आचार्यवद्देवताव-न्मातृवपितृवत् स्वयम् । सुहृद्वत्स्वामिवत्सन्तो द्रष्टव्या राजवत्तथा । श्रुत्वैव सहसोत्थानम् प्रत्युत्थानम् सुदूरतः । दर्शनानुभवप्रीतिः प्रणि-पातो निवेदनम् । नीचैस्सम्श्लेषणम् हस्तदानम् मार्गप्रदशनम् । पश्चा-त्पार्श्वपुरोयानम् जयालोकादिभाषणम् । पादावनेजनम् चार्योपहारस्वाग-तादि च । प्रसादनम् क्षामणम् च प्रीतिसङ्कथनानि च । उपासनम् प्रश्रयणमात्मात्मीयनिवेदनम् । आज्ञाभ्यर्थनमालोकनिर्देशवचनादरः। साधनम् सम्पदामिष्टादरोऽनिष्टनिवर्तनम् । विरहानिष्टपीडावमाननाद्य-सहिष्णुता । दास्याभिमानोऽनुव्रज्या श्रवणम् कीर्तनम् स्मृतिः । भक्ति-ज्ञानसमाचारवैराग्याद्यनुमोदनम् । सङ्गमेच्छोपगमनमन्वक्स्थाना-सनादिकम् । समानसुखदुःखत्वम् मिथश्चार्थविचिन्तनम् । क्रियाकाले-ऽनुवरणम् सदस्यग्रे च पूजनम् । परिषत्सु च सान्निध्यम् सम्विदाम् च प्रवर्तनम् । सदाऽभ्यनुज्ञापूर्वम् च सर्वार्थेषु प्रवृत्तयः । प्रच्छादनम् च दोषाणाम् गुणानाम् ख्यापनम् तथा । क्वचिच्चैवाप्यधर्मेण कृछ्रेणाप्यर्थ-साधनम् । एताश्चान्याश्च विविधा वृत्तयो रसनिर्भराः । विष्णुभक्तेषु वृत्त्याख्यतरोर्हि फलसम्पदः* इति सर्वकरणानामाचार्य विषयविनियोग-विशेषास्सम्यगुक्ताः । सतामाचार्यमुख्यानामित्युपरितनग्रन्थस्वरसात्, *ते सन्त इति कीर्तिताः* इत्यत्र सच्छब्देनाचार्यसमहः स्पष्टः । अत्र चोर्ध्व-पुण्ड्रैरुपश्लिष्टम् पत्युः पदाम्बुजम् द्रष्टुमायान्तमिति प्रातः कालानुयाय्य-भिगमनम् सूचितम् । तदुक्तम् शाण्डिल्येन, *सहाभिगमनेनैव प्रातः-कालानुयायिना । वक्ष्यामि योगादूर्ध्वम् यत् कर्तव्यम् स्नानपूर्वकम्* इति । आत्मलाभात्परमिति चोपादानम् सूचितम्, यथाऽधिकारमुपा-दानस्यानुष्ठेयत्वात् । भगवद्यागयोग्यद्रव्यसम्पादनम् ह्युपादानम्, तद्धि यथाश्रमधर्मम् स्वीकार्यम् । मन्त्ररत्नानुसन्धानेति स्वाध्यायः, तदर्थतत्त्व-निध्यानेति योगश्च सूचिताविति प्रायेण ग्रन्थार्थोऽपि सङ्गृहीतः । यथोक्तम् भरद्वानेन, *कृत्वाभिगमनम् पूर्वमुपादाय च सम्पदः । इष्ट्वा-

धीत्य च युञ्जानो भागैः कालम् नयेत् इति*, *ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । एकान्तिनस्स्वधर्मस्थास्सर्वे यान्ति पराम् गतिम्* इति च ॥ १३ ॥

इति दिनचर्याव्याख्यायाम् सदाचारदीपिकासमाख्यायाम्

उपोद्धातविभागः ॥

 

परेद्युः पश्चिमे यामे यामिन्यास्समुपस्थिते ।

प्रबुध्य शरणम् गत्वा पराम् गुरुपरम्पराम् ॥ (१४)

अथ सङ्ग्रहेणोक्तानर्थान् विस्तरेण वक्तुमुपक्रमते – परेधुरित्यादिना । इह खलु योग्यतापादकैस्सह साङ्गसकलधर्मत्यागस्य सिद्धोपा । यस्वीकाराङ्गत्वेन विधानेऽपि विनियोगपृथक्त्वन्यायेन वा कर्मान्तरत्वन्यायेन वा नित्यनैमित्तिकादीनाम् धर्माणाम् कैङ्कर्यभूतानामनुष्ठानम्, आनृशम्स्येन वा कथञ्चित्तेषामनुष्ठानमिति सिद्धान्तात्, पाञ्चकालिककर्मणाम् परमकारुणिकेन परमशेषिविषयपरिचरणैकपरायणेन भगवता वरवरमुनिना नित्यानुष्ठानात्, *गुरोर्वार्ताश्च कथयेत्* इति शास्त्रतो भक्तितश्च तत्प्रबन्धनिबन्धनस्य शिष्यस्योचितत्वादेतत्प्रबन्धारम्भ आवश्यकः । अर्वाचीनानामपि पाञ्चकालिकक्रियानुष्ठान-प्रतिष्ठापकत्वादप्ययम् प्रबन्ध आवश्यकः । प्रयोजनान्तरमपि साम्प्रदायिकम् पूर्वमेवोक्तम् ॥

परेद्युः – यामिन्या रात्रेः, पश्चिमे – चतुर्थे यामे, समुपस्थिते सति, प्रबुध्य – स्वापम् हित्वा, पराम् गुरुपरम्पराम् शरणम् गत्वा – शरणम् गुरुपरम्पराम् गत्वा, बुध्वा वा । अत्र परेद्युरितिपदम् मयि प्रविशतीत्युक्तयादृच्छिकसमागमो यस्मिन् दिने, तदुत्तरदिन इत्यर्थकम् । इदम् च प्रदर्शनार्थम्, पाञ्चकालिककर्मणाम् नित्यानुष्ठेयत्वात्, तथा भगवताऽनुष्ठितत्वाच्च । तदुक्तम् काव्ये *नित्यम् निशावसानेषु सोऽयम् शुद्धेन चेतसा । प्रबुध्य सुचिरम् दध्यौ पराम् गुरुपरम्पराम्* इत्यादिना नित्यानुष्ठितत्वम् । यद्यपि परे द्यवीत्येवानुशासनसिद्धम् । तथाऽपि स्मृतिषु तद्विवरणनिबन्धनेषु च बहुलम् प्रयोगात् परेद्युरित्येतदपि साध्वेव । *दिनद्वयम् समाश्रित्य पौर्णमासी यदि स्थिता । परेद्युस्सङ्गवम् व्याप्ता स्थिता सा कर्मणोऽर्हति* इति निगमे प्रयोगात् । कालनिर्णयादिनिबन्धनग्रन्थेष्वपि, *पर्येद्युर्द्वादश्यभावविषयम्*, *परेध्युर्दिवा पारणम्* इत्यादिप्रयोगाच्च हि साधुत्वम् सुस्थम् । तस्यात्र प्रयोगश्च स्वग्रन्थस्य स्मृतिग्रन्थमूलकत्वव्यञ्जनार्थः । रात्रावन्त्ययामे प्रबोधादिकम् पराशरेण विस्तरेणोक्तम्, *उत्थाय पश्चिमे यामे आचम्य प्रयतात्मवान् । उपविश्य शुचौ देशे समासीनस्मुखासनः* इत्यादिना । पश्चिमे याम इति निर्देशोऽपि स्वग्रन्थार्थस्य पराशरादिधर्मशास्त्रमूलकत्वस्यापि स्फोरणार्थः । गौतम श्चाह, *उत्थाय पश्चिमे यामे शान्तमानसोऽपनिद्रस्सति विरोधे तत्त्यक्त्वा नो चेत्तत्र सम्स्थितः* इति । शाण्डिल्योऽपि *सुखनिद्रारतः काले हन्तेत्युत्थाय सत्वरम् । प्रक्षाल्य पादमुत्थाय युञ्जीतापि यथाविधि ॥ आद्यन्तवर्जम् निद्राया योग्यम् यामद्वयम् निशि । चतुर्थे याम उत्थाय योगी योगम् समाचरेत्* इति । उत्तरत्र रहस्यत्रयानुसन्धानस्य वक्ष्यमाणत्वात्तदङ्गभूतम् गुरुपरम्परानुसन्धानमत्रोक्तम् । तदुक्तम् पराशरेण *स्वाचार्यम् हृदये ध्यात्वा जप्त्वा गुरुपरम्पराम्* इत्युपक्रम्य, *मन्त्रमध्यापयेद्गुरुः । न्यासाख्यम् परमम् मन्त्रम्* इति । भरद्वाजपरिशिष्टेऽपि, *आदौ गुरूणाम् विज्ञानमथ मन्त्रार्थे चिन्तनम् । तत एवात्मनो ज्ञानम् तद्धर्माणाम् च सर्वशः । परस्य पुम्सः श्रीशस्य परेशस्य परात्मनः । स्वरूपरूपविभवगुणव्यापारचिन्तनम्* इत्यादि विस्तरेणोक्तम् । अयमेव च क्रमः शरणम् गत्वेत्यादिके प्रणिधाय चेत्यन्ते सन्दर्भे निबद्धः । गुरुपरम्पराम् शरणम् गत्वेत्येतत् सदाचारानुप्रविष्टशरणागतिपरम् । *तमाचारम् प्रवक्ष्यामि यस्सद्भिरनुपाल्यते* इत्युपक्रम्य, *हित्वा योगमयीम् निद्रामुत्थायापररात्रतः । प्रपद्येत हृषीकेशम् शरणम् श्रीपति हरिम्* इत्युक्तत्वात् । सदाचारनिष्पत्त्यर्था तु शरणागतिरत्र स्वाधिकारानुगुणम् गुरुपरम्पराविषये प्रयुक्तेति भावः । यद्वा, स्वाधिकारानुगुणम् स्वाभिमतोपायभूता गुरुपरम्पराऽत्रानुसम्हितेति भाव: । *प्रबुध्य सुचिरम् दध्यौ पराम् गुरुपरम्पराम्* इत्युक्तम् काव्ये । परामित्यनेन तु *पुत्रान् बन्धून् सखीन् गुरून्* इत्युक्तगुरुविशेषव्युदासः ॥ १४ ॥

 

ध्यात्वा रहस्यत्रितयम् तत्त्वयाथात्म्यदर्पणम् ।

परव्यूहादिकान् पत्युः प्रकारान् प्रणिधाय च ॥ ( १५ )

ध्यात्वेति ॥ तत्त्वमात्मस्वरूपम्, तस्य याथात्म्यम् – वानन्यशरणत्वानन्यार्हभोग्यत्वरूपाकारत्रितयम्, तस्य दर्पणम् – स्फुटा- वलोकनोपकरणम् । दर्पणो ह्यात्मदर्शन इति प्रसिद्धः, अतस्तत्त्वेन रूपणम्  कृतम् । रहस्यानाम् – मूलमन्त्रमन्त्ररत्नचरमश्लोकानाम् त्रितयम्, ध्यात्वा – सार्थकमनुचिन्त्य । अत्र च मूलमन्त्रस्य स्वरूपयाथात्म्यपरत्वमविवादम्  । इतरयोरपि प्रपत्त्यनुष्ठानविधिपरत्वात्तस्याश्च स्वरूपयाथात्म्यज्ञानपर्यवसितत्वात्तत्परत्वमिति भावः । यथोक्तम् पराशरेण* सम्बन्धमपि विज्ञेयम् निरुपाधित्वमीशितुः । अकारवाच्यस्य विभोर्हरश्शेषमहम् सदा । ममापि च न कर्तास्मि परवानव्ययस्य वै । नित्यम् नारायणायैव कैङ्कर्यम् करवाण्यहम् । मन्त्रार्थम् चिन्तयेदेवम् प्रातरुत्थाय सर्वदा । इत्थमात्मस्वरूपम् तु ज्ञात्वा मन्त्रेण मन्त्रवित् ॥ स्वरूपमात्मनो ज्ञानम् तद्वृत्तिम् च द्वयेन वै । अखिलस्येश्वरी नित्या सर्वदा जगदाश्रया ।  नित्याऽनपायिनी विष्णोर्जगतामुपकारिणी । समासीनः श्रिया सार्धम् गुणवान् परमेश्वरः । शरणम् तस्य चरणौ व्रजाम्याकिञ्चनस्सदा । आसीनाय श्रिया साध हरये परमात्मने । तस्य  चित्तानुरूपेण शेषवृत्तिम् करोमि वै । इत्थम् द्वयार्थम् सञ्चिन्त्य स्वकर्मादिचतुष्टयम् । उपायभावात्सन्त्यज्य तमेव शरणम् व्रजन् । कर्म कुर्यादसक्तम्सन् सन्तुष्ट्यै परमात्मनः* इति ॥ परव्यूहेत्यादि । परः – परत्वम्, भावप्रधानो निर्देशः प्रकारानित्यनेन सामानाधिकरण्यात् । तच्च श्रीवैकुण्ठगद्यानुगृहीतम् बोध्यम् । व्यूहः – सङ्कर्षणादिरूपः, अयमपि भाव प्रधानो निर्देशः, आदिपदेन रामकृष्णादिविभवावस्था, हृदयपुण्डरीकेषु सविग्रहावस्थानरूपमात्मस्वरूपेष्वविग्रहावस्थानरूपम् चान्तर्यामित्वम्, दिव्यार्षसैद्धमानुषादिभेदभिदुरमर्चारूपत्वमाचार्यत्वम् च सङ्गृह्यते । परव्यूहावादी येषाम् ते तथोक्तास्तान्, शेषाद्विभाषेति कप् ।  प्रकारपञ्चकप्रकारषट्कोभयविवक्षयैव च सङ्ख्याविशेषो न निर्दिष्टः । तत्र प्रकारपञ्चकम् प्रसिद्धम् । प्रकारपट्कम् च मम स्वरूपम् सर्वस्मात् परस्य जगदीशितुः । षड्विधम् परिपूर्णम् तत् सेनेश परिपठ्यते । परत्वम् व्यूहविभवमन्तर्यामित्वमेव च । अर्चाचार्यावतारौ द्वौ पाड्विध्यम् मे प्रकीर्तितम्* इत्यत्र द्रष्टव्यम् । पत्युः – सर्वशेषिणः, अनेन *हरौ स्वामीति बुद्धिमान्* इत्युक्तपारमैकान्त्यविशेषो व्यञ्जितः । प्रकारान् – अवस्थाविशेषान्, प्रणिधायध्यात्वा । तदुक्तम् पराशरेण, *एवम् वैकुण्ठनाथोऽसौ राजते परमे पदे । सेव्यमानस्सदा नित्यमुक्तैर्भोगपरायणैः । एवम् सञ्चिन्तयेन्नित्यम् परे व्योम्नि महेश्वरम् । तस्यैव व्यूहभेदाश्च विभवार्चादिमूर्तयः* इत्युपक्रम्य, *दर्शनार्यम् दिवौकसाम् । लोकसम्रक्षणार्थाय वैभवाय समागतम् । नृसिम्हरामकृष्णादिविग्रहानपि चिन्तयेत् । देवङ्मनुष्यादिचेतनेष्वपि सम्स्थितिः । तदन्तर्याम्यवस्था हि विष्णोस्सर्वगतस्य वै । स एव योगिहृदयपङ्कजे तु सविग्रहः । सौलभ्याय स सर्वेषामर्चायाम् नित्यसन्निधिः* इति । चकारेण स्वशरीरचिन्तनम् समुच्चीयते; यथोक्तम् पराशरेण, *आत्मानम् स्वशरीरम् च परेशमनुचिन्त यन् । शुक्लशोणितसम्भूतम् शरीरम् पाश्चभौतिकम्* इत्यादि । *तम् तु मद्भोगयोग्यम् तु कृपारूपप्रकाशनात् । नयामि परमम् स्थानामर्चिरादिगतिम् विना । गरुडस्कन्धमारोप्य यथेष्टमनिवारितः* इत्येतदभिप्रेत्यार्चिरादिगतिस्मृतेरनुक्तिः । चकारेण वा सापि सङ्ग्राह्येति ध्येयम् ॥ १५ ॥

 

ततः प्रत्युषसि स्नात्वा कृत्वा पौर्वाह्णिकीः क्रियाः ।

यतीन्द्रचरणद्वन्द्वप्रवणेनैव चेतसा ॥ (१६)

तत इति ॥ प्रणिधायेति ल्यपैवानन्तर्ये लब्धेऽपि, तत इत्युक्तिः वुद्धिस्थम् दन्तधावनम् तत्प्राक्तनम् शौचादिकम् च कृत्वेत्येतदर्थिका । तदाह पराशरः, *प्रातरुत्थाय सततम् शौचम् कृत्वा यथाविधि । प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनम् चरेत् ॥ ततः स्नानम् प्रकुर्वीत दन्तधावन पूर्वकम्* इति । अन्यत्राप्युक्तम्, ब्राह्मे मुहूर्ते उत्थाय वसुरण्यो विभूरिति । अनेन परमात्मानम् ध्यायेदहरहर्हृदि ॥ तत आवश्यकम् कृत्वा पूर्वमादाय मृत्तिकाम् । शौचम् चतुर्गुणम् कुर्याद्विहिताद्गृहमधिनः* इति । विश्वामित्रश्च *उषःकाले समुत्थाय शौचम् कृत्वा विधानतः । दन्तकाष्ठमथाचम्य पर्ववर्जमतन्द्रितः ॥ कृतस्नानो जपेत्तावद्यावदादित्यदर्शनम्* इति । प्रत्युषसि स्नात्वेति – प्रत्युषसीति अरुणोदय उच्यते, तत्रैव यतीनाम् स्नानोक्तेः। यथा भविष्यत्पुराणे, *चतस्रो नाडिका: प्रातररुणोदय उच्यते । यतीनाम् स्नानकालस्तु गङ्गाम्बुसदृशस्स्मृतः* इति । स्कान्दगारुडयोश्च : उदयात्प्राक् चतस्रस्तु नाडिका अरुणोदयः । तत्र स्नानम् प्रशस्तम् स्यात् स हि पुण्यतमस्मृतः* इति । स्नात्वा – स्नानम् कृत्वा, स्नानप्रकारश्च शाण्डिल्येनोक्तः *ध्यायन् देवम् परम् ब्रह्म यथाशक्ति निमज्य च । चतुर्निमज्य विधिवत्* इति । पूर्वाह्ने भवाः पौर्वाह्निक्यः, ताः; कालात्ठक्, अध्यात्मादित्वाद्वा । अह्नः पूर्वो भागः पूर्वाह्नः, पूर्वापरेत्यादिनैकदेशिसमासे अहस्सर्वैकदेशेत्यादिना समासान्ते *अह्नोह एतेभ्य* इति अह्नादेशः, *अह्नोऽदन्तादि* ति णत्वम् । अत्र पूर्वाह्नशब्देन प्रातःकाल एव गृह्यते, पारिशेप्यात्, प्रकरणाच्च । क्रियाः – वस्त्रग्रहणसन्ध्यावन्दनादिकाः, तदाह मेधातिथि: *ऊर्ध्वम् जान्वोरधो नाभे: परिधायैकमम्बरम् । द्वितीयमन्तर्वासश्च परिधाय* इति । अन्यत्राप्युक्तम् *स्नात्वा चाचम्य विधिवत्तिष्ठन्नासीन एव वा । बिभ्रज्जलपवित्रम् च अक्षसूत्रम् करद्वये । तद्वत्पवित्रैर्गोवालैः कृते दुष्कृतनाशने । उदयाद्विधिवत्सन्ध्यामुपास्य त्रिकमल्पवत् । मित्रस्य चर्षणीत्याद्यैरुपस्थाय रविम् त्रिभिः । प्रात्तस्सायम् चोपतिष्ठेत् वारुणीभिश्च पञ्चभिः* इत्यादि । आचमनम् च जलपवित्रेण कार्यम् । तदुक्तम् *आचमनादिषु पञ्चसु जलपवित्रस्य सम्बन्धः* इति । गालवश्चाह, *सदा जलपवित्रेण मार्जनाचाम तर्पणम्* इति । ऊर्ध्वपुण्ड्रकाषायकौशेयपवित्रपद्माक्षतुलसीमालायज्ञोपवीतादिषु प्रमाणान्युपोद्वातविभाग एव लिखितानि । यतीन्द्रेत्यादि यतीन्द्रचरणद्वन्द्वप्रवणेन भगवद्रामानुजपादयुगविषयपरमभक्तिपूर्णेन । वन बन सम्भक्ताविति धातुपाठः । सम्भक्तिः – प्रीतिः । यद्वा *प्राचीनप्रवणे वैश्वदेवेन यजेते*त्यत्रेव प्रवणशब्दोऽवनतस्थलवाची । यतीन्द्रचरणद्वन्द्वम् प्रवणम् यस्य तत्तथोक्तम्, तथाविधेन । अवनतस्थले  हि सलिलादेश्शीघ्रगमनमन्यतोनिर्गमनविरहश्च दृष्टमिति भावः । चरणद्वन्द्वस्य प्रवणेन-निम्नस्थलेन । यतीन्द्रचरणद्वन्द्वम्  हि निर्हेतुकमेवात्रागम्यान्यतो न निर्गच्छतीति वाऽर्थः । चरणद्वन्द्वे अवनतेनेति चाऽर्थः । *प्रवणम् क्रमनिन्नोर्व्याम् प्रवाहेन* इति कोश: । यद्वा वनुचनोच्यत इति धातुपाठात् क्रियासामान्यवाचिनो वनतेः प्रपूर्वात् पचाद्यचि, निष्पन्नः प्रवणशब्दः क्रियासामान्यकर्तृवचनः; तथा च, *यतीन्द्रचरणोद्देश्यकक्रियासामान्यपरेणेत्यर्थः । एवकारश्च करणिनो यतीन्द्रप्रवणसमाख्यासिद्धयतीन्द्रप्रावण्यानुबन्धनिबन्धनाम् चेतसस्तत्प्रावण्यप्रसिद्धिम् द्योतयति, स्वाधिकारविरुद्धप्रथमपर्वप्रावण्यम् वा स्वातन्त्र्येण प्रतिषेधति । चेतसा – मनसा करणेन, कृत्वेनि पूर्वेणान्वयः, मध्यमणिन्यायात् उत्तरत्रापि सर्वत्रान्वयः । *तदधीनश्च वर्तेत साक्षान्नारायणो हि सः । यच्च कर्म तदर्थम् तद्विष्णोराराधनात्परम् । अपदिश्य पितृन् देवान् गुरौ यत्प्रतिपाद्यते । देशकालक्रियामात्रनिरपक्षम् तदक्षयम्* इति भरद्वाजोक्तम् आचार्यनिष्ठानामाचार्यरूपभगवन्मुखोल्लासोद्देशेनैव नित्यनैमित्तिकादि-ककार्यकरणम्, स्वाधिकारानुगुणमित्यवगम्यते 1 अत एव ह्यान्ध्रपूर्णव्याजेन श्रीवत्सचिह्नमिश्रैः भगवद्भाष्यकाराज्ञप्तै-राह्निकर्मरचार्यनिष्ठाधिकारिकर्तव्यनित्यनैमित्तिकाद्यनुष्ठानप्रकारप्रतिपादकम् प्रणीतम् । एतच्च श्रीपाञ्चरात्ररक्षायाम् स्पष्टम् । यद्वा यतीन्द्रेत्यादिना  भगवद्रामानुजदिव्याज्ञयैव नित्यनैम्मित्तिकाद्यनुष्ठानमित्युच्यते । तदुक्तम् काव्ये *आत्मस्वरूपयाथात्म्यमाचार्याधीनतैव यत् । आम्नायानाम् रहस्यम् तदखिलेभ्यः प्रकाशयन् । सर्वम् यतिपतेरेव कुर्वन्नादेशपूर्वकम् ।  कृत्याकृत्येषु कर्तृत्वम् कृती किमपि नास्पृशत् इति ॥ १६ ॥

 

अथ रङ्गनिधिम् स्मयग् अभिगम्य निजम् प्रभुम् ।

श्रीनिधानम् शनैस्तस्य शोधयित्वा पदद्वयम् ॥ (१७)

अथेति ॥ अथ – कावेरीसकाशाचन्द्रपुष्करिणीसकाशादन्यस्माद्वा स्नानदेशान्मठागमनानन्तरम्, निजम् प्रभु – स्वार्चात्मना सन्निहितम् सर्वनियन्तारम्, रङ्गनिधिम् – रङ्गस्यनिधिम्, निधिमिवानवधिकैश्वर्यनिदानम् भगवन्तम् सम्यगभिगम्य – यथाशास्त्रम् प्रेमपुरस्सरम् चाभिगम्य, श्रीनिधानम् *श्रीमन्तौ हरिचरणौ समाश्रितोऽहम्* इत्युक्तरीत्या श्रियो निधानम् निवासभूतम्, तस्य रङ्गनिधेः, पदद्वयमडियुग्मम्, शनैः – भक्तिभूम्ना त्वरणासमर्थस्सन्, शनैरित्यत्र च – *अत्वरस्सुमनाः क्रोधम् कामम् हित्वा यजेत च* इति शाण्डिल्यवचनमभिप्रेतम् । शोधयित्वा – स्नापयित्वा, प्रातः कालिकस्नानाद्यनन्तरमभिगमनम् हि स्मृतिसिद्धम् । तदाह शाण्डिल्यः – *सहाभिगमनेनैव प्रातः कालानुयायिना । वक्ष्यामि योगेदूर्ध्व यत् कर्तव्यम् स्नानपूर्वकम्* इत्युपक्रम्य स्नानादिप्रकारान् विस्तरेणोक्त्वा, *अभिगच्छेच्च देवेशम् सुस्नातस्सोर्ध्वपुण्ड्रकः । सुप्रक्षालितपादश्च स्वाचान्तस्सम्यतेन्द्रियः ॥ सन्ध्ययोरुभयोनित्यम् यावदर्कर्क्षदर्शनम् । ध्यायन् ब्रह्म जपेन्मौनी ततोऽभिगमनक्रिया* इति । प्रभुमित्यत्र च *स्वामित्वेन महत्त्वेन गुरुत्वेन च सर्वदा । पितृत्वेन तथा भाव्यो मातृत्वेन च माधवः* इति शाण्डिल्यवचनमभिसम्हितम् । निजमिति स्वार्चारूपत्वमभिप्रेतम् । तदुक्तम् काव्ये *अभिगम्य क्रमात् स्वीयमर्चयामास माधवम् । तत्सम्श्लेषाभिलाषेण रङ्गधामा परः पुमान् ॥ तद्गृहार्चात्मना तत्र सन्निधिम् विदधे सदा* इति । पदद्वयम् शोधयित्वेति पाद्यप्रदानमाराधनस्य प्रदर्शनार्थम् । अर्चयामासेति काव्ये समानप्रकरणे स्थितत्वात् । शाण्डिल्येनाप्युक्तम् *जप्त्वाभिगमनम् मन्त्रमर्चयित्वा यथाविधि । आसनादिभिः भोगैर्भक्त्या परमपावनैः ॥ अभिगम्य जगन्नाथम् ध्यायन्नेव सनातनम्* इति । अत्र यतीन्द्रचरणद्वन्द्वेत्यादिकमधिक्रियते, तेन स्वोद्देश्ययतीन्द्रोद्देश्यत्वेन रूपेण रङ्गनिधेराराध्यत्वम् लब्धम् । अतो न स्वाधिकारविरोधः । यथोक्तम् *नाहम् स्वपिमि जागर्मि तमेवार्यम् विचिन्तयन् । इत्येवमवद्भ्राता शत्रुघ्नो भरतप्रियः* इत्यादि ॥ १७ ॥

 

ततस्तत्सन्निधिस्तम्भमूलभूतलभूषणम् ।

प्राङ्मुखम् सुखमासीनम् प्रसादमधुरस्मितम् ॥ (१८)

तत इति ॥ ततः – बुद्धिस्थान्मन्त्ररत्नादिजपादनन्तरम्, तस्य – रङ्गनिधेः, सन्निधेरायतनस्य, स्तम्भस्य मूलस्य भुवः तलस्य भूषणमलङ्कर्तारम् । अत्र षडपि – षष्ठ्योऽधिकरणे षष्ठ्यः । प्राङ्मुखम्  सुखमासीनम् – उपविष्टम्, प्राङ्मुखमिति क्रियाविशेषणम् कर्तृविशेषणम् वा । प्रसादेन – सन्तोषादिप्रयुक्तमनोनैर्मल्यविशेषेण, मधुरम् – प्रियम् स्मितम् – मन्दहासो यस्य स तथोक्तस्तम् । आराधनानन्तरम् मन्त्ररत्नजपः पराशरेणोक्त: *कालत्रयाऽर्चनान्ते तु जपेदष्टसहस्रकम् । अष्टोत्तरशतम् वाऽपि अष्टाविम्शतिमेव वा ॥ यथाशक्ति जपेन्नित्यम् मन्त्ररत्नमतन्द्रितः । तदर्थम् चिन्तयेन्नित्यम् यावद्देहनिपातनम्* इति । शाण्डिल्येनाप्युक्तम्* *आमुहूर्तात्तु वै ब्राह्मादन्यूनम् प्रहरात्सुधीः । स्नानार्चनजपैस्तोत्रपाठैः कालम् विनोदयेत्* इति । अत्रापि यतीन्द्रचरणद्वन्द्वेत्यादिकमनुवर्तते । तेन जपासनादिसर्वावस्थासु स्वाधिकारानुरूप्येण स्वाचार्यस्मृतिरुक्ता भवति । प्राङ्मुखत्वम् जपादिषु शाण्डिल्येनोक्तम् – *आचार्यमेकभक्तम् च भगवन्मन्दिरम् जलम् । अग्निमर्कम् च सोमम् च पृष्ठीकृत्य जपेन्न च* इत्युपक्रम्य, *उदङ्मुखः प्राङ्मुखो वा कुर्याद्भागवतः क्रियाः* इति ॥ १८ ॥

 

भृत्यैः प्रियहितैकाग्रैः प्रेमपूर्वमुपासितम् ।

तत्प्रार्थनानुसारेण सम्स्कारान् सम्विधाय मे ॥ (१९)

भृत्यैरिति ॥ प्रियेति – प्रियमिष्टम्, हितम् पथ्यम्, तयोरेकाग्रैः – एकचित्तैः । एतेन भगवदाराधनोपयुक्तवर्णाश्रमाविरुद्धवस्तूपादानादिमुखेन प्रियहितपरत्वमुक्तम् भवति । तदुक्तम् यतिधर्मसमुच्चये -*फलपुष्पोत्पाटने प्रायश्चित्तविधानादद्भिः कर्तव्यमन्याहृर्तरर्वा* इति । *सिद्धमन्नम् भक्तजनैरानीतम् यन्मठम् प्रति । उपपन्नम् तदित्याहुर्मुनयो मोक्षकाशिणः* इत्येतत् तुल्यन्यायेन भगवदाराधनार्थम् भक्तजनसन्निधापिततण्डुलशाकादिकमप्यदूष्यमित्यभिप्रैति । देशकालवैगुण्यादिसमीक्षया भिक्षामसम्मन्यमानगुरुवचनेन चैकान्नभोजनम् साम्प्रदायिकम्, तन्मूलम् च – *अष्टौ तान्यव्रतघ्नानि आपो मूलम् घृतम् पयः । हविर्ब्राह्मणकामा य गुरोर्वचनमौषधम्* इत्यादि वचनम् । विशेषतश्च *तदीयाराधने रतिः* इत्यादि स्मयते । पराशरसम्हितायाम् च – *माठापत्यम् यतिः कुर्याद्विष्णुधर्माभिवृद्धये*, *धन धान्यादिसङ्ग्रहम्* इत्यादिकमुच्यते । पद्मभूसम्हितायाम् च -*मन्निमिताद्याधिपत्यम् यतीनाम् मोक्षकारणम्* – इत्युक्तम् । अतो यथा सम्प्रदायम् भक्तोपनीतभगवदाराधनोपयुक्तद्रव्यसम्पत्त्या उपादानकार्यसिद्धिरविरुद्धा  । यद्वास्वायत्ताचार्यप्रियतदायत्तस्वहिततदुभयपरैर्भृत्यैर्वाधूलवरदनारायणगुरु-प्रभृतिभिः, प्रेमपूर्वम् – स्नेहपूर्वम्, उपासितम् – परिचरितम्, परिचरणम् च – पूर्वोक्तसाम्स्पर्शिकादिद्रव्यसन्निधापनादिरूपम्, गुरुमन्त्रदेवतापरिभवविरहेण ज्ञानव्यवसायप्रेमसमाचारसमवायेन चाचार्यप्रीतिसम्वर्धनरूपम् च । तेषाम् प्रियहितपरभृत्यानाम् प्रार्थनाया अनतिक्रमणीयाया यान्नाया अनुसारादनुरोद्धव्यत्वाद्धेतो । मे – पूर्वोद्युवोपसन्नस्य मम, सम्स्कारान् – तापादीन्, सम्विधाय – कृत्वा, इदम् चाभिषेचनेऽन्वेति । अत्र च, *सम्वत्सरमुपासीत तमेव सुसमाहितः । उपासीत गुरोर्वर्षम्* इत्यादिना सम्वत्सरम् परीक्षितस्यैव सम्स्काराणाम् कर्तव्यत्वोक्तावपि, तत्प्रार्थनानुसारेणेति सम्वत्सरम् तदधिकम् च कालम् परीक्षितानाम् हितपराणाम् भृत्यानाम् प्रार्थनावशात्, पूर्वेद्युरागतस्याप्यस्य सम्स्कारयोजनम् नानुपपन्नम् । शोधयित्वा पदद्वयमित्युक्तमाराधनम् च, तापादिसम्स्कारेषु प्रसङ्गादुपकरोति । तेषाम् हि भगवदर्चनमङ्गम् । तदुक्तम् पराशरेण -*स्नात्वा शुभेऽह्नि पूर्वाह्ने सम्यगभ्यर्च्य केशवम् । स्नातम् शिष्यम् समाहूय कृतकौतुकबन्धनम् । आचार्यो विधिवत्कुर्याच्चक्रपुण्ड्रादिसत्क्रियाम्* इति । *न कालस्य परीक्षास्ति* इत्यादिना च *स एष देश: कालश्च* इत्याद्युपष्टब्धेन शुभकालप्रतीक्षणानपेक्षा बोधिता । सम्स्कारानिति बहुत्वम् कपिञ्जलाधिकरणन्यायात् त्रित्वे पर्यवस्यति । तथा च तापपुण्ड्रनामरूपाम्स्त्रीन् कृत्वेति लब्धम् । मन्त्रस्योत्तरश्लोकद्वयेन वक्ष्यमाणत्वात् । यागस्तु यथाधिकारस्वीयपादुकाद्वयादिप्रसादनापदेशेन कालान्तरे करिष्यत इति बोध्यम् । सम्विधायेत्यत्र समित्येकीकारे एकदैव विधायेत्यर्थः । उक्तम् च भरद्वाजपरिशिष्टे – *सहकदिवसे वा द्वे त्रीणि चत्वारि पञ्च च* इति । अग्निकार्यम् चान्येन कार्यम्, यतीनामग्निकार्यनिषेधात् । उक्तम् हि तत्रैव *आचार्यस्स्वयमादाय नियुक्तो वाऽथ मन्त्रवित् । प्राङ्मुखस्योपविष्टस्यन्यसेद्वाहौ तु दक्षिणे* इति । यदैवम् प्रधानस्यैवाचार्यनियुक्तेनान्येन करणम् तदाऽङ्गमात्रस्यान्येन करणमनुक्तसिद्धम्, *न शिप्याननुबध्नीत* इत्यादिनिषेधस्तु विशिष्टप्रार्थनाविरहविषय इति भावः ॥ १९ ॥

 

अनुकम्पापरीवाहै: अभिषेचनपूर्वकम् ।

दिव्यम् पदद्वयम् दत्त्वा दीर्घम् प्रणमतो मम ॥ ( २० )

अनुकम्पेति ॥ अनुकम्पायाः – परदुःखासहिष्णुत्वलक्षणकृपायाः, परीवाहैरधिकप्रवाहैः करणैः, अभिषेचनम् स्नपनम् पूर्वम् यस्मिन् कर्मणि तत्तथोक्तम्, इदम् दानेऽन्वेति, पूर्वोक्तसम्स्कारसम्विधानम् त्वभिषेचनेऽन्वेति । दीर्घम् प्रणमतो मम – भग्नाभिमानतावशात् भक्त्यतिशयाच्च चिरम् दण्डप्रणामम् कुर्वतो मे, दिव्यम् भगवच्चरणापेक्षयाऽपि प्रकृष्टम्, पदद्वयम् – श्रीपादुयुगलम्, दत्वा – शिरसि कृत्वा, साक्षात्फले – उपदेशक्रियोद्देश्ये स्वशिक्षित-शिष्यनिष्ठभगवन्मङ्गलाशासनफलोपायकत्वरूपफले, या एकलक्ष्यत्वप्रतिपत्तिः – अद्वितीयोद्देश्यत्वप्रकारिका बुद्धिः, तया पवित्रितम् यथा तथा, मन्त्ररत्नम् द्वयम्, प्रयच्छन्तम् – उपदिशन्तम्, वरवरमुनिम् वन्दे – नौमि । अत्रापि यतीन्द्रचरणद्वन्द्वेत्यादिकम् वर्तते, तेन उपदेशसमये स्वस्मिन् यतीन्द्रकरणत्वानुसन्धानम् लब्धम् । इदम् गुरुपरम्परानुसन्धानप्रदर्शनार्थमपि भवति, मध्यग्रहणे पार्श्वद्वयस्यापि ग्रहणात् । यतीन्द्रो हि गुरुपङ्क्तिहारनायकः । प्रधाने कृतम् कार्यम् हि सर्वत्र कृतम् भवति, *शिष्टम् श्रीमद्गुरूणाम् कुलमिदमखिलम् तस्य नाथस्य शेषः* इति ह्युक्तम् । कृपयोपदेशः शाण्डिल्येनोक्तः – *सम्वत्सरम् तदर्घम् वा मासत्रयमथापि वा । परीक्ष्य विविधोपायैः कृपया निस्पृहो वदेत्* इति । विविधोपायैः इत्यत्र परीक्षितवताम् प्रार्थनाऽप्यन्तर्भवति । पराशरेणाप्युक्तम् – *कृपया वीक्षयेद्गुरुः । स्वाचार्यम् हृदये ध्यात्वा जप्त्वा गुरुपरम्पराम्*, *आचार्य: कृपया स्वयम् । स्वाचार्यम् हृदये ध्यात्वा मन्त्रमध्यापयेद्गुरुः । न्यासाख्यम् परमम् मंत्रम् सम्सारोच्छेदनम् शुभम्* इति । द्वयानुसन्धानम् हि गुरुपरम्परानुसन्धानपूर्वकमिति *जप्त्वा गुरुपरम्पराम्* इत्यनेन लभ्यते । यद्यपि, शिष्यसङ्ग्रहो यतीनाम् बन्धहेतुः, यथोक्तम् *आसनम् पात्रलोपश्च सञ्चयश्शिष्यसङ्ग्रहः। दिवास्वापो वृथाजरूप एते षड्यन्धकारिणः* इति । तथाऽपि कृपया शिष्यम् प्रत्युपदेशो यतीनामविरुद्धः; तदुक्तम् – *शुश्रूषालाभपूजार्थम् यशोऽर्थम् वा परिग्रहः । शिष्याणाम् न तु कारुण्यात् स ज्ञेयश्शिष्यसङ्ग्रहः* इति । वैष्णवानाम् तु यतीनामुपदेशो विशेषशास्त्रसिद्धः, तदाह शाण्डिल्यः – *ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । कृपयाऽश्रमिणस्सर्वे धर्मम् ब्रूयुस्त्वलिङ्गिने । गृहस्थो वाऽपि सर्वेभ्यो धर्मम् ब्रूयान्महामतिः । परिव्राडपि वा ब्रूयात्* इति । तदिदमनुकम्पापरीवाहैरित्यनेन व्यञ्जितम् । अभिषेचनपूर्वकम् दिव्यम् पदद्वयम् दत्वा मन्त्ररत्नम् प्रयच्छन्तमिति स्नानमाल्यभूषणप्रदानशैली व्यज्यते । दीर्घम् प्रणमत इत्यत्र – *नमस्कृत्य गुरुम् दीर्घम् प्रणामैत्रिभिराट्टतः । तत्पादौ गृह्य मूर्ध्नि स्वे निधाय विनयान्वितः ॥ गृह्णीयान्मन्त्रराजानम् माम् गच्छेच्छरणम् नरः* इति । मन्त्रान्तरेषूक्तमत्रापेक्षितमतिदिश्यत इति ध्वनितम् । दीर्घम् प्रणमत इत्यत्र प्रणामैकत्वम् स्वरसतोऽवगम्यते । तन्मूलम् तु – *एकोऽपि कृष्णस्य सकृत्प्रणामः*, *ये प्रणामाम्स्तु सुबहून् कारयन्त्यविचक्षणाः* इत्यादिकम् वचनम् ॥ २० ॥

 

साक्षात्फलैकलक्ष्यत्वप्रतिपत्तिपवित्रितम् ।

मन्त्ररत्नम् प्रयच्छन्तम् वन्दे वरवरम् मुनिम् ॥ (२१)

साक्षात्फलेत्यत्र साक्षात्पदमुद्देश्यतात्मकमुख्यतामाह -*साक्षात्प्रत्यक्षमुख्ययोरि*ति यभिधानकोशः । एकपदेन चार्थशुश्रूषादिदृष्टप्रयोजनम् शिष्यस्वरूपोज्जीवनम् शिष्यस्वरूपशिक्षणप्रयुक्तभगवत्कैङ्कर्यानुकूलसहवाससिद्धिश्चेत्येषाम् चतुर्णामनुद्देश्यत्वमुच्यते । अनुद्दिष्टानामपि तेषाम् सिद्धिस्तु शिष्येश्वरस्वाचार्याणामभिसन्धिभिरिति च सूच्यते । अत्र च ऋष्यादीनामनुक्तिः *विनाऽपि न्यासमुद्रार्थतत्त्वर्षिच्छन्ददैवतम् । उच्चारणे मनोरस्य सर्वसिद्धिफलम् भवेत्* इति पराशरवचनमभिप्रेत्येति बोध्यम् । अन्यत्राप्युक्तम् – *नमोऽन्तम् मन्त्ररत्नम् च जपेयुर्वैष्णवास्सदा । ऋष्यादींश्च  करन्यासमङ्गन्यासम् च वर्जयेत् ॥ नारी वा वृषलो वाऽपि गुरुवन्दनपूर्वकम् । स्त्रीणाम् च सर्ववर्णानाम् पुरुषाणाम् तथा विदुः । एवम् ध्यात्वा द्विजश्रेष्ठो द्वयम् नित्यमतन्द्रितः । श्रीमन्नारायणम् ध्यात्वा जपेत्तम् पुरुषोत्तमम्* इति । पराशरवचने तत्वर्षिच्छन्ददैवतमित्यत्र च्छन्दशब्दे सकारलोपस्त्वार्षः । अत्र चोपादानविधिर्यथाऽधिकारमनुष्ठितो भवतीत्युक्तम् भवति । भगवद्भोगद्रव्यसम्पादनम् ह्युपादानम् । तच्चाचेतनस्य पुष्पादेरिव चेतनस्यापि सम्पादनरूपमिति युक्तम् । तथोक्तम् भरद्वाजपरिशिष्टे -*अन्येषाम् चैव भोगानाम् चेतनाचेतनात्मनाम् । निष्पादनम् रक्षणम् च सम्स्क्रियोपनयादि च । भक्त्या च नियता साङ्गा स्वयमाराधनक्रिया । इत्येतत्सकलम् काण्डस्कन्धशाखादलाङ्कुरम्* इति ॥ २१ ॥

 

ततस्सार्धम् विनिर्गत्य भृत्यैर्नित्यानपायिभिः ।

श्रीरङ्गमङ्गलम् द्रष्टुम् पुरुषम् भुजगेशयम् ॥ (२२)

तत इति ॥ ततः – मन्त्ररत्नप्रदानानन्तरम्, श्रीरङ्गस्य अनन्याधेयातिशयस्यापि रङ्गनगरस्य, श्रीर्ह्यनन्याधेयातिशया भवति ।  अतस्तत्त्वेन रूपणम् कृतम् । मङ्गलम् – अलङ्कारभूतम्, भुगगेशयमनन्तशायिनम्, पुरुषम् सर्वकारणभृतम् सर्वान्तर्यामिणम् सर्वापेक्षितप्रदम् भगवन्तम्, द्रष्टुम् साक्षात्कर्तुम्, अस्य च विनिर्गत्येत्यनेनान्वयः । नित्यानपायिभिः – नियतो यो विश्लेषाभावस्तद्वद्भिः, *अतिशायने मतुबादय* इति इनिप्रत्ययः, नातो *न कर्मधारयादिति निषेधः । अतिशयश्च, *छाया वा सत्त्वम- नुगच्छेदि*त्युक्तच्छायापेक्षया । सा हि रात्रौ न भवति, एतेनात्यन्तभक्तिरुक्ता भवति । भृत्यैस्सार्धम् क्रयविक्रयार्हैर्वाधूलवरदाचार्यप्रभृतिभिस्सह, निर्गत्य स्वमठादिति शेषः । अत्रापि यतीन्द्रचरणद्वन्द्वेत्यादिकम् वर्तते, तेन स्वोद्देश्ययतीन्द्रमुखोल्लासहेतुतया श्रीरङ्गानाथदर्शनमिति लभ्यते ।  तदुक्तम् काव्ये – *सर्वम् यतिपतेरेव कुर्वन्नादेशपूर्वकम्* इत्युपक्रम्य, *ततस्तस्य मुखोल्लासम् चिकीर्षन्नेव केवलम् । निर्जगाम जगद्धाम निद्राणम् द्रष्टमच्युतम्* इति । नित्यानपायिभिरित्येतदपि तत्रैव स्फुटीकृतम् – *गच्छन्तमन्वगच्छन्स्तम् गरीयाम्सम् गुणैश्शुभैः । तदीयास्तत्पदद्वन्द्वच्छाया दायादवृत्तयः* इति । एतेन, छायाया दुस्त्यजत्वात् तत्स्थानीयानाम् सहवाससहगतागतादिकम् न दुष्यतीत्युक्तम् भवति । तथा च – *एको भिक्षुर्यथोक्तस्तु द्वौवेव मिथुनम् स्मृतम् । त्रयो ग्रामास्समाख्याता ऊर्ध्वम् तु नगरम् यतेः । नगरम् तु न कर्तव्यम् ग्रामो वा मिथुनम् तु वा । एतत्त्रयम् प्रकुर्वाणस्स्वधर्मात् च्यवते यतिः *इत्येतत्* *स्नेहपैशुन्यमात्सर्यम् सन्निकर्षाद्भविष्यति* इतिवाक्यशेषानुसारात् तथाविधानाम् सन्निकर्षपरम्, न तु बोधयन्तः परस्परमित्युक्तानुकूलसहवासनिषेधकमिति भावः । अत्र च – *प्रभु भक्तपराधीनम् नित्यमालोकयेद्धरिम् । विमानमथवा तस्य दूराद्गोपुरमेव वा* इति भरद्वाजसम्हितोक्तेः पञ्चस्वपि कालेषु यत्रावकाशोऽस्ति तत्र दिव्यालयगमनम्, स्वार्च्यभगवदभिगमनात्पृथगेव कार्यमित्यवगम्यत इति, तदेव ततस्सार्धम् विनिर्गत्येत्यादिनोच्यते । क्वचित्तु भगवदायतनस्य तीर्थासन्नत्वे स्वगृहार्चाभूतभगवदभिगमनात्पूर्वमेव दिव्यालयगमनम् कर्तव्यम् । यथोक्तम् *उपस्थायाधारशक्त्यादीन् सन्तर्प्य निपीड्य च । वस्त्रम् ब्रह्ममुखम् कृत्वाऽऽनम्य तीर्थोपगम् हरिम् । गृहम् गत्वाऽम्युक्ष्य हुत्वाऽभिगम्य कमलापतिम्* इति ॥ २२ ॥

 

महति श्रीमति द्वारे गोपुरम् चतुराननम् ।

प्रणिपत्य शनैरन्तः प्रविशन्तम् भजामि तम् ॥ (२३)

महतीति ॥ श्रीमति – ब्रह्मादीनामपि सकृत्स्वस्मिन् प्रवेशमात्रेण सर्वैश्वर्यनियामकैश्वर्यभूयिष्ठे, महति – सर्वात्मसाधारणनाथगोष्ठीपूरेऽपि दुष्पूरमहावकाशे, द्वारे – चतुर्मुखसञ्ज्ञम्, गोपुरम् – विमानम्, अत्र गोपुरशब्दस्तदुपरिस्थितविमानपरः, प्रणिपत्य – मनोवाक्कायैनमस्कृत्य, *श्रीमद्दार अत्र गोपुरशब्दस्तदुपरिस्थितविमानपरः, प्रणिपत्य – महत्प्राप्य नाम ध्यायन्नमस्यया* – इति हि काव्ये । शनैर्मन्दम्, तदीयकनककवाटकामनीयककबलितम्, कथमपि चक्षुराकृष्येति भावः । अन्तः – अभ्यन्तरम्, प्रविशन्तम् तम् – वरमुनिम्, भजामि – सेवे । तिष्ठतु गोपुरादिकम्, प्राप्तशेषिसमृद्धिसाक्षात्कारसम्प्रीतिरेवास्य मन्मनः क्रीणातीति भावः । उक्तम् च भरद्वाजसम्हितायाम् – *उपेत्यायतनम् विष्णोः प्रणिपत्य ततस्ततः । परीत्य देवदेवेशम् प्रणम्यात्मानमर्पयेत्* इति । अत्र प्रणिपत्य ततस्तत: इति विमानमण्डपादिविषयेषु तत्तन्नामभिर्नमस्योच्यते । प्रणिपत्यशनैरन्तरित्यत्र च प्रणिपत्येति निर्देशो भरद्वाजवचनप्रत्यभिज्ञानार्थ: ॥ २३ ॥

 

देवी गोदा यतिपतिशठद्वेषिणौ रङ्गशृङ्गम्

सेनानाथो विहगवृषभ: श्रीनिधिस्सिन्धुकन्या ।

भूमानीलागुरुजनवृतः पूरुषश्चेत्यमीषाम्

अग्रे नित्यम् वरवरमुनेरङ्घ्रियुग्मम् प्रपद्ये ॥ ( २४ )

अयम् श्लोकश्शतकस्थस्सेवाक्रमबोधकोऽत्रापि निबद्धः । देवी – तुलसीमूलसञ्जातत्वादतिरोहिताप्राकृतस्वभावा, गोदा – भट्टनाथसुता, यति पतिर्भगवान् रामानुजः, शठद्वेषी – पराङ्कुशः तौ, रङ्गशृङ्गम् – श्रीरङ्गविमानम्, पर्वताग्रवाचिना शृङ्गशब्देन तद्वदुन्नतस्थिरविपुलम् विमानमुच्यते । सेनानाथो – विष्वक्सेनः, विहगानाम् – पक्षिणाम् ऋषभः – परिवृढा गरुत्मान्, श्रीनिधिः – श्रीरङ्गनाथः, सिन्धुकन्या – श्रीरङ्गराजमहिषी, भूर्भदेवी, मा – श्रीदेवी, नीला – नीलादेवी, गुरुजनाः – पराङ्कुशाद्याः प्रथमे पुमाम्सः, तैः वृतः – परिगतः, पूरुषः – परमपदनाथश्चेत्यमीषामग्रे – धुरि, वरवरमुनेरङ्घ्रियुग्मम् नित्यम् प्रपद्ये । अत्र नित्यमित्यनेन परेद्युरित्येतत्सर्वदिनप्रदर्शनार्थमित्युक्तम् भवति । स्वोद्देश्यभूतवरवरमुनिचरणयुगलापेक्षया प्रथममध्यमपर्वभूतेषु गोदादिपुरुषान्तेषु स्वातन्त्रयेण स्वमनः प्रवृत्तेर्वाणायेयम् स्वाधिकारानुगुणा देवराजगुरोर्वरवरमुनिचरणारविन्दशरणागतिरिति नाचार्यप्राचार्यसन्निपातेत्यादिनाऽस्य विरोध: । अनेन सेवाक्रमविशेषेण प्रदक्षिणस्य सिद्धेः, *परीत्य देवदेवेशम्* इति वचनार्थोऽप्यनुष्ठितो भवति । देवी गोदेत्यादिके विहगवृषभ इत्यन्ते, गुरुजनवृत इत्यत्र च – *परिवाराम्श्च सेवेत भक्त्या परमया हरेः । तत्तदर्चागतान् भक्तान् गुर्वादीम्श्च विशेषतः* इति भरद्वाजवचनमभिसम्हितम् । गोदा हि भक्तेषु गुरुषु चान्तर्भवति । *अहम् शिष्या च दासी च भक्ता च पुरुषोत्तम* इति भूम्युक्तेः । अत्र च अमीषामिति नपुम्सकलिङ्गम्, तेन स्त्रीपुन्नपुम्सकानाम् सहोक्तौ नपुम्सकशेषेऽपि न क्षतिः ॥ २४ ॥

 

मङ्गलाशासनम् कृत्वा तत्र तत्र यथोचितम् ।

धाम्नस्तस्माद्विनिष्क्रम्य प्रविश्य स्वम् निकेतनम् ॥ ( २५ )

मङ्गलाशासनमिति ॥ तत्र तत्र – गोदादिपुरुषान्तेषु विषयेषु, मङ्गलाशासनम् – प्रेमान्ध्यात् विद्यमानामङ्गलनिवृत्तिप्रार्थनाम् अविद्यमानमङ्गलसम्पत्तिप्रार्थनाम् च, यथोचितम् तत्तद्विषयानुरूपम्, चरमनिष्ठाविशेषनिष्ठस्वाधिकारानुरूपम् च कृत्वा, तस्माद्धाम्नः –भगवद्दिव्यालयात्, विनिष्क्रम्य – विनिर्गत्य, स्वम् – श्रीरङ्गनाथानुज्ञालब्धत्वेन स्वीयतया लोकैः प्रतिपाद्यमानम्, निकेतनम् – स्थानम्, प्रविश्य – प्राप्य, अत्र परिपूर्णविषयेऽपि मङ्गलाशासनकरणे प्रमाणोपपत्तिसम्प्रदायविस्तरः पूर्वाचार्यदिव्यसूक्तिष्वनुसन्धेयः । *सर्वत्र दृष्ट्वा देवेशम् जितम् त इति मन्त्रकम्* इति शाण्डिल्यवचनमिहाभिप्रेतम् ॥ जितमित्यस्य हि मङ्गलाशासनपर्यवसानम् पूर्वैर्निव्यूढम् । अत्र च भगवन्निदेशेन निकेतनविशेषवासो न दुष्यति । *अनग्निरनिकेतस्स्यादित्यादिकम् तु भगवन्निदेशादिविशेषनिदानाभावे निकेतनविशेषम् निषेधतीत्यभिप्रायेण स्वम्निकेतनमिति निर्दिष्टम् | धाम्नस्तस्माद्विनिष्क्रम्येत्येतच्च भगवद्विश्लेषासहिष्णुतयाऽतिकृच्छ्रान्निर्गमनमभिप्रैति । *प्रीतिसम्हृष्टसर्वाङ्गः स्तुत्वा चाभिविलोकयन्* इति च भरद्वाजेनोक्तम् ॥ २५ ॥

 

अथ श्रीशैलनाथार्यनाम्नि श्रीमति मण्डपे ।

तदङ्घ्रिपङ्कजद्वन्द्वच्छायामध्यनिवासिनाम् ॥ ( २६ )

अथेति ॥ प्रविश्येति ल्यपैवोत्तरकाले बोधितेऽप्य्थेत्युक्तिर्बुद्धिस्थम् यतीन्द्राय वृत्तनिवेदनम् कृत्वेत्यर्थिका । तदुक्तम् काव्ये – *उपेत्य पुनरप्येष निजमेव निवेशनम् । निवेद्य निखिलम् तत्र यतीन्द्राय नमस्यया* इति ॥ श्रीशैलनाथार्यस्य – स्वाचार्यस्य नाम यस्य स तथोक्तस्तस्मिन्, (तिरुमलैयाळ्वार्) इति हि तन्नाम । श्रीशैलनाथार्येति नाम यस्येति व्याख्याने तु, तदङ्घ्रीत्यत्र तच्छब्देन श्रीशैलनाथार्यस्य परामर्शः क्लिष्टश्च स्यात् । श्रीमति -भगवल्लोकगुर्वादिपूर्वाचार्यदिव्यायतननिवेशक्षेत्रगतदिव्यमृत्स्नालेपेन समधिकसौभाग्ययुक्ते, मण्डपे – जनाश्रये, तस्य – श्रीशैलनाथार्यस्य स्वाचार्यस्याङ्घ्रिपङ्कजयोः पद्मसदृशचरणयोर्द्वन्द्वस्य – युगलस्य, द्वन्द्वेति साहित्यसौन्दर्यम् छायावैपुल्यम् च लभ्यते । छायाया – अनातपस्य, मध्ये – अन्तरालदेशे, निवसतीति निवासी, सुप्यजाताविति ताच्छील्ये णिनिः, तथाविधम् । इदम् च तथा भावनाभिप्रायेणोक्तम् । आलेख्यरूपेण सन्निहितस्य स्वाचार्यस्य श्रीशैलनाथार्यस्य अङ्घ्रिपङ्कज द्वन्द्वस्याधस्तान्निवासाभिप्रायेण वेदमुक्तम् । अत्र चाचार्यपारतन्त्र्यस्य परा काष्ठा प्रकाशिता भवति । उक्तम् च भरद्वाजपरिशिष्टे – *न चक्राद्यङ्कनम् नेज्या न ज्ञानम् न विरागता । न मन्त्रः पारमैकान्त्यम् तैर्युक्ता गुरुवश्यता* – इति । श्रीशैलनाथार्यनाम्नीत्यत्र च – *कुर्यादचेतनानाम् च वैष्णवम् नाम लक्ष्म च । करिष्यन् वैष्णवम् नाम वैष्णवाश्रयमेव वा* इत्यादिकम् वचनमभिप्रेतम् । श्रीमतीत्यत्र -*वैष्णवस्याङ्कशय्यायाम् वैष्णवस्य गृहेऽपि वा । देशे वा तद्विचरिते सम्स्थिता यान्ति सद्गतिम्* इत्यादिकमनुसन्धेयम् । अत्र सम्स्थिता इति वासो विवक्षितः, सम्स्थाविवक्षणेऽपि तुल्यन्यायेन वासविषयेऽपीदम् वचनम् प्रमाणम् भवति । अत्र मुख्यालाभान्मृत्स्नालिप्तस्य प्रतिनिधेरुपादानम् कृतमिति बोध्यम् । *तद‌ङ्घ्रिपङ्कजद्वन्द्वच्छायामध्यनिवासिनाम्* इति षष्ठीबहुवचनान्तम् केचित् पठन्ति । अस्य च व्याचक्षाणमित्यनेनान्वयः । तत्पदम् च भगवद्वरवरमुनिपरम् । परम् त्वत्र पाठे तत्पदेन भगवद्वरवरमुनिपरामर्शे *निजम् प्रभु*, *स्वम् निकेतनम्*, *स्वचरणाम्भोज* इति पूर्वोत्तरशैलीभङ्गो भवति । अथवा षष्ठीबहुवचनपाठेऽपि तत्पदम् श्रीशैलनाथार्यपरमेव, शिष्याणाम् स्वाचार्यशिष्यत्वभावनाभिप्रायेण त्विदमुक्तमिति द्रष्टव्यम् ॥ २६ ॥

 

तत्त्वम् दिव्यप्रबन्धानाम् सारम् सम्सारवैरिणाम् ।

सरसम् सरहस्यानाम् व्याचक्षाणम् नमामि तम् ॥ (२७)

तत्त्वमिति ॥ सम्सारः – प्रकृतिसम्बन्धः, तस्मिन्, वैरिणाम् – विद्वेषवताम्, भूम्नि मत्वर्थीयः । *वैरम् विरोधो विद्वेष* इति कोशः । यद्यपि चेतनविषय विद्वेष एव वैरपदप्रयोगप्रौढिरस्ति, तथाऽपि सम्सारस्य चेतनत्वसमाधिना वैरपदम् प्रयुक्तम्, सम्सारम् प्रति हासोक्तिवदिति बोध्यम् । सारम् – प्रयोजनभूतम्, सम्सारजयोपयुक्तबलभूतम् वा, *सारो बले स्थिराम्शेऽर्थे पुमान्नयाय्ये वरे त्रिषु* इति रत्नमाला । मुमुक्षू-णामुपादेयप्रयोजनभूतक्षू स्ववैरविषयसम्सारनिरासौपयिकबलभूतमिति वेति भावः । सरहस्यानाम् – मूलमन्त्रमन्त्ररत्नचरमश्लोकात्मकरहस्यत्रयनियतानाम्, सरसम् –

मधुररसयुक्तम्,  मूलमन्त्रादिप्रतिपाद्यतदीयपर्यन्तशेषत्वादिस्वरूपयाथात्म्यादिप्रमेयविशेषा-त्मकत्वाद्रहस्यत्रयनिष्ठानामधिकारिविशेषाणाम् विशेषतो भोग्यमिति भावः । दिव्यप्रबन्धानाम् – भगवन्निर्हेतुकप्रसादलब्धज्ञानात्मकदिव्यज्ञानमूलकत्वाद्दिव्यानाम्, दिगादित्वाद्यदन्तात् यत्प्रत्ययः । प्रबन्धानाम् – द्रमिडोपनिषद्रूपाणाम्, तत्त्वम् – तत्प्रतिपाद्यम् स्वरूपादियाथात्म्यम् कर्म, *तत्त्वम् विलम्बमाने स्यात् स्वरूपे परमात्मनि* इति रत्नमाला । तत्त्वमिति द्वितीयान्तम् व्याचक्षाणमित्युक्तव्याख्यानक्रियायामन्वेति । यद्वा, तत्त्वम् दिव्यप्रबन्धानाम् सारम् कर्म, सम्सारवैरिणाम् सरहस्यनाम् सरसम् यथा भवति तथा व्याचक्षाणमित्यन्वयः । तत्त्वम् – वस्तुभूतम्, दिव्यप्रबन्धानाम् – द्रविडोपनिषदाम्, सारम् – तत्प्रतिपाद्यम् प्रयोजनम् चरमपर्वात्मकम् पुरुषार्थम् कर्म, सम्सारवैरिणाम् – प्रकृतिसम्बन्धम् जिहासताम्, सरहस्यानाम् रहस्यत्रयनिष्ठाधिकारिणाम्, तेभ्य इत्यर्थः । सरसम् यथा भवति तथा – सुखबुद्ध्या रूढम् प्राप्तितुल्यप्रीतिप्रकर्षावहम् च यथा भवति तथा, व्याचक्षाणम् – पदच्छेदपदार्थोक्त्यादिभिर्विशदम् बोधयन्तम्, तम् – वरवरमुनिम्, नमामि – व्याख्यानवैदग्ध्येन जितस्सन्निर्ममोऽनुभवामि । सम्सारवैरिणस्सरहस्याश्च वाधूलवरदनारायणगुरुप्रभृतयः, ते च स्वप्नमुखेन भगवन्निदेशेन वरवरमुनिमशिश्रयन् । तदुक्तम् काव्ये – *पुनस्स्वप्नापदेशेन देशे देशे निरङ्कुशः । अयमर्चावतारत्वसमाधिमवधीरयन् ॥ अत्यमर्त्यतया तस्य तत्त्वमात्यन्तिकम् हितम् । असङ्कुचितमाचख्यौ भुजङ्गशयनः पुमान् ॥ देशे देशे विशेषज्ञैरज्ञैरप्यविशेषतः । आश्रित्य तत्पदद्वन्द्वमश्रूयत परम् हितम् ॥ रामानुजपदद्वन्द्वसौगन्ध्यनिधयोऽपि ये । असाधारणमौन्नत्यमवधूय निजम् धिया ॥ उत्तेजयन्तस्स्वात्मानम्  तत्तेजस्सम्पदा तदा ॥ श्रुत्वैव वैभवम् तस्य तत्त्वेन शरणम् गताः । सिन्धुस्सद्गुणरत्नानाम् सीमा शेषत्वसम्पदाम् ॥ वाधूलवरदाचार्यो मौलिरत्नम् मनीषिणाम् । अभदनुपमस्तस्य विभूषणमनुत्तमम् ॥ रामानुजमुनीन्द्रस्य श्रीमान् दाशरथिर्यथा* इति । उत्तेजनम् – शरवत्तन्मयो भवेदित्युक्तशरदृष्टान्ताभिप्रायेण । यद्वा उत्तेजनम् कुर्वत इत्यर्थेन कौस्तुभत्वाभिप्रायेणोक्तम् । एतेन, पूर्वमानवाप्तातिशयलाभाय भगवत्साक्षिकप्रभावयुक्तव्यक्तिविशेषाश्रयणम् यक्तमित्युक्तम् भवति । *यदर्थ तु कृतम् पूर्वम् तदर्थम् न पुनः क्रिया* इति न्यायात् । उक्तम् च शाण्डिल्येन – *आचार्यचित्तानुगुणम् सिद्धान्तानुगणम् त्वपि । अन्यत्र शृणुयाज्ज्ञेयमनुज्ञाप्यैव जीवति ॥ यस्मिन् परमविद्यायाम् न सम्सिद्धिरबोधतः । गुरोर्वाऽप्यन्यतो ग्राह्या परा विद्या गुणान्विवितात्* इति । व्याचक्षाणमित्यत्र ताच्छीलिकश्चानच्प्रत्ययः, तेन तत्र वैदग्ध्यम् व्यञ्जितम् । व्याख्यानवैदग्ध्यम् काव्ये विस्तरेणोक्तम् आशङ्कामविधेयानाम् – *वाक्यानाम वतारणे । अविस्तरेण निर्णीतमर्थानाम् प्रतिपादने ॥ पूर्वोत्तरानुसन्धानमभिप्रायप्रकाशने । असन्दिग्धम् समाधानमाक्षेपेषु निरुत्तरम् ॥ वीक्षमाणश्चिरम् तत्र व्यस्मयन्त विचक्षणाः । स एव भगवानेवम् सहस्रवनस्स्वयम् ॥ अवातरदिति व्यक्तमित्यवोचन् परस्परम् । श्रुत्यन्तसूत्रसूक्ष्मार्थप्रकाशनपरैः पुरा ॥ परमैर्योगिभिर्दृष्टान् प्रबन्धानभ्यधात् परम् । प्रस्तुतानन्वभूत्तत्र भगवद्गुणविग्रहान् ॥ प्रपेदे परमम् हर्षम् प्रत्यक्षानुभवादपि । शब्दशक्तिरियम् नित्या शृण्वताम् गृह्णतामपि ॥ सर्वात्मना हृदि स्वार्थान् सन्निधापयतीति यत् । अतश्शास्त्रेवभिष्वङ्गम् कुर्वन् सर्वोपकारकः ॥ सत्त्वशुद्धिकरम् ध्येयसन्निकर्षेण चेतसः । गुणानुभवनम् पत्युर्भृत्यकृत्यमपि प्रियम् ॥ वाचिकम् वाचिकेनैव सर्वदा विदधे सुधीः । तत्तत्प्रबन्धकाराणाम् गुरूणाम् तत्र सन्निधिम् ॥ तानेव तत्तदर्थानाम् व्याख्यातॄनप्यमन्यत ॥ श्रोतृषु प्रथमत्वम् तु चिन्तयन्नात्मनस्स्वयम् । अनुवक्तृत्वमास्थाय परेभ्यः प्रत्यपादयत् । अज्ञानामग्रगण्यम् मामधिष्ठाय यतीश्वरः । अज्ञातज्ञापने प्राज्ञमकार्षीदित्यबुध्यत ॥ प्रत्यक्षलक्षितस्स्वात्मतत्त्वयाथात्म्यसम्पदाम् । आचार्याधीनवृत्तीनाम् प्राचामेव प्रचेतसाम् ॥ चरित्राणि पवित्राणि चित्राणि वचनानि च । मध्ये मध्ये मुनिर्ध्यात्वा भृत्यानाम् प्रतिपादयन् ॥ स्वैरालापैस्सुमधुरैस्स्वस्वरूपविनिश्चयम् । श्रोतॄणाम् मतिमारोप्य सुव्यक्तम् प्रत्यबोधयत्* इति । भगवद्दिव्यालयात् स्वनिकेतनागमानन्तरम् व्याख्यानम् भरद्वाजेनोक्तम् – *प्रभुम् भक्तपराधीनम् नित्यमालोकयेद्धरिम् । विमानमथवा तस्य दूराद्गोपुरमेव वा ॥ स्वरूपरूपविभवगुणकर्मादि शाङ्गिण: । व्याचक्षीत निबध्नीयात् शृणुयाद्विलिखेत् पठेत् ॥ चतुर्भुजमुदाराङ्गम् श्यामपद्मनिभेक्षणम् । श्रीभूमिनीलासहितम् चिन्तयेच्च सदा हृदि* इति *सद्भिः प्रणिहिताम्श्चान्यान् प्रबन्धान् परिशीलयेत्* इति च । व्याचक्षीत निशध्नीयादिति वचनप्रत्यभिज्ञानार्थमेव व्याचक्षाणमिति निर्दिष्टम् । अनेन *कृपयाऽऽश्रमिणस्सर्वे धर्मम् ब्रूयुस्त्वलिङ्गिने*, *परिव्राऽपि वा ब्रूयात्* इति विशेषशास्त्रबलात् *न व्याख्यानपरो भवेत्*, *न व्याख्यामुपयञ्जीत* इति सामान्यनिषेधस्त्रैवर्गिकशिष्येभ्यः ख्यात्याद्यर्थेन मोक्षानुपयुक्तग्रन्थव्याख्यानविषय इति ध्वनितम् ॥ २७ ॥

 

ततः स्वचरणाम्भोजस्पर्शसम्पन्नसौरभैः ।

पावनैरर्थिनस्तीर्थैः भावयन्तम् भजामि तम् ॥ (२८)

तत इति ॥ ततः – दिव्यप्रबन्धव्याख्यानानन्तरम्, स्वस्य – स्वाचार्यकरणत्वेन स्वात्मानम् भावयतः स्वस्य, चरणाम्भोजयोः – पद्मतुल्यश्रीपादयोः, सौरभ्यपावनत्वाभ्याम् सादृश्यम् विवक्षितम् । स्पर्शेन – सम्बन्धेन, सम्पन्नसौरभैः – समधिकसौगन्ध्यभरितैः, पावनैः – पवित्रैः, इदम् विशेषणद्वयम् पद्मसादृश्यवर्णनफलितम् । तीर्थैः – विशिष्टसलिलैः, *तीर्थम् शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भः* इति कोशः । तरन्त्यनेनम् तीर्थमिति व्युत्पत्तिश्चात्र द्रष्टव्या । अर्थिनः – याचमानान् पूर्वोक्तसम्सार वैरिणः कर्म, भावयन्तमुज्जीवयन्तम्, भवनम् सत्ता, तम् वरवरमुनिम्, भजामि । श्रीपादतीर्थप्रदानप्रयुक्तौदार्यानुसन्धानेन विद्धस्सन्निर्ममोऽनुभवामि । अत्र पावनैरित्यत्र *स्नातम् च गुरुणा यत्र तीर्थम् नान्यत्ततोऽधिकम् इति भरद्वाजवचनमभिसम्हितम् । अर्थिन इत्यत्र च – *प्रक्षाल्य चरणौ पात्रे प्रणिपत्योपयुज्य च* इति तद्वचनमभिप्रेतम् । ऋषिजुष्टाम्भोवाचिना तीर्थशब्देन च ऋषयोऽप्येतच्छ्रीपादाम्बु जुषन्त इति लभ्यते । *अनुव्रनाम्यहम् नित्यम् पूयेयेत्यङ्घ्रिरेणुभिः* इति न्यायात् । तीर्थैरिति बहुत्वम् प्रदानार्थावदानोपाधिकम् सत् कपिञ्जलाधिकरणन्यायात् त्रित्वे पर्ययस्यति । स्मर्यते च – *त्रिः पिबेद्विन्दुवर्जितम्* इति । कैश्चित्तु द्विवारमेव दीयते । तेषामयमाशयः – उशनस्मृतौ *यत्र भागवतानाम् तु पादोदकनिषेवणम् । पावनम् सर्वभूतानाम् सोमपानसमम् स्मृतम्* इति भागवतपादोदकनिषेवणस्य सोमपानसाम्यमुक्तम् । तत्र चासङ्कोचात् फलतः प्रकारतश्च तत्साम्यम् विवक्षितम् । प्रकारश्च सङ्ख्याविशेषः, द्विवारम् हि सोमपानम् क्वचिदनुष्ठीयते । तथा च सोमप्रयोगे माध्यन्दिनसवनमधिकृत्योक्तम् – *होतृका: स्वम् स्वम् चमसम् द्विर्भक्षयन्ति* इति । तथा च द्वित्वसङ्ख्ययाऽपि सोमपानसाम्यात् पादोदकनिषेवणम् द्विवारम् कार्यम् इति । तदपि यथासम्प्रदायमनुष्ठेयम् । भावयन्तमित्यनेन प्रायश्चित्तार्थत्वमत्र व्युदस्यते । सम्पन्नसौरभत्वम् च स्वसम्बन्धादन्येषामपि तत्सम्पादकत्वम्, तेन तदीयानामपि तत्सम्बन्धात्तीर्थपादत्वमित्युक्तम् भवति । भरद्वाजसम्हितायाम् च – *दण्डवत्प्रणमेद्भूमावुपेत्य गुरुमन्वहम् । दिशे वाऽपिम् नमस्कुर्याद्यत्रासौ वसति स्वयम्* इत्युपक्रम्य, आचार्यविषये शिष्यस्य वृत्तिविशेषानुक्त्वा मध्ये *प्रक्षाल्य चरणौ पात्रे प्रणिपत्योपयुज्य च* इत्युक्त्वा, तदनन्तरमपि काम्श्चन वृत्तिविशेषानुक्त्वा – *आचार्योऽपि तथा शिष्यम् स्निग्धो हितपरस्सदा । प्रबोध्य बोधनीयानि वृत्तिमाचारयेत् स्वयम्* इत्युक्तेराचार्याद्धितश्रवणस्याचार्यपादतीर्थो पयोगोऽङ्गमिति सन्निधिप्रकरणाभ्यामवगम्यत इत्यभिप्रायेण ततस्स्वचरणाम्भोजेत्युक्तमिति द्रष्टव्यम् ॥ २८ ॥

 

आराध्य श्रीनिधिम् पश्चाद् अनुयागम् विधाय च ।

प्रसादपात्रम् माम् कृत्वा पश्यन्तम् भावयामि तम् ॥ ( २९ )

आराध्येति ॥ पश्चात् – माध्यन्दिनकृत्यानुष्ठानानन्तरम्, तदुक्तम् काव्ये – *अथ माध्यन्दिनम् कृत्यम् कृत्वा सत्त्वोत्तरो मुनिः । आराध्य विधिवद्देवमन्वभूद्रङ्गभूषणम्* इति । श्रीनिधिम् – श्रिया लक्ष्म्या निधिम् निधिवत् सम्पद्भूतम्, श्रियश्श्रियम् रङ्गनिधिम्, आराध्य – अर्चयित्वा, *यथा युवानम् राजानम् यथा च मदहस्तिनम् । यथा प्रियातिथिम् योग्यम् भगवन्तम् तथाऽर्चयेत् ॥ सतीव प्रियभर्तारम् जननीव स्तनन्धयम् । आचार्यम् शिष्यचन्मन्त्रम् मन्त्रिवल्लालयेद्धरिम्* इति शाण्डिल्योक्तरीत्या भगवन्तम् परमभक्त्याऽऽराध्येत्यर्थः । अनुयागम् – अनुयागसञ्ज्ञितम् परमात्मसमाराधनसमाप्तिप्रसादप्रतिपत्तिसम्स्काररूपम्, विधाय, यथोक्तम् भरद्वाजेन – *जुहुयादाहुतीः पञ्च विष्णौ प्राणादिसञ्ज्ञिके* इत्युपकृष्य, *कृत्वाऽनु यागम्* इति । शाण्डिल्येनाप्युक्तञ्ज्ञि – *धातारम् हृदयान्तस्स्थम् ध्यात्वा पादाम्बुपूर्वकम् । तथाऽस्ये जुहुयादन्नम् तत्तन्मन्त्रैस्समाहितः ॥ ध्यायन्नेव परम् ब्रह्म भोक्तारम् हृदयस्थितम् । अश्नीयादत्वरो मन्त्री भोज्यम् सर्वमकुत्सयन्* – इति । *पथ्यम् मितम् च शुद्धम् च रस्यम् हृदयनन्दनम् । स्निग्धम् दृष्टिप्रियम् कोष्णमन्नम् भोज्यम् मनीषिभिः* इति च । अत्र चैकान्नाम्यनुज्ञा तु गुरुवचनादिना न दुष्यतीति पूर्वमेवोक्तम् । चकारेण तदीयाराधनमुच्यते । यथोक्तम् काव्ये – *ततस्तन्मुखसम्स्पर्शसरसेन सुगन्धिना । शुचिना सुकुमारेण सत्त्वसम्शुद्धिहेतुना ॥ भक्तिपूतम् प्रक्लृप्तेन भोज्येन भगवत्प्रियान् । तत्परस्तर्पयामास तत्प्रीतिप्रेमवृद्धये । आत्मानमात्मनः पश्यन् भोक्तारम् पुरुषम् परम् । अनुयागम् यथायोगम् निस्सङ्गो निरवर्तयत्* इति । तदीयाराधनम् च विशेषशास्त्रसिद्धम् । तदुक्तम् भरद्वाजपरिशिष्टे – *मुनयस्सत्त्वनिष्ठानाम् लक्षणानि निबोधत । विष्णोदासैकफलता तदेकोपायता स्थितिः । तदाज्ञाकरणे प्रीतिस्तत्कर्मगुणकर्तिनम् । तच्चिह्नाङ्कितदेहत्वम् तदीयाराधने रतिः । तदन्यस्पर्शवैराग्यमि- न्द्रियार्थेष्वलोलता । आचार्याधीनवृत्तित्वमाचार्यार्थात्मदेहता । क्रोधलोभमदालस्यमानमाहविहीनता । सत्यशौचदयाधैर्यक्षमासन्तोषयुक्तता । इत्येतैर्लक्षणैर्युक्ता वैष्णवाः* इति । अनेन *अपिचास्य कुतो दानम् दत्वा चास्य कुतः फलम् । दाता प्रतिगृहीता च प्रेत्यैव नरकम् व्रजेत्* इत्यादिकमवैष्णवयतिविषयम् इत्युक्तम् भवति । माम् – पूर्वम् प्रसादप्रस्तावे *यत्यन्नम् यतिपात्रस्थम्* इत्यादिसामान्यवचनोदाहरणमुखरतया दुर्बुद्धिवशाद्विमुखम् माम्, प्रसादपात्रम् कृत्वा – प्रसादस्य भुक्तोज्झितस्य भोजनपात्रस्थस्य भोज्यशेषस्य पात्रम् – योग्यम् भाजनम् वा कृत्वा, *योग्यभाजनयोः पात्रम्* इति कोशः । पश्यन्तम् – तथाभूतस्यास्य केयम् व्युष्टिरिति सविस्मयहर्षकरुणम् प्रेक्षमाणम्, तम् – वरवरमुनिम्, भावयामि – ध्यायामि । प्रसादपात्रमित्युच्छिष्टाशनात्मिका वृत्तिरुक्ता । तदुक्तम् भरद्वाजेन – *योऽसौ मन्त्रवरम् प्रादात्सम्सारोच्छेदसाधनम् । प्रतीच्छेद्गुरुवर्यस्य तस्योच्छिष्टम् सुपावनम्* इति । अत्र – आचार्यविषये शिष्यस्य वृत्तिविशेषविधानप्रकरणात्तन्मध्यगतमिदम् नैमित्तिकात् गुरोरुच्छिष्टभोजनादन्यदेवेति स्फुटम् । अत्र च *यत्यन्नम् यतिपात्रस्थम्* इत्यादिकमवैष्णवविषयम् गुरुव्यतिरिक्तयतिविषयम् चेति द्रष्टव्यम् ॥ २९ ॥

 

ततश्चेतस्समाधाय पुरुषे पुष्करेक्षणे ।

उत्तम्सितकरद्वन्द्वम् उपविष्टमुपह्वरे ॥ (३०)

तत इति ॥ ततः – अनुयागानन्तरम्, पुष्करेक्षणे – पुण्डरीकाक्षे, पुरुषे – पुरुषशब्दवाच्ये भगवति, चेतः – हृदयम्, समाधाय – समाधिमत्कृत्वा, समाधिर्योगः । उत्तम्सितम् – शिरोभूषणीकृतम् करद्वन्द्वम् – पाणिद्वन्द्वम् यथा भवति तथा, अत्र द्वन्द्वशब्दोऽञ्जलित्वाभिप्रायकः, उत्तम्सितत्वसामर्थ्यात् । उपह्वरे – रहसि, *रहोन्तिकमुपहरे*, उपविष्टम् – आसीनम्, अनेन *उपविश्यासने युञ्जयात्* इति वचनम् स्फोरितम् । अस्य च *नित्यम् मुनि वरवरम् निभृतो भजामि* इत्यत्रान्वयः। अनुयागानन्तरम् योगश्शाण्डिल्येनोक्तः – *अष्टाङ्गयोगप्रीतिम् च कृत्वा ध्यानपरो वशी* इति । भरद्वाजश्चाह – *कृत्वाऽनुयागम् कुर्वीत स्वाध्यायम् वैष्णवम् परम् । ततो युञ्जीत चात्मानम् पुरुषे पुष्करेक्षणे* इति । ततश्च युञ्जीतेत्यन्वयः । चकारेण स्वाध्यायात् पूर्वमपीति लभ्यते, तेनानुयागानन्तर्य सिद्धम् । योगश्चाराधनवत् कालत्रयेऽप्यनुष्ठेय इत्युत्तरत्र वक्ष्यते । पुष्करेक्षणत्वलिङ्गाद्योगिहृदये सविग्रहावस्थानमुच्यते । पराशरश्चाह – *देवतिर्यङ्मनुष्यादिचेतनेष्वपि सम्स्थितः । तदन्तर्याम्यवस्था हि विष्णोस्सर्वगतस्य वै । स एव योगिहृदयपङ्कजे तु सविग्रहः* इति । अत्र च *स यश्चायम् पुरुषे, यश्चासावादित्ये* , इत्यादित्य-मण्डलान्तर्वर्तिनः पुरुषान्तर्वतिनश्चैक्योक्तेः, *तस्य यथा कप्यासम् पुण्डरीकमेवमक्षिणी* इत्यादित्यमण्डलस्थस्य च पुण्डरीकाक्षत्वोपदेशात्, तदभिन्नस्य पुरुषान्तर्वर्तिनोऽपि पुण्डरीकाक्षत्वमित्यभिप्रायेण पुरुषे पुष्करेक्षण इति भरद्वाजेनोक्तम् । पुरुषपदम् च – *पूस्सञ्ज्ञे वै शरीरेऽस्मिन् शयनात् पुरुषो मतः* इति निर्वचनात् पुरुषान्तर्वतिनम् भगवन्तमाभिधत्ते । अत एव काव्येऽप्येतद्योगप्रकरणे – *विमलायतलोचने । अपराधसहे नित्यम् दहराकाशगोचरे* – इत्युक्तम् । अत्रत्यदहराकाशशब्दो – *ब्रह्मपुरे दहरम् पुण्डरीकम् वेश्म* इत्युक्तहृदयपुण्डरीकविवरमाह । अपराधसह इत्येतत् *अङ्गष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते* इति श्रुत्युक्तार्थकथनम् । आभ्याम्  दहरप्रमिताधिकरणार्थै स्मारितौ । *ततश्चेतस्समाधाय पुरुषे पुष्करेक्षणे* इत्येतच्च, *ततो युञ्जीत चात्मानम् पुरुषे पुष्करेक्षणे* इत्यस्य शब्दतोऽर्थतश्च प्रत्यभिज्ञापकम् । तत्र ततश्चेतस्समाधायेत्येतत् *ततो युञ्जीत चात्मानम्* इत्यस्यार्थतः प्रत्यभिज्ञापकम्, चेत इत्यात्मानमित्यस्य व्याख्यानम् । *आत्मा यत्नधृतिस्वान्तस्वभावपरमात्मसु* इति हि रत्नमाला । समाधायेति च युञ्जीतेत्यस्य व्याख्यानम्, युजिसमाधाविति र्थ्र्थनिर्देशः । तत इत्येतत्तु वचनस्थचशब्दव्याख्यानमिति द्रष्टव्यम् । पुरुषे पुष्करेक्षण इत्येतत् शब्दतस्तत्प्रत्यभिज्ञापनम् । प्रत्यभिज्ञापनप्रयोजनम् तूक्तमेव ॥ ३० ॥

 

अब्जासनस्थमवदातसुजातमूर्तिम् आमीलिताक्षमनुसम्हितमन्त्ररत्नम् । आनम्रमौलिभिरुपासितमन्तरङ्गैः नित्यम् मुनिम् वरवरम् निभृतो भजामि ॥ (३१)

अब्जेति ॥ अजासनस्थम् – पद्मासनस्थितम्, योगे पद्मासनम् विश्वामित्रेणोक्तम् – *ततो निवातके रम्ये निम्नोन्नतविवर्जिते । कुशाजिनसुचेलानि उपर्युपरि विन्यसेत् । पद्मासनम् तु तत्रैव कृत्वाङ्गानि समम् नयेत् इति । अवदाता – क्षीरसङ्घातगौरी, सुजाता -कमनीया, मूर्तिविग्रहो यस्य स तथोक्तस्तम्; आमीलिताक्षम् – ईषन्मीलितलोचनम्, स्मर्यते हि *नासाग्रन्यस्तनयनः* इति । अनुसम्हितमन्त्ररत्नम् – उपाम्शूच्चार्यमाणद्वयम्, *अनेन मन्त्ररत्नेन, मत्प्रियेण भजेत्सदा* इति युक्तम् । आनम्रमौलिभिः -सम्यगवनतशिरस्कैः, अन्तरङ्गैः -वाधूलवरदाचार्योभयवेदान्ताचार्यप्रभृतिभिः, उपासितम् – निरन्तरम् साक्षात्क्रयमाणम्, *सदा परगुणाविष्टो द्रष्टव्यस्सवदोहिभिः* इति ह्युक्तम् । वरवरम् मुनिम्, निभृतस्सन् – अवहितस्सन्, अहम्, नित्यम् भजामि -सर्वकालम् सेवे, *विग्रहालोकनपरः* इति ह्युक्तम् ॥ ३१ ॥

 

ततश्शुभाश्रये तस्मिन् निमग्नम् निभृतम् मनः ।

यतीन्द्रप्रवणम् कर्तुम् यतमानम् नमामि तम् ॥ (३२)

तत इति ॥ ततः – यतीन्द्रचरणद्वन्द्वप्रवणेनैव चेतसा तदुद्देश्यभगवद्योगानन्तरम्, तस्मिन् – पूर्वोक्ते, शुभाश्रये – पुष्करेक्षणे पुरुषे, हेयप्रत्यनीकत्वे सति चित्ताकर्षकत्वम् शुभाश्रयत्वमित्युक्तम् पूर्वैः । निमग्नम् – अवगाढम्, निभृतम् – निष्पन्दम्, मनः कर्म, यतीन्द्रप्रवणम् कर्तुम् – यतीन्द्रप्रवणमेव कर्तुम्, पूर्वत्र हि *यतीन्द्रचरणद्वन्द्वप्रवणेनैव चेतसा* इत्येतत् कर्तव्यभागेषु स्वाधिकारानुरूप्यावगमनायान्यविशेषणतया निर्दिष्टम् । अत्र तु तस्यानन्यार्थत्वमुच्यते । यतमानम् – आरभमाणम्, तम् – यतीन्द्रप्रवणत्वेन प्रसिद्धम् वरवरमुनिम्, नमामि -चरमपर्वनिष्ठाविशेषगरिष्ठतानुसन्धानेन निर्भरोऽहम् तत्सम्बन्धमात्मनोऽनुसन्दधामि । निष्ठावत्सम्बन्धो हि निष्ठाप्रापक इति भावः ॥ ३२ ॥

इति पूर्वदिनचर्या समाप्ता

इति दिनचर्याव्याख्यायाम् सदाचारदीपिकासमाख्यायाम्

पूर्वदिनचर्याविभागः ॥

—————-

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.