पादुकासहस्रम्
निर्वेदपद्धतिः
प्रपद्ये पादुकां देवीं परविद्यामिव स्वयम् । यामर्पयति दीनानां दयमानो जगद्गुरुः।। 31.1
अपि जन्मनि पादुके ! परस्मिन् अनघैः कर्मभिरीदृशो भवेयम् । य इमे विनयेन रङ्गभर्तुः समये त्वां पदयोः समर्पयन्ति।। 31.2
परिवर्तयिता पितामहादीन् त्वमिवानन्तमसौ वहत्यनेहा । अधुनाऽपि न शौरिपादुके ! त्वां अनघालम्बनमभ्युपैति चित्तम्।। 31.3
कमलाध्युषिते निधौ निरीहे सुलभे तिष्ठति रङ्गकोशमध्ये । त्वयि तत्प्रतिलम्भने स्थितायां परमन्विच्छति पादुके ! मनो मे।। 31.4
यद्यप्यहं तरळधीस्तव न स्मरेयं न स्मर्तुमर्हति कथं भवती स्वयं मे । वत्से विहारकुतुकं कलयत्यवस्था का नाम केशवपदावनि ! वत्सलायाः।। 31.5
मातर्मुकुन्दकरुणामपि निह्नुवानात् किं वा परं किमपि किल्बिषतो मदीयात् । गाढं गृहीतचरणागमनापदेशात् तत्प्रेरणप्रणयिनी तव चेन्न लीला।। 31.6
क्षीबाऽसि काञ्चनपदावनि ! कैटभारेः पादारविन्दमकरन्दनिषेवणेन । देवि ! त्वदन्तिकजुषः कथमन्यथा मे दीनाक्षराणि न शृणोषि दयाधिका त्वम्।। 31.7
मातस्त्वदर्पितभरस्य मुकुन्दपादे भद्रेतराणि यदि नाम भवन्ति भूयः । कीर्तिः प्रपन्नपरिरक्षणदीक्षितायाः किं न त्रपेत तव काञ्चनपादरक्षे।। 31.8
दौवारिकद्विरसनप्रबलान्तरायैः दूये पदावनि ! दुराढ्यबिलप्रवेशैः । तद्रङ्गधामनिरपायधनोत्तरायां त्वय्येव विश्रमय मङ्क्षु मनोरथं मे।। 31.9
व्यामुह्यतां त्रिविधतापमये निदाघे मायाविशेषजनितासु मरीचिकासु । सं स्पृष्टशौरिचरणा चरणावनि ! त्वं स्थेया स्वयं भवसि नश्चरमे पुमर्थे।। 31.10
अच्छेद्यया विषयवागुरया निबद्धान् दीनान् जनार्दनपदावनि ! सत्पथस्था । प्रायः क्रमेण भवती परिगृह्य मौळौ कालेन मोचयति नः कृपया सनाथा।। 31.11
सं वाहिका चरणयोर्मणिपादरक्षे ! देवस्य रङ्गवसतेर्दयिता ननु त्वम् । कस्त्वां निवारयितुमर्हसि योजयन्तीं मातः ! स्वयं गुणगणेषु ममापराधान्।। 31.12
किं वा भविष्यति परं कलुषैकवृत्तेः एतावताऽप्यनुपजातमनेहसा मे । एकं तदस्ति यदि पश्यसि पादुके ! ते पद्मासहायपदपङ्कजभोगसाम्यम्।। 31.13
विविधविषयचिन्तासन्तताभिश्चिरं मां जनितकलुषमित्थं देवि ! दुर्वासनाभिः । पदसरसिजयोस्त्वं पादुके रङ्गभर्तुः परिमळपरिवाहैः पावनैर्वासयेथाः।। 31.14
शरणमधिगतस्त्वां शार्ङ्गिणः पादरक्षे ! सकृदपि विनियुक्तं त्वत्सपर्याधिकारे । पुनरपि कथमेनं हस्तमुत्तानयेयं धनमदमुदितानां मानवानां समाजे।। 31.15
यदि किमपि समीहे कर्म कर्तुं यथावत् प्रतिपदमुपजातैः प्रत्यवेयां निमित्तैः । अवधिरसि यदि त्वं तत्र नैमित्तिकानां शरणमिह न किं मे शौरिपादावनि ! स्याः।। 31.16
अन्तर्लीनैरघपरिकरैराविला चित्तवृत्तिः शब्दादीनां परवशतया दुर्जयानीन्द्रियाणि । विष्णोः पादप्रणयिनि ! चिरादस्य मे दुः खसिन्धोः पारं प्राप्यं भवति परया विद्यया वा त्वया वा।। 31.17
गोमायूनां मलयपवने तस्कराणां हिमां शौ दुर्वृत्तानां सुचरितमये सत्पथे त्वत्सनाथे । तत्त्वज्ञाने तरळमनसां शार्ङ्गिणः पादरक्षे ! नित्योद्वेगो भवति नियतेरीदृशी दुर्विनीतिः।। 31.18
काले जन्तून् कलुषकरणे क्षिप्रमाकारयन्त्याः घोरं नाहं यमपरिषदो घोषमाकर्णयेयम् । श्रीमद्रङ्गेश्वरचरणयोरन्तरङ्गैः प्रयुक्तं सेवाह्वानं सपदि शृणुयां पादुकासेवकेति।। 31.19
पाषाणकल्पमन्ते परिचित- गौतमपरिग्रहन्यायात् । पतिपदपरिचरणार्हं परिणमय मुकुन्दपादरक्षिणि ! माम्।। 31.20
*******