पादुकासहस्रम्
फलपद्धतिः
उपाख्यातां तथात्वेन वसिष्ठाद्यैर्महर्षिभिः । उपायफलयोः काष्ठामुपासे रामपादुकाम्।। 32.1
निविशेय निरन्तरं प्रतीतः त्रिदशानां विभवं तृणाय मत्वा । सविधे तव देवि ! रङ्गभर्तुः पदलीलाकमलं समुद्वहन्त्याः।। 32.2
किमहं मणिपादुके ! त्वया मे सुलभे रङ्गनिधौ श्रिया सनाथे । करणानि पुनः कदर्थयेयं कृपणद्वारदुरासिकादिदुः खैः।। 32.3
सकृदप्यनुभूय रङ्गभर्तुः त्वदुपश्लेषमनोहरं पदाब्जम् । अपुनर्भवकौतुकं तदैव प्रशमं गच्छति पादुके ! मुनीनाम्।। 32.4
अपरस्परपातिनाममीषाम् अनिदम्पूर्वनिरूढसन्ततीनाम् । भरतव्यसनादनूनसीम्नां दुरितानां मम निष्कृतिस्त्वमासीः।। 32.5
त्वदुपासनसम्प्रदायविद्भिः समये सात्त्वतसेविते नियुक्ताः । भरतव्रतिनो भवाम्बुराशिं कतिचित् काञ्चनपादुके ! तरन्ति।। 32.6
अलमच्युतपादुके ! यथावत् भवती यच्च पदं त्वदेकधार्यम् । इतरेतरभूषितं तदेतत् द्वितयं सं वननाय चेतसो नः।। 32.7
अनन्यसामान्यतया मुरारेः अङ्गेष्ववाप्तेषु किरीटमुख्यैः । पादावनि ! त्वं निजमेव भागं सर्वात्मसाधारणतामनैषीः।। 32.8
समाश्रितानां मणिपादुके ! त्वां विपश्चितां विष्णुपदेऽप्यनास्था । कथं पुनस्ते कृतिनो भजेरन् वासादरं वासवराजधान्याम्।। 32.9
विमृश्य रङ्गेश्वरपादरक्षे ! वारक्रमं नूनमवारणीयम् । पद्माग्रहेऽपि स्पृशती प्रतीता स्थूलेन रूपेण वसुन्धरा त्वाम्।। 32.10
अभिरक्षसि त्वमनपायनिधिं मणिपादुके ! मधुभिदश्चरणम् । अत एव देवि ! तदनन्यधनाः शिरसा वहन्ति भवतीं कृतिनः।। 32.11
पदयुगमिव पादुके ! मुरारेः भवति विभूतिरकण्टका त्वयैव । कथमिव हृदयानि भावुकानां त्वदनुभवादुपजातकण्टकानि।। 32.12
ज्ञानक्रियाभजनसीमविदूरवृत्तेः वैदेशिकस्य तदवाप्तिकृतां गुणानाम् । मौळौ ममासि मधुसूदनपादुके ! त्वं गङ्गेव हन्त पतिता विधिनैव पङ्गोः।। 32.13
रङ्गेश्वरस्य यदिदं मणिपादरक्षे ! पादारविन्दयुगळं भवतीसमेतम् । पुं सामुपोषितविलोचनपारणार्हं क्षीरं तदेतदिह शर्करया समेतम्।। 32.14
कामादिदोषरहितं त्वदनन्यकामाः कर्म त्रयोदशविधं परिशीलयन्तः । पादावनि ! त्वदनुषङ्गविशेषदृश्यम् एकान्तिनः परिचरन्ति पदं मुरारेः।। 32.15
मौळौ स्थिता मखभुजामथवा श्रुतीनां तद्रङ्गराजचरणावनि ! वैभवं ते । अस्मादृशामपि यदि प्रथितं ततः स्यात् सौलभ्यमम्ब ! तदिदं तव सार्वभौमम्।। 32.16
स्वप्नेऽपि चेत् त्वमसि मूर्धनि सन्निविष्ट् आ नम्रस्य मे नरकमर्दनपादरक्षे ! । स्थाने तदेतदिह देवि ! यतः समाधौ सन्तो विदुस्तमपि तादृशबुद्धिगम्यम्।। 32.17
बद्धाञ्जलिः परिचरन्नियमेन रङ्गे विश्राणिताच्युतनिधिं मणिपादुके ! त्वाम् । कस्यापि कूणितदृशो धनिनः पुरस्तात् उत्तानयेय न कदाऽपि करं विकोशम्।। 32.18
त्वय्यर्पितेन चरणेन सदध्वभाजः पादावनि ! प्रथितसात्त्विकभावदृश्याः । रङ्गेशवद्विदधते मुहुरङ्गहारान् रङ्गे महीयसि नटा इव भावुकास्ते।। 32.19
येन स्थिता शिरसि मे विधिनाऽधुना त्वं तेनैव देवि ! नियतं मम साम्पराये । लक्षीकरिष्यसि पदावनि ! रङ्गनाथं लक्ष्मीपदाम्बुरुहयावकपङ्कलक्ष्यम्।। 32.20
हरिचरणसरोजे भक्तिभाजां जनानाम् अनुकरणविशेषैरात्मनैवोपहास्यम् । परिणमय दयार्द्रा पादुके ! तादृशं मां भरतपरिषदन्तर्वर्तिभिः प्रेक्षणीयम्।। 32.21
दुरितमपनयन्ती दूरतः पादुके ! त्वं दनुजमथनलीलां देवतामानयन्ती । अनितरशरणानामग्रिमस्यास्य जन्तोः अवशकरणवृत्तेरग्रतः सन्निधेयाः।। 32.22
चरमनिगमगीते सप्ततन्तौ समाप्ते निजसदनसमीपे प्रापयिष्यन् विहारम् । ज्वलनमिव भवत्योः सम्यगारोपयेन्मां प्रथमवरणवश्यः पादुके ! रङ्गनाथः।। 32.23
पुनरुदरनिवासच्छेदनं सह्यसिन्धोः पुलिनमधिवसेयं पुण्यमाब्रह्मलाभात् । परिणमति शरीरे पादुके ! यत्र पुं सां त्वमसि निगमगीता शाश्वतं मौळिरत्नम्।। 32.24
बहुविधपुरुषार्थग्रामसीमान्तरेखां हरिचरणसरोजन्यासधन्यामनन्यः । भरतसमयसिद्धां पादुके ! भावयं स्त्वां शतमिह शरदस्ते श्रावयेयं समृद्धिम्।। 32.25
तिलकयसि शिरो मे शौरिपादावनि ! त्वं भजसि मनसि नित्यं भूमिकां भावनाख्याम् । वचसि च विभवैः स्वैर्व्यक्तिमित्थं प्रयाता तदिह परिणतं मे तादृशं भागधेयम्।। 32.26
अजनिषि चिरमादौ हन्त देहेन्द्रियादिः तदनु तदधिकस्सन्नीश्वरोऽहं बभूव । अथ भगवत एवाभूवमर्थादिदानीं तव पुनरहमासं पादुके ! धन्यजन्मा।। 32.27
त्वय्यायत्तौ भगवति शिलाभस्मनोः प्राणदानात् आस्त्रीबालं प्रथितविभवौ पादपद्मौ मुरारेः । तामेवाहं शरसि निहितामद्य पश्यामि दैवात् आत्माधारां जननि भवतीमात्मलाभप्रसूतिम्।। 32.28
कथङ्कारं लक्ष्मीकरकमलयोग्यं निजपदं निदध्याद्रङ्गेशः कुलिशकठिनेऽस्मिन्मनसि नः । न चेदेवं मध्ये विशति दयया देवि ! भवती निजाक्रान्तिक्षुण्णस्मरशरशिखाकण्टकततिः।। 32.29
क्रीडालौल्यं किमपि समये पादुके ! वर्जयन्ती निर्वेशं स्वं दिशसि भवतीनाथयोः श्रीधरण्योः । मामप्येवं जनय मधुजित्पादयोरन्तरङ्गं रङ्गं याऽसौ जनयसि गुणैर्भारतीनृत्तरङ्गम्।। 32.30
इति रङ्गधुरीणपादुके ! त्वं स्तुतिलक्षेण सहस्रशो विमृष्टा । सफलं मम जन्म तावदेतत् यदिहाशास्यमतः परं किमेतत्।। 32.31
मातः स्वरूपमिव रङ्गपतेर्निविष्टं वाचामसीमनि पदावनि ! वैभवं ते । मोहादभिष्टुतवतो मम मन्दबुद्धेः बालस्य साहसमिदं दयया सहेथाः।। 32.32
ये नाम भक्तिनियताः कवयो मदन्ये मातः स्तुवन्ति मधुसूदनपादुके ! त्वाम् । लप्स्ये गुणां शविनिवेशितमानसानां तेषामहं सबहुमानविलोकितानि।। 32.33
सङ्घर्षयन्ति हृदयान्यसतां गुणां शे सन्तस्तु सन्तमपि न प्रथयन्ति दोषम् । तद्रङ्गनाथचरणावनि ! ते स्तुतीनाम् एका परं सदसतोरिह साक्षिणी त्वम्।। 32.34
इत्थं त्वमेव निजकेळिवशादकार्षीः इक्ष्वाकुनाथपदपङ्कजयोरनन्या । स्वीयं पदावनि ! मया सुमहच्चरित्रं सीतेव देवि ! सहजेन कवीश्वरेण।। 32.35
पृथुकवदनशङ्खस्पर्शनीत्या कदाचित् शिरसि विनिहितायाः स्वेन भूम्ना तवैव । स्तुतिरियमुपजाता मन्मुखेनेत्यधीयुः परिचरणपरास्ते पादुकेऽपास्तदोषाः।। 32.36
यदि स्फीता भक्तिः प्रणयमुखवाणीपरिपणं पदत्राणस्तोत्रं हृदि बिभृत रङ्गक्षितिभृतः । निरुन्मादो यद्वा निरवधिसुधानिर्झरमुचो वचोभङ्गीरेता न कथमनुरुन्धे सहृदयः।। 32.37
जयति यतिराजसूक्तिः जयति मुकुन्दस्य पादुकायुगळी । तदुभयधनास्त्रिवेदीं अवन्ध्ययन्तो जयन्ति भुवि सन्तः।। 32.38
************